Library·Asanga: Mahayanasutralankara·12

Asanga: Mahayanasutralankara 12

द्वादशो ऽधिकारः धर्मदेशनायां मात्सर्यप्रतिषेधे श्लोकः । प्राणान्भोगांश्च धीराः प्रमुदितमनसः कृच्छ्रलब्धानसारान् सत्त्वेभ्यो दुःखितेभ्य सततमवसृजन्त्युच्चदानप्रकारैः । प्रागेवोदारधर्मं हितकरमसकृत्सर्वथैव प्रजानां कृच्छ्रे नैवोपलब्धं भृशमवसृजतां वृद्धिगं चाव्ययं च

dvādaśo 'dhikāraḥ dharmadeśanāyāṃ mātsaryapratiṣedhe ślokaḥ | prāṇānbhogāṃśca dhīrāḥ pramuditamanasaḥ kṛcchralabdhānasārān sattvebhyo duḥkhitebhya satatamavasṛjantyuccadānaprakāraiḥ | prāgevodāradharmaṃ hitakaramasakṛtsarvathaiva prajānāṃ kṛcchre naivopalabdhaṃ bhṛśamavasṛjatāṃ vṛddhigaṃ cāvyayaṃ ca

Sanskrit only: no published translation is held for this verse.

कृच्छ्रलब्धानप्यसारान् क्षयित्वा[त्]प्राणान् भोगांश्च बोधिसत्त्वा दुःखितेभ्यः कारुण्यात् सततसमुदारैर्विसर्गैरुत्सृजन्ति प्रागेव धर्मं यो नैव कृच्छ्रेण वा भृशमपि वावसृजतां वृद्धिं गच्छति न क्षयं । धर्म नैरर्थक्यसार्थक्ये श्लोकद्वयं । धर्मो नैव च देशितो भगवता प्रत्यात्मवेद्यो यत आकृष्टा जनता च युक्त[युक्ति]विहितैर्धर्मैः स्वकीं धर्मतां स्वशान्त्यास्यपुटे विशुद्धिविपुले साधारणे ऽथाक्षये लालेनेव कृपात्मभिस्त्वजगरप्रख्यैः समापादिता

kṛcchralabdhānapyasārān kṣayitvā[t]prāṇān bhogāṃśca bodhisattvā duḥkhitebhyaḥ kāruṇyāt satatasamudārairvisargairutsṛjanti prāgeva dharmaṃ yo naiva kṛcchreṇa vā bhṛśamapi vāvasṛjatāṃ vṛddhiṃ gacchati na kṣayaṃ | dharma nairarthakyasārthakye ślokadvayaṃ | dharmo naiva ca deśito bhagavatā pratyātmavedyo yata ākṛṣṭā janatā ca yukta[yukti]vihitairdharmaiḥ svakīṃ dharmatāṃ svaśāntyāsyapuṭe viśuddhivipule sādhāraṇe 'thākṣaye lāleneva kṛpātmabhistvajagaraprakhyaiḥ samāpāditā

Sanskrit only: no published translation is held for this verse.

तत्र बुद्धा अजगरोपमास्तेषां स्वशान्ति[शान्ते?]रास्यपुटं धर्मकायः । विशुद्धिविपुलं सवासनक्लेशज्ञेयावरणविशुद्धितः । साधारणं सर्वबुद्धैः अक्षयमात्यन्तिकत्वात् । तस्मान्नैव निरर्थिका भवति सा या भावना योगिनां तस्मान्नैव निरर्थिका भवति सा या देशना सौगती । दृष्टो ऽर्थः श्रुतमात्रकाद्यदि भवेत् स्याद्भावनापार्थिका अश्रुत्वा यदि भावनामनुविशेत् स्याद्देशनापार्थिका

tatra buddhā ajagaropamāsteṣāṃ svaśānti[śānte?]rāsyapuṭaṃ dharmakāyaḥ | viśuddhivipulaṃ savāsanakleśajñeyāvaraṇaviśuddhitaḥ | sādhāraṇaṃ sarvabuddhaiḥ akṣayamātyantikatvāt | tasmānnaiva nirarthikā bhavati sā yā bhāvanā yogināṃ tasmānnaiva nirarthikā bhavati sā yā deśanā saugatī | dṛṣṭo 'rthaḥ śrutamātrakādyadi bhavet syādbhāvanāpārthikā aśrutvā yadi bhāvanāmanuviśet syāddeśanāpārthikā

Sanskrit only: no published translation is held for this verse.

