षोडशो ऽधिकारः पारमिताप्रभेदसंग्रहे उद्दानश्लोकः । सांख्याथ तल्ललक्षणमानुपूर्वी निरुक्तिरभ्यासगुणश्च तासां । प्रभेदनं संग्रहणं विपक्षो ज्ञेयो गुणो ऽन्योन्यविनिश्चयश्च
ṣoḍaśo 'dhikāraḥ pāramitāprabhedasaṃgrahe uddānaślokaḥ | sāṃkhyātha tallalakṣaṇamānupūrvī niruktirabhyāsaguṇaśca tāsāṃ | prabhedanaṃ saṃgrahaṇaṃ vipakṣo jñeyo guṇo 'nyonyaviniścayaśca
Sanskrit only: no published translation is held for this verse.
संख्याविभागे षट् श्लोकाः । भोगात्मभावसंपत्परिचारारम्भसंपदभ्युदयः । क्लेशावशगत्वमपि च कृत्येषु सदाविपर्यासः
saṃkhyāvibhāge ṣaṭ ślokāḥ | bhogātmabhāvasaṃpatparicārārambhasaṃpadabhyudayaḥ | kleśāvaśagatvamapi ca kṛtyeṣu sadāviparyāsaḥ
Sanskrit only: no published translation is held for this verse.
इति प्रथमः । तत्र चतसृभिः पारमिताभिश्चतुर्विधो ऽभ्युदयः । दानेन भोगसंपत् । शीलेनात्मभावसंपत् । क्षान्त्या परिचारसंपत् । तथा हि तदासेवनादायत्याद्[त्यां] बहुजनसुप्रियो भवति । वीर्येणारम्भसंपत् सर्वकर्मान्तसंपत्तितः । पञ्चम्या क्लेशावशगत्वं ध्यानेन क्लेशविष्कम्भनात् । षष्ठ्या कृत्येष्वविपर्यासः सर्वकार्ययथाभूतपरिज्ञानात् । इत्यभ्युदयः तत्र चासंक्लेशमविपरीतकृत्यारम्भं चाधिकृत्य षट् पारमिता व्यवस्थिताः । सत्त्वार्थेषु सुयुक्तस्त्यागानुपघातमर्षणैः कुरुते । सनिदानस्थितिमुक्त्या आत्मार्थं सर्वथा चरति
iti prathamaḥ | tatra catasṛbhiḥ pāramitābhiścaturvidho 'bhyudayaḥ | dānena bhogasaṃpat | śīlenātmabhāvasaṃpat | kṣāntyā paricārasaṃpat | tathā hi tadāsevanādāyatyād[tyāṃ] bahujanasupriyo bhavati | vīryeṇārambhasaṃpat sarvakarmāntasaṃpattitaḥ | pañcamyā kleśāvaśagatvaṃ dhyānena kleśaviṣkambhanāt | ṣaṣṭhyā kṛtyeṣvaviparyāsaḥ sarvakāryayathābhūtaparijñānāt | ityabhyudayaḥ tatra cāsaṃkleśamaviparītakṛtyārambhaṃ cādhikṛtya ṣaṭ pāramitā vyavasthitāḥ | sattvārtheṣu suyuktastyāgānupaghātamarṣaṇaiḥ kurute | sanidānasthitimuktyā ātmārthaṃ sarvathā carati
Sanskrit only: no published translation is held for this verse.
इति द्वितीयः । सत्त्वार्थेषु सम्यक्प्रयुक्तो बोधिसत्त्वस्तिसृभिर्दानशीलक्षान्तिपारमिताभिर्यथाक्रमं त्यागेनानुपघातेनोपघातमर्षणेन च सत्त्वार्थं कुरुते । तिसृभिः सनिदानतया [सनिदानया] चित्तस्थित्या विमुक्त्या च सर्वप्रकारमात्मार्थं चरति । वीर्यं निश्रित्य यथाक्रमं ध्यानप्रज्ञाभ्यास[म]समाहितस्य चित्तस्य समवधानात् समाहितस्य मोचनात् । इति परार्थमात्मार्थं चारभ्य षट् पारमिताः । अविघातैरविहेठैर्विहेठसंमर्षणैः क्रियाखेदैः । आवर्जनैः सुलपितैः परार्थ आत्मार्थं एतस्मात्
iti dvitīyaḥ | sattvārtheṣu samyakprayukto bodhisattvastisṛbhirdānaśīlakṣāntipāramitābhiryathākramaṃ tyāgenānupaghātenopaghātamarṣaṇena ca sattvārthaṃ kurute | tisṛbhiḥ sanidānatayā [sanidānayā] cittasthityā vimuktyā ca sarvaprakāramātmārthaṃ carati | vīryaṃ niśritya yathākramaṃ dhyānaprajñābhyāsa[ma]samāhitasya cittasya samavadhānāt samāhitasya mocanāt | iti parārthamātmārthaṃ cārabhya ṣaṭ pāramitāḥ | avighātairaviheṭhairviheṭhasaṃmarṣaṇaiḥ kriyākhedaiḥ | āvarjanaiḥ sulapitaiḥ parārtha ātmārthaṃ etasmāt
Sanskrit only: no published translation is held for this verse.
भोगेषु चानभिरतिस्तीव्रा गुरुताद्वये अखेदश्च । योगश्च निर्विकल्पः समस्तमिदमुत्तमं यानं
bhogeṣu cānabhiratistīvrā gurutādvaye akhedaśca | yogaśca nirvikalpaḥ samastamidamuttamaṃ yānaṃ
Sanskrit only: no published translation is held for this verse.