तस्मान्न निरर्थिका योगिनां भावना भवति प्रत्यात्मवेद्यस्य धर्मस्य तद्वशेनाभिगमात् । न निरर्थिका देशना भवति युक्तिविहितैर्धर्मैः स्वधर्मतायां जनताकर्षणात् । यथा पुनर्भावना सार्थिका भवेद्देशना वा तत् श्लोकार्धेन दर्शयति । शेषं गतार्थम् । देशनाविभागे श्लोकः । आगमतो अधिगमतो विभुत्वतो देशनाग्रसत्वानां । मुखतो रूपात्सर्वा[र्वतआ]काशादुच्चरणतापि ॥॥॥

tasmānna nirarthikā yogināṃ bhāvanā bhavati pratyātmavedyasya dharmasya tadvaśenābhigamāt | na nirarthikā deśanā bhavati yuktivihitairdharmaiḥ svadharmatāyāṃ janatākarṣaṇāt | yathā punarbhāvanā sārthikā bhaveddeśanā vā tat ślokārdhena darśayati | śeṣaṃ gatārtham | deśanāvibhāge ślokaḥ | āgamato adhigamato vibhutvato deśanāgrasatvānāṃ | mukhato rūpātsarvā[rvataā]kāśāduccaraṇatāpi ......

Sanskrit only: no published translation is held for this verse.

देशनासंपतौ श्लोकद्वयं । विषदा संदेहजहा आदेया तत्त्वदर्शिका द्विविधा । संपन्नदेशनेयं विज्ञेयं[या] बोधिसत्त्वानां

deśanāsaṃpatau ślokadvayaṃ | viṣadā saṃdehajahā ādeyā tattvadarśikā dvividhā | saṃpannadeśaneyaṃ vijñeyaṃ[yā] bodhisattvānāṃ

Sanskrit only: no published translation is held for this verse.

अयं चतुष्कार्थनिर्देशेन श्लोकः । यदुक्तं ब्रह्मपरिपृच्छायां । चत्रुभिर्धर्मैः समन्वागता बोधिसत्त्वा महाधर्मदानं वितरन्ति सद्धर्मपरिग्रहणतया आत्मनः प्रज्ञोत्तापनतया सत्पुरूषकर्मकरणतया संक्लेशव्यवदानसंदेशनतया च । एकेन हि बाहुश्रुत्याद्विषदा देशना भवति । द्वितीयेन महाप्राज्ञत्वात् । संशयजहा परेषां संशयच्छेदात् । तृतीयेनानवद्यकर्मत्त्वादादेया । चतुर्थेन तत्त्वदर्शिका द्विविधा संक्लेशलक्षणस्य च तत्त्वस्य व्यवदानलक्षणस्य च द्वाभ्यां द्वाभ्यां सत्याभ्याम् । मधुरा मदव्यपेता न च खिन्ना देशनाग्रसत्त्वानां । स्फुटचित्रयुक्तगमिका निरामिषा सर्वगा चैव

ayaṃ catuṣkārthanirdeśena ślokaḥ | yaduktaṃ brahmaparipṛcchāyāṃ | catrubhirdharmaiḥ samanvāgatā bodhisattvā mahādharmadānaṃ vitaranti saddharmaparigrahaṇatayā ātmanaḥ prajñottāpanatayā satpurūṣakarmakaraṇatayā saṃkleśavyavadānasaṃdeśanatayā ca | ekena hi bāhuśrutyādviṣadā deśanā bhavati | dvitīyena mahāprājñatvāt | saṃśayajahā pareṣāṃ saṃśayacchedāt | tṛtīyenānavadyakarmattvādādeyā | caturthena tattvadarśikā dvividhā saṃkleśalakṣaṇasya ca tattvasya vyavadānalakṣaṇasya ca dvābhyāṃ dvābhyāṃ satyābhyām | madhurā madavyapetā na ca khinnā deśanāgrasattvānāṃ | sphuṭacitrayuktagamikā nirāmiṣā sarvagā caiva

Sanskrit only: no published translation is held for this verse.

अस्मिन्द्वितीये श्लोके मधुरा परेणाक्षिप्तस्यापरूषवचनात् । मदव्यपेता स्तुतौ सिद्धौ वा मदाननुगमनात् । अखिन्ना अकिलासिकत्वात् । स्फुटा निराचार्यमुष्टित्वात् कृत्स्नदेशनतः । चित्रा अपुनरुक्तत्वात् । युक्ता प्रमाणाविरुद्धत्वात् । गमिकाप्रतीतपदव्यञ्जनत्वात् । निरामिषा प्रसन्नाधिकारानधि[र्थि]कत्वात् । सर्वत्रगा यानत्रयगतत्वात् । वाक्संपत्तौ श्लोकः । अदीना मधुरा सूक्ता प्रतीता विषदा तथा [वाग्जिनात्मजे] । [यथार्हानामिषाचैव प्रमिता विषदा तथा]

asmindvitīye śloke madhurā pareṇākṣiptasyāparūṣavacanāt | madavyapetā stutau siddhau vā madānanugamanāt | akhinnā akilāsikatvāt | sphuṭā nirācāryamuṣṭitvāt kṛtsnadeśanataḥ | citrā apunaruktatvāt | yuktā pramāṇāviruddhatvāt | gamikāpratītapadavyañjanatvāt | nirāmiṣā prasannādhikārānadhi[rthi]katvāt | sarvatragā yānatrayagatatvāt | vāksaṃpattau ślokaḥ | adīnā madhurā sūktā pratītā viṣadā tathā [vāgjinātmaje] | [yathārhānāmiṣācaiva pramitā viṣadā tathā]

Sanskrit only: no published translation is held for this verse.