इति चतुर्थः । दानेन बोधिसत्त्वस्य भोगेष्वभि[ष्वनभि]रतिर्निरपेक्षत्वात् । शीलसमादानेन बोधिसत्त्वशिक्षासु तीव्रा गुरुता । क्षान्त्या वीर्येण चाखेदो द्वये यथाक्रमं दुःखे च सत्त्वासत्त्वकृते कुशलप्रयोगे च । ध्यानप्रज्ञायां[भ्यां] निर्विकल्पो योगः शमथविपश्यनासंगृहीतः । एतावच्च समस्त [महायानम् इति?] महायानसंग्रहाधिकारात् षट् पारमिताः । विषयेष्वसक्तिमार्गस्तदाप्तिविक्षेपसंयमेष्वपरः । सत्त्वाविसृजनवर्धन आवरणविशोधनेष्वपरः
iti caturthaḥ | dānena bodhisattvasya bhogeṣvabhi[ṣvanabhi]ratirnirapekṣatvāt | śīlasamādānena bodhisattvaśikṣāsu tīvrā gurutā | kṣāntyā vīryeṇa cākhedo dvaye yathākramaṃ duḥkhe ca sattvāsattvakṛte kuśalaprayoge ca | dhyānaprajñāyāṃ[bhyāṃ] nirvikalpo yogaḥ śamathavipaśyanāsaṃgṛhītaḥ | etāvacca samasta [mahāyānam iti?] mahāyānasaṃgrahādhikārāt ṣaṭ pāramitāḥ | viṣayeṣvasaktimārgastadāptivikṣepasaṃyameṣvaparaḥ | sattvāvisṛjanavardhana āvaraṇaviśodhaneṣvaparaḥ
Sanskrit only: no published translation is held for this verse.
इति पञ्चमः । तत्र दानं विषयेष्वसक्तिमार्गस्त्यागाभ्यासेन तत्सक्तिविगमात् । शीलं तदाप्तिविक्षेपसंयमेषु भिक्षुसंवरस्थस्य विषयप्राप्तये सर्वकर्मान्तविक्षेपाणामप्रवृत्तेः । क्षान्तिः सत्त्वानुत्सर्गे सर्वो[वा]पकारदुःखानुद्वेगात् । वीर्यं कुशलविवर्धन आरब्धवीर्यस्य तद्बुद्धिगमनात् । ध्यानं प्रज्ञा चावरणविशोधनेषु मार्गस्ताभ्यां क्लेशज्ञेयावरणविशोधनात् । मार्ग इत्युपायः । एवं सर्वाकारमार्गाधिकारात् षट् पारमिताः । शिक्षात्रयमधिकृत्य च षष्ट् पारमिता जिनैः समाख्याताः । आद्या तिस्रो द्वेधा अन्त्यद्वयतस्तिसृष्वेका
iti pañcamaḥ | tatra dānaṃ viṣayeṣvasaktimārgastyāgābhyāsena tatsaktivigamāt | śīlaṃ tadāptivikṣepasaṃyameṣu bhikṣusaṃvarasthasya viṣayaprāptaye sarvakarmāntavikṣepāṇāmapravṛtteḥ | kṣāntiḥ sattvānutsarge sarvo[vā]pakāraduḥkhānudvegāt | vīryaṃ kuśalavivardhana ārabdhavīryasya tadbuddhigamanāt | dhyānaṃ prajñā cāvaraṇaviśodhaneṣu mārgastābhyāṃ kleśajñeyāvaraṇaviśodhanāt | mārga ityupāyaḥ | evaṃ sarvākāramārgādhikārāt ṣaṭ pāramitāḥ | śikṣātrayamadhikṛtya ca ṣaṣṭ pāramitā jinaiḥ samākhyātāḥ | ādyā tisro dvedhā antyadvayatastisṛṣvekā
Sanskrit only: no published translation is held for this verse.
इति षष्ठः । तत्राद्या अधिशीलं शिक्षा तिस्रः पारमिताः ससंभारसपरिवारग्रहणात् । दानेन हि भोगनिरपेक्षः शीलं समादत्ते समात्तं च क्षान्त्या रक्षत्याक्रुष्टाप्रत्याक्रोशनादिभिः । द्विधेत्यधिचित्तमधिप्रज्ञं च शिक्षा सा अन्तेन द्वयेन संगृहीता यथाक्रमं ध्यानेन प्रज्ञया च । तिसृष्वपि शिक्षास्वेका वीर्यपारमिता वेदितव्या । सर्वासां वीर्यसहायत्वात् । लक्षणविभागे श्लोकाः षट् । दानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकमपि सत्त्वविपाचकं त्रेधा
iti ṣaṣṭhaḥ | tatrādyā adhiśīlaṃ śikṣā tisraḥ pāramitāḥ sasaṃbhārasaparivāragrahaṇāt | dānena hi bhoganirapekṣaḥ śīlaṃ samādatte samāttaṃ ca kṣāntyā rakṣatyākruṣṭāpratyākrośanādibhiḥ | dvidhetyadhicittamadhiprajñaṃ ca śikṣā sā antena dvayena saṃgṛhītā yathākramaṃ dhyānena prajñayā ca | tisṛṣvapi śikṣāsvekā vīryapāramitā veditavyā | sarvāsāṃ vīryasahāyatvāt | lakṣaṇavibhāge ślokāḥ ṣaṭ | dānaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena | sarvecchāparipūrakamapi sattvavipācakaṃ tredhā
Sanskrit only: no published translation is held for this verse.