अदीना पौरी पर्षत्पूरणात् । मधुरा वल्गुः । सूक्ता विस्पष्टा सुनिरूक्ताक्षरत्वात् । प्रतीता विज्ञेया प्रतीताभिधानत्वात् । यथार्हा श्रवणीया विनेयानुरूपत्वात् । अनामिषा अनिःश्रित[ता]लाभसत्कारालोके[रश्लोके] । प्रतता[प्रमिता] अप्रतिकूला परिमितायामखेदात् । विषदा अपर्यात्ता । व्यञ्जनसंपत्तौ श्लोकद्वयं । उद्देशान्निर्देशात्तथैव यानानुलोमनात् श्लाक्ष्ण्यात् । प्रातीत्याद्याथार्हान्नैर्याण्यादानुकूल्यत्वात्

adīnā paurī parṣatpūraṇāt | madhurā valguḥ | sūktā vispaṣṭā sunirūktākṣaratvāt | pratītā vijñeyā pratītābhidhānatvāt | yathārhā śravaṇīyā vineyānurūpatvāt | anāmiṣā aniḥśrita[tā]lābhasatkārāloke[raśloke] | pratatā[pramitā] apratikūlā parimitāyāmakhedāt | viṣadā aparyāttā | vyañjanasaṃpattau ślokadvayaṃ | uddeśānnirdeśāttathaiva yānānulomanāt ślākṣṇyāt | prātītyādyāthārhānnairyāṇyādānukūlyatvāt

Sanskrit only: no published translation is held for this verse.

युक्तैः पदव्यञ्जनैरूद्देशात्प्रमाणाविरोधेन । सहितैर्निर्देशादुद्देशाविरोधेन । यानानुलोमनादानुलोमिकैर्यानत्रयाविरोधेन । श्लाक्ष्ण्याद[दा]नुच्छविकैरकष्टशब्दतया । प्रातीत्यादौपयिकैः (म्स्अ बग्छि ७८) प्रतीतार्थतया चार्थोपगमनात् । याथार्हात्प्रतिरूपैर्विनेयानुरूपतया । नैर्याण्यात्प्रदक्षिणैर्निर्वाणाधिकारतया । आनुकूल्यान्निपकस्याङ्गसंभारैः शैक्षस्यार्याष्टाङ्गमार्गानुकूल्यात् । व्यञ्जनसंपच्चैषा विज्ञेया सर्वथाग्रसत्त्वानां । षष्ट्यङ्गी साचिन्त्या घोषो ऽनन्तस्तु सुगतानां

yuktaiḥ padavyañjanairūddeśātpramāṇāvirodhena | sahitairnirdeśāduddeśāvirodhena | yānānulomanādānulomikairyānatrayāvirodhena | ślākṣṇyāda[dā]nucchavikairakaṣṭaśabdatayā | prātītyādaupayikaiḥ (MSA Bagchi 78) pratītārthatayā cārthopagamanāt | yāthārhātpratirūpairvineyānurūpatayā | nairyāṇyātpradakṣiṇairnirvāṇādhikāratayā | ānukūlyānnipakasyāṅgasaṃbhāraiḥ śaikṣasyāryāṣṭāṅgamārgānukūlyāt | vyañjanasaṃpaccaiṣā vijñeyā sarvathāgrasattvānāṃ | ṣaṣṭyaṅgī sācintyā ghoṣo 'nantastu sugatānāṃ

Sanskrit only: no published translation is held for this verse.

षष्ट्यङ्गी साचिन्त्या या गुह्यकाधिपतिनिर्देशे बुद्धस्य षष्ट्याकारा वाग् निर्दिष्टा । पुनरपरं शान्तमते तथागतस्य षष्ट्याकारोपेता वाग् निश्चरति स्निग्धा च मृदुका च मनोज्ञा च मनोरमा च शुद्धा चेति विस्तरः । तत्र स्निग्धा सत्त्वाधातुकुशलमूलोपस्तम्भिकत्वात् । मृदुका दृष्ट एव धर्मे सुखसंस्पर्शत्वात् । मनोज्ञा स्वर्थत्वात् । मनोरमा सुव्यञ्जनत्वात् । शुद्धा निरूत्तरलोकोत्तरपृष्ठलब्धत्वात् । विमला सर्वक्लेशानुशयवासनाविसंयुक्तत्वात् । प्रभास्वरा प्रतीतपदव्यञ्जनत्वात् । वल्गुः सर्वतीर्थ्यकुमतिदृष्टिविधातबलगुणयुक्तत्वात् । श्रवणीया प्रतिपत्तिनैर्याणिकत्वात् । अनन्ता[अनेला] सर्वपरप्रवादिभिरनाछेद्यत्वात् । कला रञ्जिकत्वात् । विनीता रागादिप्रतिपक्षत्वात् । अकर्कशा शिक्षाप्रज्ञप्तिसुखोपायत्वात् । अपरूषा तद्व्यतिक्रमसंपन्निःसरणोपदेशकत्वात् । सुविनीता यानत्रयनयोपदेशिकत्वात् । कर्णसुखा विक्षेपप्रतिपक्षत्वात् । कायप्रह्णादनकरी समाध्याबाहकत्वात् । चित्तौद्विल्यकरी विपश्यनाप्रामोद्यावाहफलकत्वात् । हृदयसंतुष्टिकरी संशयच्छेदिकत्वात् । प्रीतिसुखसंजननी मिथ्यानिश्चयापकर्षिकत्वात् । निःपरिदाहा प्रतिपत्तावविप्रतिसारत्वात् । आज्ञेया संपन्नश्रुतमयज्ञानाश्रयत्वात् । विज्ञेया संपन्नचिन्तामयज्ञानाश्रयत्वात् । विष्पष्टा अनाचार्यमुष्टिधर्मविहितत्वात् । प्रेमणीयानुप्राप्तस्वकार्थानां प्रेमकरत्वात् । अभिनन्दनीयाननुप्राप्तस्वकार्थानां स्पृहणीयत्वात् । आज्ञापनीया अचिन्त्यधर्मसम्यग्दर्शिकत्वात् । विज्ञापनीया चिन्त्यधर्मसम्यग्देशिकत्वात् । युक्ता प्रमाणाविरूद्धत्वात् । सहिता यथार्हविनेयदेशिकत्वात् । पुनरूक्तदोषजहा अवन्ध्यत्वात् । सिंहस्वरवेगा सर्वतीर्थ्यसंत्रासकत्वात् । नागस्वरशब्दा उदारत्वात् । मेघस्वरघोषा गम्भीरत्वात् । नागेन्द्ररुता आदेयत्वात् । किन्नरसंगीतिघोषा मधुरत्वात् । कलविङ्कस्वररूतरविताभी[ती]क्ष्णभङ्गुरत्वात् । ब्रह्मस्वररुतरविता दूरंगमत्वात् । जीवंजीवकस्वररुतरविता सर्वसिद्धिपूर्वंगममङ्गलत्वात् । देवेन्द्रमधुरनिर्घोषा अनतिक्रमणीयत्वात् । दुन्दुभिस्वरा सर्वमारप्रत्यर्थिकविजयपूर्वंगमत्वात् । अनुन्नता स्तुत्यसंक्लिष्टत्वात् । अनवनता निन्दासंक्लिष्टत्वात् । सर्वशब्दानुप्रविष्टा सर्वव्याकरणसर्वाकारलक्षणानुप्रविष्टत्वात् । अपशब्दविगता स्मृतिसंप्रमोषे तदनिश्चरणत्वात् । अविकला विनेयकृत्यसर्वकालप्रत्युपस्थितत्वात् । अलीना लाभसत्कारानिश्रितत्वात् । अदीना सावद्यापगत्वात् । प्रमुदिता अखेदित्वात् । प्रसृता सर्वविद्यास्थानकौशल्यानुगतत्वात् । अखिला[सखिला] सत्त्वानां (म्स्अ बग्छि ७९) तत्सकलार्थसंपादकत्वात् । सरिता प्रबन्धानुपच्छिन्नत्वात् । ललिता विचित्राकारप्रत्युपस्थानत्वात् । सर्वस्वरपूरणी एकस्वरनैकशब्दविज्ञप्तिप्रत्युपस्थापनत्वात् । सर्वसत्त्वेन्द्रियसंतोषणी एकानेकार्थविज्ञप्तिप्रत्युपस्थानत्वात् । अनिन्दिता यथाप्रतिज्ञत्वात् । अचञ्चला आगमितकालप्रयुक्तत्वात् । अचपला अत्वरमाणविहितत्वात् । सर्वपर्षदनुरविता दुरान्तिकपर्षत्तुल्यश्रवणत्वात् । सर्वाकारवरोपेता सर्वलौकिकार्थदृष्टान्तधर्मपरिणामिकत्वात् । देशनामाहात्म्ये चत्वारः श्लोकाः । वाचा पदैः सुयुक्तैरनुदेशविभागसंशयच्छेदैः । बहुलीकारानुगता ह्युद्धटितविपञ्चितज्ञेषु