शीलं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकमपि सत्त्वविपाचकं त्रेधा
śīlaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena | sarvecchāparipūrakamapi sattvavipācakaṃ tredhā
Sanskrit only: no published translation is held for this verse.
क्षान्तिर्विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । सर्वेच्छापरिपूरा अपि सत्त्वविपाचिका त्रेधा
kṣāntirvipakṣahīnā jñānena gatā ca nirvikalpena | sarvecchāparipūrā api sattvavipācikā tredhā
Sanskrit only: no published translation is held for this verse.
वीर्यं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छपरिपूरकमपि सत्त्वविपाचकं त्रेधा
vīryaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena | sarvecchaparipūrakamapi sattvavipācakaṃ tredhā
Sanskrit only: no published translation is held for this verse.
ध्यानं विपक्षहीनं ज्ञानेन गतं च निर्विकल्पेन । सर्वेच्छापरिपूरकमपि सत्त्वविपाचकं त्रेधा
dhyānaṃ vipakṣahīnaṃ jñānena gataṃ ca nirvikalpena | sarvecchāparipūrakamapi sattvavipācakaṃ tredhā
Sanskrit only: no published translation is held for this verse.
प्रज्ञा विपक्षहीना ज्ञानेन गता च निर्विकल्पेन । सर्वेच्छापरिपूरा अपि सत्त्वविपाचिका त्रेधा
prajñā vipakṣahīnā jñānena gatā ca nirvikalpena | sarvecchāparipūrā api sattvavipācikā tredhā
Sanskrit only: no published translation is held for this verse.
यथा दानलक्षणं चतुर्विधमेवं शीलादीनां वेदितव्यम् । एषां तु विपक्षा दौःशील्यं क्रोधः कौशीद्यं विक्षेपो दौष्प्रज्ञ्यं यथाक्रमं । सर्वेच्छापरिपूरकत्वं शीलादिभिः परेषां सर्वकायवाक्संयमापराधमर्षणसाहाय्यमनोरथसंशयच्छेदनेच्छापरिपूरणात् । सत्त्वपरिपाचकत्वं शीलादिभिरावर्ज्य त्रिषु यानेषु परिपाचनात् । अनुक्रमविभागे श्लोकः । पूर्वोत्तरविश्रयतश्चोत्पत्तेस्तत्क्रमेण निर्देशः । हीनोत्कर्षस्थानादौदारिकसूक्ष्मतश्चापि
yathā dānalakṣaṇaṃ caturvidhamevaṃ śīlādīnāṃ veditavyam | eṣāṃ tu vipakṣā dauḥśīlyaṃ krodhaḥ kauśīdyaṃ vikṣepo dauṣprajñyaṃ yathākramaṃ | sarvecchāparipūrakatvaṃ śīlādibhiḥ pareṣāṃ sarvakāyavāksaṃyamāparādhamarṣaṇasāhāyyamanorathasaṃśayacchedanecchāparipūraṇāt | sattvaparipācakatvaṃ śīlādibhirāvarjya triṣu yāneṣu paripācanāt | anukramavibhāge ślokaḥ | pūrvottaraviśrayataścotpattestatkrameṇa nirdeśaḥ | hīnotkarṣasthānādaudārikasūkṣmataścāpi
Sanskrit only: no published translation is held for this verse.
त्रिभिः कारणैस्तेषां दानादीनां क्रमेण निर्देशः । पूर्वसंनिश्रयेणोत्तरस्योत्पत्तेः । भोगनिरपेक्षो हि शीलं समात्ते शीलवान् क्षमो भवति क्षमावान् वीर्यमारभते आरब्धवीर्यः समाधिमुत्पादयति समाहितचित्तो यथाभूतं प्रजानाति । पूर्वस्य च हीनत्वात् उत्तरस्योत्कर्षस्थानत्वात् । हीनं हि दानमुत्कृष्टं शीलमेवं यावद्धीनं ध्यानमुत्कृष्टा प्रज्ञेति । पूर्वस्य चौदारिकत्वादुत्तरस्यसूक्ष्मत्वात् । औदारिकं हि दानं सुप्रवेशत्वात् सुकरत्वाच्च । सूक्ष्मं ज्ञीलं ततो दुष्प्रवेशत्वाद् दुष्करत्वाच्च । एवं यावदौदारिकं ध्यानं सूक्ष्मा प्रज्ञेति । निर्वचनविभागे श्लोकः । दारिद्यस्यापनयाच्छैत्यस्य च लम्भनात् क्षयात् क्रुद्धेः । वरयोगमनोधारणपरमाथज्ञानतश्चोक्तिः
tribhiḥ kāraṇaisteṣāṃ dānādīnāṃ krameṇa nirdeśaḥ | pūrvasaṃniśrayeṇottarasyotpatteḥ | bhoganirapekṣo hi śīlaṃ samātte śīlavān kṣamo bhavati kṣamāvān vīryamārabhate ārabdhavīryaḥ samādhimutpādayati samāhitacitto yathābhūtaṃ prajānāti | pūrvasya ca hīnatvāt uttarasyotkarṣasthānatvāt | hīnaṃ hi dānamutkṛṣṭaṃ śīlamevaṃ yāvaddhīnaṃ dhyānamutkṛṣṭā prajñeti | pūrvasya caudārikatvāduttarasyasūkṣmatvāt | audārikaṃ hi dānaṃ supraveśatvāt sukaratvācca | sūkṣmaṃ jñīlaṃ tato duṣpraveśatvād duṣkaratvācca | evaṃ yāvadaudārikaṃ dhyānaṃ sūkṣmā prajñeti | nirvacanavibhāge ślokaḥ | dāridyasyāpanayācchaityasya ca lambhanāt kṣayāt kruddheḥ | varayogamanodhāraṇaparamāthajñānataścoktiḥ
Sanskrit only: no published translation is held for this verse.