ṣaṣṭyaṅgī sācintyā yā guhyakādhipatinirdeśe buddhasya ṣaṣṭyākārā vāg nirdiṣṭā | punaraparaṃ śāntamate tathāgatasya ṣaṣṭyākāropetā vāg niścarati snigdhā ca mṛdukā ca manojñā ca manoramā ca śuddhā ceti vistaraḥ | tatra snigdhā sattvādhātukuśalamūlopastambhikatvāt | mṛdukā dṛṣṭa eva dharme sukhasaṃsparśatvāt | manojñā svarthatvāt | manoramā suvyañjanatvāt | śuddhā nirūttaralokottarapṛṣṭhalabdhatvāt | vimalā sarvakleśānuśayavāsanāvisaṃyuktatvāt | prabhāsvarā pratītapadavyañjanatvāt | valguḥ sarvatīrthyakumatidṛṣṭividhātabalaguṇayuktatvāt | śravaṇīyā pratipattinairyāṇikatvāt | anantā[anelā] sarvaparapravādibhiranāchedyatvāt | kalā rañjikatvāt | vinītā rāgādipratipakṣatvāt | akarkaśā śikṣāprajñaptisukhopāyatvāt | aparūṣā tadvyatikramasaṃpanniḥsaraṇopadeśakatvāt | suvinītā yānatrayanayopadeśikatvāt | karṇasukhā vikṣepapratipakṣatvāt | kāyaprahṇādanakarī samādhyābāhakatvāt | cittaudvilyakarī vipaśyanāprāmodyāvāhaphalakatvāt | hṛdayasaṃtuṣṭikarī saṃśayacchedikatvāt | prītisukhasaṃjananī mithyāniścayāpakarṣikatvāt | niḥparidāhā pratipattāvavipratisāratvāt | ājñeyā saṃpannaśrutamayajñānāśrayatvāt | vijñeyā saṃpannacintāmayajñānāśrayatvāt | viṣpaṣṭā anācāryamuṣṭidharmavihitatvāt | premaṇīyānuprāptasvakārthānāṃ premakaratvāt | abhinandanīyānanuprāptasvakārthānāṃ spṛhaṇīyatvāt | ājñāpanīyā acintyadharmasamyagdarśikatvāt | vijñāpanīyā cintyadharmasamyagdeśikatvāt | yuktā pramāṇāvirūddhatvāt | sahitā yathārhavineyadeśikatvāt | punarūktadoṣajahā avandhyatvāt | siṃhasvaravegā sarvatīrthyasaṃtrāsakatvāt | nāgasvaraśabdā udāratvāt | meghasvaraghoṣā gambhīratvāt | nāgendrarutā ādeyatvāt | kinnarasaṃgītighoṣā madhuratvāt | kalaviṅkasvararūtaravitābhī[tī]kṣṇabhaṅguratvāt | brahmasvararutaravitā dūraṃgamatvāt | jīvaṃjīvakasvararutaravitā sarvasiddhipūrvaṃgamamaṅgalatvāt | devendramadhuranirghoṣā anatikramaṇīyatvāt | dundubhisvarā sarvamārapratyarthikavijayapūrvaṃgamatvāt | anunnatā stutyasaṃkliṣṭatvāt | anavanatā nindāsaṃkliṣṭatvāt | sarvaśabdānupraviṣṭā sarvavyākaraṇasarvākāralakṣaṇānupraviṣṭatvāt | apaśabdavigatā smṛtisaṃpramoṣe tadaniścaraṇatvāt | avikalā vineyakṛtyasarvakālapratyupasthitatvāt | alīnā lābhasatkārāniśritatvāt | adīnā sāvadyāpagatvāt | pramuditā akheditvāt | prasṛtā sarvavidyāsthānakauśalyānugatatvāt | akhilā[sakhilā] sattvānāṃ (MSA Bagchi 79) tatsakalārthasaṃpādakatvāt | saritā prabandhānupacchinnatvāt | lalitā vicitrākārapratyupasthānatvāt | sarvasvarapūraṇī ekasvaranaikaśabdavijñaptipratyupasthāpanatvāt | sarvasattvendriyasaṃtoṣaṇī ekānekārthavijñaptipratyupasthānatvāt | aninditā yathāpratijñatvāt | acañcalā āgamitakālaprayuktatvāt | acapalā atvaramāṇavihitatvāt | sarvaparṣadanuravitā durāntikaparṣattulyaśravaṇatvāt | sarvākāravaropetā sarvalaukikārthadṛṣṭāntadharmapariṇāmikatvāt | deśanāmāhātmye catvāraḥ ślokāḥ | vācā padaiḥ suyuktairanudeśavibhāgasaṃśayacchedaiḥ | bahulīkārānugatā hyuddhaṭitavipañcitajñeṣu

Sanskrit only: no published translation is held for this verse.