भावनाविभागे श्लोकः । भावनोपधिमाश्रित्य मनस्कारं तथाशयं । उपायं च विभुत्वं च सर्वासामेव कथ्यते
bhāvanāvibhāge ślokaḥ | bhāvanopadhimāśritya manaskāraṃ tathāśayaṃ | upāyaṃ ca vibhutvaṃ ca sarvāsāmeva kathyate
Sanskrit only: no published translation is held for this verse.
पञ्चविधा पारमिताभावना । उपधिसंनिश्रिता । तत्रोपधिसंनिश्रिता चतुराकारा हेतुसंनिश्रिता यो गोत्रबलेन पारमितासु प्रतिपत्त्यभ्यासः । विपाकसंनिश्रिता च आत्मभावसंपत्तिबलेन । प्रणिधानसंनिश्रिता यः पूर्वप्रणिधानबलेन । प्रतिसंख्यानसंनिश्रता यः प्रज्ञाबलेन पारमितासु प्रतिपत्त्यभ्यासः । मनसिकारसंनिश्रिता पारमिताभावना चतुराकारा । अधिमुक्तिमनस्कारेण सर्वपारमिताप्रतिसंयुक्तं सूत्रान्तमधिमुच्यमानस्य । आस्वादनामनस्कारेण लब्धाः पारमिता आस्वादयतो गुणसंदर्शयोगेन । अनुमोदनामनस्कारेण सर्वलोकधातुषु सर्वसत्त्वानां दानादिकमनुमोदमानस्य । अभिनन्दनामनस्कारेणात्मनः सत्त्वानां चानागतं पारमिताविशेषमभिनन्दमानस्य । आशयसंनिश्रिता पारमिताभावना षडाकारा । अतृप्ताशयेन विपुलाशयेन मुदिताशयेन उपकाराशयेन निर्लेपाशयेन कल्याणाशयेन च । तत्र बोधिसत्त्वस्य दाने ऽतृप्ताशयो यद्बोधिसत्त्व एकसत्त्वस्यैकक्षणे गंगानदीबालुकासमान् लोकधातून् सप्तरत्नपरिपूर्णान् कृत्वा प्रतिपादयेत् । गंगानदीबालिकासमांश्चात्मभावान् । एवं च प्रतिक्षणं गंगानदीवालिकासमान्कल्पान्प्रतिपादयेत् । यथा चैकस्य सत्त्वस्यैवं यावान् सत्त्वधातुरनुत्तरायां सम्यक्संबोधौ परिपाचयितव्यस्तमनेन पर्यायेण प्रतिपादयेत् । अतृप्त एव बोधिसत्त्वस्य दानाशय इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने ऽतृप्ताशयः । न च बोधिसत्त्व एवंरूपां दानपरंपरां क्षणमात्रमपि हापयति । न विच्छिनत्त्या बोधिमण्डनिषदनादिति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने विपुलाशय इति । मुदिततरश्च बोधिसत्त्वो भवति तान्सत्त्वान्दानेन तथानुगृह्णन् । न त्वेव ते सत्वास्तेन दानेनानुगृह्यमाणा इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने मुदिताशयः । उपकारकतरांश्च स बोधिसत्त्वस्तान्सत्त्वानात्मनः समनुपश्यति । येषां तथा दानेनोपकरोति नात्मानं । तेषामनुत्तरसम्यक्संबोध्युपस्तम्भतामुपादाय इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दाने उपकाराशयः । न च बोधिसत्त्वः सत्त्वेषु तथा विपुलमपि दानमयं पुण्यमभिसंस्कृत्य प्रतिकारेण वा अर्थो[र्थी] भवति विपाकेन वा इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दानपारमिताभावनायां निर्लेपाशयः । यद्बोधिसत्त्वस्तथा विपुलस्यापि दानस्कन्धस्य विपाकं सत्वेष्वभिनन्दति नात्मनः । सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्संबोधौ परिणामयति इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य दानपारमिताभावनायां कल्याणाशयः । तत्र बोधिसत्त्वस्य (म्स्अ बग्छि १०१) शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामतृप्ताशयः । यद्वोधिसत्त्वो गंगानदीबालिकासमेष्वात्मभावेषु गंगानदीबालिकासमकल्पायुष्प्रमाणेषु सर्वोपकरणनिरन्तरविघाती त्रिसाहस्रमहासाहस्रलोकधातावग्निप्रतिपूर्णे चतुर्विधमीर्यापथं कल्पयन्नेकं शीलपारमिताक्षणं यावत्प्रज्ञापारमिताक्षणं भावयेदेतेन पर्यायेण यावांश्छीलस्कन्धो यावान् च प्रज्ञास्कन्धो येनानुत्तरां सम्यक्संबोधिमभिसंबुध्यते शीलस्कन्धं यावत्प्रज्ञास्कन्धं भावयेदतृप्त एव बोधिसत्त्वस्य शीलपारमिताभावनायामाशयो यावत्प्रज्ञापारमिताभावनायामाशय इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायामतृप्ताशयो यावत्प्रज्ञापारमिताभावनायामतृप्ताशयः । यद्बोधिसत्त्वस्तां शीलपारमिताभावनापरंपरां यावत्प्रज्ञापारमिताभावनापरंपरामाबोधिमण्डनिषदनान्न स्रंसयति न विच्छिनत्ति इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां विपुलाशयः । मुदिततरश्च बोधिसत्त्वो भवति तया शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया सत्त्वाननुगृह्णन् । न त्वेव[वं] ते सत्त्वा अनुगृह्यमाणा इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां मुदिताशयः । उपकारकतरांश्च बोधिसत्त्वस्तान् सत्त्वानात्मनः समनुपश्यति । येषां तथा शीलपारमिताभावनया यावत्प्रज्ञापारमिताभावनया उपकरोति नात्मानं । तेषामनुत्तरसम्यक्संबोध्युपस्तम्भतामुपादाय इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायामुपकाराशयः । न च बोधिसत्त्वस्तथा विपुलमपि शीलपारमिताभावनामयं यावत्प्रज्ञापारमिताभावनामयं पुण्यमभिसंस्कृत्य प्रतिकारेण वार्थी भवति विपाके न वा इति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलापारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां निर्लेपाशयः । तत्र यद्बोधिसत्त्व एवं शीलपारमिताभावनामयस्य यावत्प्रज्ञापारमिताभावनामयपुण्यस्कन्धस्य विपाकं सत्त्वेष्वेवाभिनन्दति नात्मनः । सर्वसत्त्वसाधारणं च कृत्वानुत्तरायां सम्यक्सम्बोधौ परिणामयतीति । य एवंरूप आशयो ऽयं बोधिसत्त्वस्य शीलपारमिताभावनायां यावत्प्रज्ञापारमिताभावनायां कल्याणाशयः । उपायसंनिश्रिता भावना त्र्याकारा । निर्विकल्पेन ज्ञानेन त्रिमण्डलपरिशुद्धिप्रत्यवेक्षणतामुपादाय । तथा हि स उपायः सर्वमनसिकाराणामभिनिष्पत्तये । विभुत्वसंनिश्रिता पारमिताभावना त्र्याकारा । कायविभुत्वतः । चर्याविभुत्वतः । देशनाविभुत्वतश्च । तत्र कायविभुत्वं तथागते द्वौ कायौ द्रष्टव्यौ स्वाभाविकः सांभोगिकश्च । तत्र चर्याविभुत्वं नैर्माणिकः कायो द्रष्टव्यः । येन सर्वाकारां सर्वसत्त्वानां सहधार्मिकचर्यां दर्शयति । देशनाविभुत्वं षट्पारमितासर्वाकारदेशनायामव्याघातः । प्रभेदसंग्रहे द्वादशश्लोकाः । दानादीनां प्रत्येकं षडर्थप्रभेदतः । (म्स्अ बग्छि १०२) षडर्थाः स्वभावहेतुफलकर्मयोगवृत्त्यर्थाः । तत्र दानप्रभेदे द्वौ श्लोकौ । प्रतिपादनमर्थस्य चेतना मूलनिश्चिता । भोगात्मभावसंपत्ती द्वयानुग्रहपूरकं
pañcavidhā pāramitābhāvanā | upadhisaṃniśritā | tatropadhisaṃniśritā caturākārā hetusaṃniśritā yo gotrabalena pāramitāsu pratipattyabhyāsaḥ | vipākasaṃniśritā ca ātmabhāvasaṃpattibalena | praṇidhānasaṃniśritā yaḥ pūrvapraṇidhānabalena | pratisaṃkhyānasaṃniśratā yaḥ prajñābalena pāramitāsu pratipattyabhyāsaḥ | manasikārasaṃniśritā pāramitābhāvanā caturākārā | adhimuktimanaskāreṇa sarvapāramitāpratisaṃyuktaṃ sūtrāntamadhimucyamānasya | āsvādanāmanaskāreṇa labdhāḥ pāramitā āsvādayato guṇasaṃdarśayogena | anumodanāmanaskāreṇa sarvalokadhātuṣu sarvasattvānāṃ dānādikamanumodamānasya | abhinandanāmanaskāreṇātmanaḥ sattvānāṃ cānāgataṃ pāramitāviśeṣamabhinandamānasya | āśayasaṃniśritā pāramitābhāvanā ṣaḍākārā | atṛptāśayena vipulāśayena muditāśayena upakārāśayena nirlepāśayena kalyāṇāśayena ca | tatra bodhisattvasya dāne 'tṛptāśayo yadbodhisattva ekasattvasyaikakṣaṇe gaṃgānadībālukāsamān lokadhātūn saptaratnaparipūrṇān kṛtvā pratipādayet | gaṃgānadībālikāsamāṃścātmabhāvān | evaṃ ca pratikṣaṇaṃ gaṃgānadīvālikāsamānkalpānpratipādayet | yathā caikasya sattvasyaivaṃ yāvān sattvadhāturanuttarāyāṃ samyaksaṃbodhau paripācayitavyastamanena paryāyeṇa pratipādayet | atṛpta eva bodhisattvasya dānāśaya iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne 'tṛptāśayaḥ | na ca bodhisattva evaṃrūpāṃ dānaparaṃparāṃ kṣaṇamātramapi hāpayati | na vicchinattyā bodhimaṇḍaniṣadanāditi | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne vipulāśaya iti | muditataraśca bodhisattvo bhavati tānsattvāndānena tathānugṛhṇan | na tveva te satvāstena dānenānugṛhyamāṇā iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne muditāśayaḥ | upakārakatarāṃśca sa bodhisattvastānsattvānātmanaḥ samanupaśyati | yeṣāṃ tathā dānenopakaroti nātmānaṃ | teṣāmanuttarasamyaksaṃbodhyupastambhatāmupādāya iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dāne upakārāśayaḥ | na ca bodhisattvaḥ sattveṣu tathā vipulamapi dānamayaṃ puṇyamabhisaṃskṛtya pratikāreṇa vā artho[rthī] bhavati vipākena vā iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dānapāramitābhāvanāyāṃ nirlepāśayaḥ | yadbodhisattvastathā vipulasyāpi dānaskandhasya vipākaṃ satveṣvabhinandati nātmanaḥ | sarvasattvasādhāraṇaṃ ca kṛtvānuttarāyāṃ samyaksaṃbodhau pariṇāmayati iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya dānapāramitābhāvanāyāṃ kalyāṇāśayaḥ | tatra bodhisattvasya (MSA Bagchi 101) śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ | yadvodhisattvo gaṃgānadībālikāsameṣvātmabhāveṣu gaṃgānadībālikāsamakalpāyuṣpramāṇeṣu sarvopakaraṇanirantaravighātī trisāhasramahāsāhasralokadhātāvagnipratipūrṇe caturvidhamīryāpathaṃ kalpayannekaṃ śīlapāramitākṣaṇaṃ yāvatprajñāpāramitākṣaṇaṃ bhāvayedetena paryāyeṇa yāvāṃśchīlaskandho yāvān ca prajñāskandho yenānuttarāṃ samyaksaṃbodhimabhisaṃbudhyate śīlaskandhaṃ yāvatprajñāskandhaṃ bhāvayedatṛpta eva bodhisattvasya śīlapāramitābhāvanāyāmāśayo yāvatprajñāpāramitābhāvanāyāmāśaya iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāmatṛptāśayo yāvatprajñāpāramitābhāvanāyāmatṛptāśayaḥ | yadbodhisattvastāṃ śīlapāramitābhāvanāparaṃparāṃ yāvatprajñāpāramitābhāvanāparaṃparāmābodhimaṇḍaniṣadanānna sraṃsayati na vicchinatti iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ vipulāśayaḥ | muditataraśca bodhisattvo bhavati tayā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā sattvānanugṛhṇan | na tveva[vaṃ] te sattvā anugṛhyamāṇā iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ muditāśayaḥ | upakārakatarāṃśca bodhisattvastān sattvānātmanaḥ samanupaśyati | yeṣāṃ tathā śīlapāramitābhāvanayā yāvatprajñāpāramitābhāvanayā upakaroti nātmānaṃ | teṣāmanuttarasamyaksaṃbodhyupastambhatāmupādāya iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāmupakārāśayaḥ | na ca bodhisattvastathā vipulamapi śīlapāramitābhāvanāmayaṃ yāvatprajñāpāramitābhāvanāmayaṃ puṇyamabhisaṃskṛtya pratikāreṇa vārthī bhavati vipāke na vā iti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlāpāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ nirlepāśayaḥ | tatra yadbodhisattva evaṃ śīlapāramitābhāvanāmayasya yāvatprajñāpāramitābhāvanāmayapuṇyaskandhasya vipākaṃ sattveṣvevābhinandati nātmanaḥ | sarvasattvasādhāraṇaṃ ca kṛtvānuttarāyāṃ samyaksambodhau pariṇāmayatīti | ya evaṃrūpa āśayo 'yaṃ bodhisattvasya śīlapāramitābhāvanāyāṃ yāvatprajñāpāramitābhāvanāyāṃ kalyāṇāśayaḥ | upāyasaṃniśritā bhāvanā tryākārā | nirvikalpena jñānena trimaṇḍalapariśuddhipratyavekṣaṇatāmupādāya | tathā hi sa upāyaḥ sarvamanasikārāṇāmabhiniṣpattaye | vibhutvasaṃniśritā pāramitābhāvanā tryākārā | kāyavibhutvataḥ | caryāvibhutvataḥ | deśanāvibhutvataśca | tatra kāyavibhutvaṃ tathāgate dvau kāyau draṣṭavyau svābhāvikaḥ sāṃbhogikaśca | tatra caryāvibhutvaṃ nairmāṇikaḥ kāyo draṣṭavyaḥ | yena sarvākārāṃ sarvasattvānāṃ sahadhārmikacaryāṃ darśayati | deśanāvibhutvaṃ ṣaṭpāramitāsarvākāradeśanāyāmavyāghātaḥ | prabhedasaṃgrahe dvādaśaślokāḥ | dānādīnāṃ pratyekaṃ ṣaḍarthaprabhedataḥ | (MSA Bagchi 102) ṣaḍarthāḥ svabhāvahetuphalakarmayogavṛttyarthāḥ | tatra dānaprabhede dvau ślokau | pratipādanamarthasya cetanā mūlaniścitā | bhogātmabhāvasaṃpattī dvayānugrahapūrakaṃ
Sanskrit only: no published translation is held for this verse.