आख्याति वाचा । प्रज्ञापयति पदैः सुयुक्तैः । प्रस्थापयति विभाजयति विवृणोति यथाक्रममुद्देशविभागसंशयच्छेदैः । उत्तानीकरोति उत्तानीकरणं बहुलीकारानुगता देशना निश्चयबलाधानार्थं । देशयत्युद्धटितज्ञेषु । संप्रकाशयति विपञ्चितज्ञेषु । शुद्धा त्रिमण्डलेन हितेयं देशना हि बुद्धानां । दोषैर्विवर्जिता पुनरष्टभिरेषैव विज्ञेया

ākhyāti vācā | prajñāpayati padaiḥ suyuktaiḥ | prasthāpayati vibhājayati vivṛṇoti yathākramamuddeśavibhāgasaṃśayacchedaiḥ | uttānīkaroti uttānīkaraṇaṃ bahulīkārānugatā deśanā niścayabalādhānārthaṃ | deśayatyuddhaṭitajñeṣu | saṃprakāśayati vipañcitajñeṣu | śuddhā trimaṇḍalena hiteyaṃ deśanā hi buddhānāṃ | doṣairvivarjitā punaraṣṭabhireṣaiva vijñeyā

Sanskrit only: no published translation is held for this verse.

शुद्धा त्रिमण्डलेनेति । येन च देशयति वाचा पदैश्च । यथा चोद्देशादिप्रकारैः । येषु चोद्धटितविपञ्चितज्ञेषु । एषैव च देशना पुनरष्टदोषविवर्जिता वेदितव्या यथाक्रमम् । कौशीद्यमनवबोधो ह्यवकाशस्याकृतिर्ह्यनीतत्वम् । संदेहस्याच्छेदस्तद्विगमस्यादृढीकरणम्

śuddhā trimaṇḍaleneti | yena ca deśayati vācā padaiśca | yathā coddeśādiprakāraiḥ | yeṣu coddhaṭitavipañcitajñeṣu | eṣaiva ca deśanā punaraṣṭadoṣavivarjitā veditavyā yathākramam | kauśīdyamanavabodho hyavakāśasyākṛtirhyanītatvam | saṃdehasyācchedastadvigamasyādṛḍhīkaraṇam

Sanskrit only: no published translation is held for this verse.

ते पुनरष्टौ दोषाः । कौशीद्यमनवसंबोधः अवकाशस्याकरणं अनीतार्थत्वं संदेहस्याच्छेदना तद्विगमस्यादृढीकरणं निश्चयश्येत्यर्थः । खेदो ऽथ मत्सरित्वं दोषा ह्येते मता कथायां हि । तदभावाद्बुद्धानां निरूत्तरा देशना भवति

te punaraṣṭau doṣāḥ | kauśīdyamanavasaṃbodhaḥ avakāśasyākaraṇaṃ anītārthatvaṃ saṃdehasyācchedanā tadvigamasyādṛḍhīkaraṇaṃ niścayaśyetyarthaḥ | khedo 'tha matsaritvaṃ doṣā hyete matā kathāyāṃ hi | tadabhāvādbuddhānāṃ nirūttarā deśanā bhavati

Sanskrit only: no published translation is held for this verse.

खेदो येनाभीक्ष्णं न देशयेत् । मत्सरित्वं [मत्सरित्वं] चाकृत्स्नप्रकाशनात् । अर्थसंपत्तौ श्लोकद्वयं । कल्याणो धर्मो ऽयं हेतुत्वाद्भक्तितुष्टिबुद्धीनां । द्विविधार्थः सुग्राह्यश्चतुर्गुणब्रह्मचर्यवदः

khedo yenābhīkṣṇaṃ na deśayet | matsaritvaṃ [matsaritvaṃ] cākṛtsnaprakāśanāt | arthasaṃpattau ślokadvayaṃ | kalyāṇo dharmo 'yaṃ hetutvādbhaktituṣṭibuddhīnāṃ | dvividhārthaḥ sugrāhyaścaturguṇabrahmacaryavadaḥ

Sanskrit only: no published translation is held for this verse.

परैसाधारणयोगकेवलं त्रिधातुकक्लेशविहानिपूरकम् । स्वभावशुद्धं मलशुद्धितश्च तच्चतुर्गुणब्रह्मविचर्यमिष्यते

paraisādhāraṇayogakevalaṃ tridhātukakleśavihānipūrakam | svabhāvaśuddhaṃ malaśuddhitaśca taccaturguṇabrahmavicaryamiṣyate

Sanskrit only: no published translation is held for this verse.

चतुर्गुणब्रह्मचर्यसंप्रकाशको धर्मः । आदिमध्यपर्यवसानकल्याणो यथाक्रमं श्रुतचिन्ताभावनाभिर्भक्तितुष्टिबुद्धिहेतुत्वात् । तत्र भक्तिरधिमुक्तिः संप्रत्ययः तुष्टिः प्रामोद्यं (म्स्अ बग्छि ८०) युक्तिनिध्यानाच्छक्यप्राप्तितां विदित्वा । बुद्धिः समाहितचित्तस्य यथाभूतज्ञानं । द्विविधार्थ इत्यतः स्वर्थः संवृतिपरमार्थसत्ययोगात् । सुग्राह्य इत्यतः सुव्यञ्जनः प्रतीतपदव्यञ्जनत्वात् । चतुर्गुणं ब्रह्मचर्यम् । केवलं परैसाधारणात्वात् परिपूर्णं त्रिधातुक्लेशप्रहाणपरिपूरणात् । परिशुद्धं स्वभावविशुद्धितो ऽनास्रवत्वात् । पर्यवदातं मलविशुद्धितः संतानविशुद्ध्या क्षीणास्रवाणाम् । अभिसंधिविभागे श्लोकद्वयम् । अवतारणसंधिश्च संधिर्लक्षणतो ऽपरः । प्रतिपक्षाभिसंधिश्च संधिः परिणतावपि

caturguṇabrahmacaryasaṃprakāśako dharmaḥ | ādimadhyaparyavasānakalyāṇo yathākramaṃ śrutacintābhāvanābhirbhaktituṣṭibuddhihetutvāt | tatra bhaktiradhimuktiḥ saṃpratyayaḥ tuṣṭiḥ prāmodyaṃ (MSA Bagchi 80) yuktinidhyānācchakyaprāptitāṃ viditvā | buddhiḥ samāhitacittasya yathābhūtajñānaṃ | dvividhārtha ityataḥ svarthaḥ saṃvṛtiparamārthasatyayogāt | sugrāhya ityataḥ suvyañjanaḥ pratītapadavyañjanatvāt | caturguṇaṃ brahmacaryam | kevalaṃ paraisādhāraṇātvāt paripūrṇaṃ tridhātukleśaprahāṇaparipūraṇāt | pariśuddhaṃ svabhāvaviśuddhito 'nāsravatvāt | paryavadātaṃ malaviśuddhitaḥ saṃtānaviśuddhyā kṣīṇāsravāṇām | abhisaṃdhivibhāge ślokadvayam | avatāraṇasaṃdhiśca saṃdhirlakṣaṇato 'paraḥ | pratipakṣābhisaṃdhiśca saṃdhiḥ pariṇatāvapi

Sanskrit only: no published translation is held for this verse.

श्रावकेषु स्वभावेषु दोषाणां विनये तथा । अभिधानस्य गाम्भीर्ये संधिरेष चतुर्विधः

śrāvakeṣu svabhāveṣu doṣāṇāṃ vinaye tathā | abhidhānasya gāmbhīrye saṃdhireṣa caturvidhaḥ

Sanskrit only: no published translation is held for this verse.

अयमत्राभिसंधिः । असारे सारमतय इत्यविक्षेपे येषां सारबुद्धिः प्रधानबुद्धिर्विक्षेपो हि विसारश्चेतसः । विपर्यासे च सुस्थिता इति नित्यसुखशुच्यात्मग्राहविपर्ययेणानित्यादिके विपर्यासे सुस्थिता अपरिहाणितः । क्लेशेन च स संक्लिष्टा इति दीर्घदुष्करव्यायामश्रमेणात्यर्थं परिक्लिष्टाः । अभिप्रायविभागे श्लोकः । समतार्थान्तरे ज्ञेयस्तथा कालान्तरे पुनः । पुद्गलस्याशये चैव अभिप्रायश्चतुर्विधः

ayamatrābhisaṃdhiḥ | asāre sāramataya ityavikṣepe yeṣāṃ sārabuddhiḥ pradhānabuddhirvikṣepo hi visāraścetasaḥ | viparyāse ca susthitā iti nityasukhaśucyātmagrāhaviparyayeṇānityādike viparyāse susthitā aparihāṇitaḥ | kleśena ca sa saṃkliṣṭā iti dīrghaduṣkaravyāyāmaśrameṇātyarthaṃ parikliṣṭāḥ | abhiprāyavibhāge ślokaḥ | samatārthāntare jñeyastathā kālāntare punaḥ | pudgalasyāśaye caiva abhiprāyaścaturvidhaḥ

Sanskrit only: no published translation is held for this verse.