अमात्सर्ययुतं तच्च दृष्टधर्मामिषाभये । दानमेव[वं] परिज्ञाय पण्डितः समुदानयेत्
amātsaryayutaṃ tacca dṛṣṭadharmāmiṣābhaye | dānameva[vaṃ] parijñāya paṇḍitaḥ samudānayet
Sanskrit only: no published translation is held for this verse.
अर्थप्रतिपादनं प्रतिग्राहकेषु दानस्य स्वभावः । अलोभादिसहजा चेतना हेतुः । भोगसंपत्तिरात्मभावसंपत्तिश्चायुरादिसंगृहीता फलं पञ्चस्थानसूत्रवत् । स्वपरानुग्रहो महाबोधिसंभारपरिपूरिश्च कर्म । अमात्सर्ययोगो अमत्सरिषु वर्तते । दृष्टधर्मामिषाभयप्रदानप्रभेदेन चेति वृत्तिः । शीलप्रभेदे द्वौ श्लोकौ । षडङ्ग[ङ्गं]शमभावान्तं सुगतिस्थितिदायकं । प्रतिष्ठाशान्तनिर्भीतं पुण्यसंभारसंयुतं
arthapratipādanaṃ pratigrāhakeṣu dānasya svabhāvaḥ | alobhādisahajā cetanā hetuḥ | bhogasaṃpattirātmabhāvasaṃpattiścāyurādisaṃgṛhītā phalaṃ pañcasthānasūtravat | svaparānugraho mahābodhisaṃbhāraparipūriśca karma | amātsaryayogo amatsariṣu vartate | dṛṣṭadharmāmiṣābhayapradānaprabhedena ceti vṛttiḥ | śīlaprabhede dvau ślokau | ṣaḍaṅga[ṅgaṃ]śamabhāvāntaṃ sugatisthitidāyakaṃ | pratiṣṭhāśāntanirbhītaṃ puṇyasaṃbhārasaṃyutaṃ
Sanskrit only: no published translation is held for this verse.
संकेतधर्मतालब्धं संवरस्थेषु विद्यते । शीलमेवं परिज्ञाय पण्डितः समुदानयेत्
saṃketadharmatālabdhaṃ saṃvarastheṣu vidyate | śīlamevaṃ parijñāya paṇḍitaḥ samudānayet
Sanskrit only: no published translation is held for this verse.
षडङ्गमिति स्वभावः । षडङ्गीति शीलवान् विहरति यावत्समादाय शिक्षते शिक्षापदेष्विति । शमभावान्तमिति हेतुः । निर्वाणाभिप्रायेण समादानात् । सुगतिस्थितिदायकमिति फलं । शीलेन सुगतिगमनात् । अविप्रतिसारादिक्रमेण चित्तस्थितिलाभाच्च । प्रतिष्ठाशान्तनिर्भीतमिति कर्म । शीलं हि सर्वगुणानां प्रतिष्ठा भवति । क्लेशपरिदाहशान्त्या च शान्तं । प्राणातिपातादिप्रत्ययानां च भयावद्यवैराणामप्रसवान्निर्भीतं । पुण्यसंभारसंयुतमिति योगः सर्वकालं कायवाङ्मनस्कर्मसमाव[च]रणात् । संकेतधर्मतालब्धं संवरस्थेषु विद्यत इति वृत्तिस्तत्र संकेतलब्धं प्रातिमोक्षसंवरसंगृहीतं । धर्मताप्रतिलब्धं ध्यानानास्रवसंवरसंगृहीतमेषास्य प्रभेदवृत्तिः त्रिविधेन प्रभेदेन वर्तनात् । संवरस्थेषु विद्यत इत्याचा[धा]रवृत्तिः । क्षान्तिप्रभेदे द्वौ श्लोकौ । मर्षाधिवासनज्ञानं कारुण्याद्धर्मसंश्रयात् । पञ्चानुशंसमाख्यातं द्वयोरर्थकरं च तत्
ṣaḍaṅgamiti svabhāvaḥ | ṣaḍaṅgīti śīlavān viharati yāvatsamādāya śikṣate śikṣāpadeṣviti | śamabhāvāntamiti hetuḥ | nirvāṇābhiprāyeṇa samādānāt | sugatisthitidāyakamiti phalaṃ | śīlena sugatigamanāt | avipratisārādikrameṇa cittasthitilābhācca | pratiṣṭhāśāntanirbhītamiti karma | śīlaṃ hi sarvaguṇānāṃ pratiṣṭhā bhavati | kleśaparidāhaśāntyā ca śāntaṃ | prāṇātipātādipratyayānāṃ ca bhayāvadyavairāṇāmaprasavānnirbhītaṃ | puṇyasaṃbhārasaṃyutamiti yogaḥ sarvakālaṃ kāyavāṅmanaskarmasamāva[ca]raṇāt | saṃketadharmatālabdhaṃ saṃvarastheṣu vidyata iti vṛttistatra saṃketalabdhaṃ prātimokṣasaṃvarasaṃgṛhītaṃ | dharmatāpratilabdhaṃ dhyānānāsravasaṃvarasaṃgṛhītameṣāsya prabhedavṛttiḥ trividhena prabhedena vartanāt | saṃvarastheṣu vidyata ityācā[dhā]ravṛttiḥ | kṣāntiprabhede dvau ślokau | marṣādhivāsanajñānaṃ kāruṇyāddharmasaṃśrayāt | pañcānuśaṃsamākhyātaṃ dvayorarthakaraṃ ca tat
Sanskrit only: no published translation is held for this verse.