चतुर्विधो ऽभिप्रायः । सत[म]ताभिप्रायो यदाह । अहमेव स तस्मिन्समये विपश्वी सम्यक्संबुद्धो ऽभूवमित्यविशिष्टधर्मकायत्वात् । अर्थान्तराभिप्रायो यदाह । निः स्वभावाः सर्वधर्मा अनुत्पन्नाइत्येवमादि अयथारूतार्थत्वात् । कालन्तराभिप्रायो यदाह । ये (म्स्अ बग्छि ८१) सुखावत्यां प्रणिधानं करिष्यन्ति ते तत्रोपपत्स्यन्त इति कालान्तरेणेत्यभिप्रायः । पुद्गलाशयाभिप्रायो यत्तदेव कुशलमूलं कस्यचित्प्रशंसते कस्यचिद्विगर्हते ऽल्पमात्रसंतुष्टस्य वैपुल्यसंग्रहात् महायानसूत्रान्तसानुशंसं गाथाद्वयमुपादायाह । बुद्धे धर्मे ऽवज्ञा कौशीद्यं तुष्टिरल्पमात्रेण । रागे माने चरितं कौकृत्यं चानियतभेदः

caturvidho 'bhiprāyaḥ | sata[ma]tābhiprāyo yadāha | ahameva sa tasminsamaye vipaśvī samyaksaṃbuddho 'bhūvamityaviśiṣṭadharmakāyatvāt | arthāntarābhiprāyo yadāha | niḥ svabhāvāḥ sarvadharmā anutpannāityevamādi ayathārūtārthatvāt | kālantarābhiprāyo yadāha | ye (MSA Bagchi 81) sukhāvatyāṃ praṇidhānaṃ kariṣyanti te tatropapatsyanta iti kālāntareṇetyabhiprāyaḥ | pudgalāśayābhiprāyo yattadeva kuśalamūlaṃ kasyacitpraśaṃsate kasyacidvigarhate 'lpamātrasaṃtuṣṭasya vaipulyasaṃgrahāt mahāyānasūtrāntasānuśaṃsaṃ gāthādvayamupādāyāha | buddhe dharme 'vajñā kauśīdyaṃ tuṣṭiralpamātreṇa | rāge māne caritaṃ kaukṛtyaṃ cāniyatabhedaḥ

Sanskrit only: no published translation is held for this verse.

सत्त्वानामावरणं तत्प्रतिपक्षो ऽग्रयानसंभाषा । सर्वान्तरायदोषप्रहाणमेषां ततो भवति

sattvānāmāvaraṇaṃ tatpratipakṣo 'grayānasaṃbhāṣā | sarvāntarāyadoṣaprahāṇameṣāṃ tato bhavati

Sanskrit only: no published translation is held for this verse.

यो ग्रन्थतो ऽर्थतो वा गाथाद्वयधारणे प्रयुज्येत । स हि दशविधमनुशंसं लभते सत्त्वोत्तमो धीमान्

yo granthato 'rthato vā gāthādvayadhāraṇe prayujyeta | sa hi daśavidhamanuśaṃsaṃ labhate sattvottamo dhīmān

Sanskrit only: no published translation is held for this verse.

कृत्स्नां च धातुपुष्टिं प्रामोद्यं चोत्तमं मरणकाले । जन्म च यथाभिकामं जातिस्मरतां च सर्वत्र

kṛtsnāṃ ca dhātupuṣṭiṃ prāmodyaṃ cottamaṃ maraṇakāle | janma ca yathābhikāmaṃ jātismaratāṃ ca sarvatra

Sanskrit only: no published translation is held for this verse.

बुद्धैश्च समवधानं तेभ्यः श्रवणं तथाग्रयानस्य । अधिमुक्तिं सह बुद्ध्या द्वयमुखतामाशुबोधिं च

buddhaiśca samavadhānaṃ tebhyaḥ śravaṇaṃ tathāgrayānasya | adhimuktiṃ saha buddhyā dvayamukhatāmāśubodhiṃ ca

Sanskrit only: no published translation is held for this verse.

देशनानुशंसेश्लोकः । इति सुग[म]तिरखेदवान् कृपालुः प्रथितयशाः सुविधिज्ञतामुपेतः । भवति सुकथिको हि बोधिसत्त्वस्तपति जने कथितैर्यथैव सूर्यः

deśanānuśaṃseślokaḥ | iti suga[ma]tirakhedavān kṛpāluḥ prathitayaśāḥ suvidhijñatāmupetaḥ | bhavati sukathiko hi bodhisattvastapati jane kathitairyathaiva sūryaḥ

Sanskrit only: no published translation is held for this verse.