तपः प्राबल्यसंयुक्तं तेषु तत्त्रिविधं मतं । क्षान्तिमेवं परिज्ञाय पण्डितः समुदानयेत्
tapaḥ prābalyasaṃyuktaṃ teṣu tattrividhaṃ mataṃ | kṣāntimevaṃ parijñāya paṇḍitaḥ samudānayet
Sanskrit only: no published translation is held for this verse.
मर्षाधिवासज्ञानमिति त्रिविधायाः क्षान्तेः स्वभावः । अपकारमर्षणक्षान्तेर्मर्षणं मर्ष इति कृत्वा । दुःखाधिवासक्षान्तेर्धर्मनिध्यानक्षान्तेश्च यथाक्रमं । कारूण्याद्धर्मसंश्रयादिति हेतुः । धर्मसंश्रयः पुनः । शीलसमादानं श्रुतपर्यवाप्तिश्च । पञ्चानुशंसमाख्यातमिति फलं । यथोक्तं सूत्रे । पञ्चानुशंसाः क्षान्तौ । न वैरबहुलो भवति । न भेदबहुलो भवति । सुखसौमनस्यबहुलो भवति । अविप्रतिसारी कालं करोति । कायस्य च भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यते इति । द्वयोरर्थकरं च तदिति मर्षाधिवासनमित्यधिकृतं इदं कर्म । यथोक्तम् । द्वयोरर्थं स कुरूते आत्मनश्च परस्य च । यः परं कुपितं ज्ञात्वा स्वयं तत्रोपशाम्यति ॥ इति ॥ तपः प्राबल्यसंयुक्तमिति योगः । यथोक्तं । क्षान्तिः परमं तप इति । तेषु तदित्याधारवृत्तिः क्षमिषु तद्वृत्तेः । त्रिविधं मतमिति प्रभेदवृत्तिस्त्रिविधक्षान्तिप्रभेदेन यथोक्तं प्राक् । वीर्यप्रभेदे द्वौ श्लोकौ । उत्साहः कुशले सम्यक् श्रद्धाच्छन्दप्रतिष्ठितः । स्मृत्यादिगुणवृद्धौ च संक्लेशप्रातिपक्षिकः
marṣādhivāsajñānamiti trividhāyāḥ kṣānteḥ svabhāvaḥ | apakāramarṣaṇakṣāntermarṣaṇaṃ marṣa iti kṛtvā | duḥkhādhivāsakṣānterdharmanidhyānakṣānteśca yathākramaṃ | kārūṇyāddharmasaṃśrayāditi hetuḥ | dharmasaṃśrayaḥ punaḥ | śīlasamādānaṃ śrutaparyavāptiśca | pañcānuśaṃsamākhyātamiti phalaṃ | yathoktaṃ sūtre | pañcānuśaṃsāḥ kṣāntau | na vairabahulo bhavati | na bhedabahulo bhavati | sukhasaumanasyabahulo bhavati | avipratisārī kālaṃ karoti | kāyasya ca bhedāt sugatau svargaloke deveṣūpapadyate iti | dvayorarthakaraṃ ca taditi marṣādhivāsanamityadhikṛtaṃ idaṃ karma | yathoktam | dvayorarthaṃ sa kurūte ātmanaśca parasya ca | yaḥ paraṃ kupitaṃ jñātvā svayaṃ tatropaśāmyati || iti || tapaḥ prābalyasaṃyuktamiti yogaḥ | yathoktaṃ | kṣāntiḥ paramaṃ tapa iti | teṣu tadityādhāravṛttiḥ kṣamiṣu tadvṛtteḥ | trividhaṃ matamiti prabhedavṛttistrividhakṣāntiprabhedena yathoktaṃ prāk | vīryaprabhede dvau ślokau | utsāhaḥ kuśale samyak śraddhācchandapratiṣṭhitaḥ | smṛtyādiguṇavṛddhau ca saṃkleśaprātipakṣikaḥ
Sanskrit only: no published translation is held for this verse.
अलोभादिगुणोपेतस्तेषु सप्तविधश्च सः । वीर्यमेवं परिज्ञाय पण्डितः समुदानयेत
alobhādiguṇopetasteṣu saptavidhaśca saḥ | vīryamevaṃ parijñāya paṇḍitaḥ samudānayeta
Sanskrit only: no published translation is held for this verse.
उत्साहः कुशले सम्यगिति स्वभावः । कुशल इति तदन्यकृत्योत्साहव्युदासाथ[र्थं] सम्यगित्यन्यतीर्थिकमोक्षार्थोत्साहव्युदासार्थं । श्रद्धाच्छन्दप्रतिष्ठित इति हेतुः श्रद्दधानो ह्यतीव[ह्यर्थिको] वीर्यमारभति । स्मृत्यादिगुणवृद्धाविति फलम् । आरब्धवीर्यस्य स्मृतिसमाध्यादिगुणोद्भवात् । संक्लेशप्रातिपक्षिक इति कर्म । यथोक्तम् । आरब्धवीर्यस्तु सुखं विहरत्यव्यवकीर्णः पापकैरकुशलैर्धर्मैरिति । अलोभादिगुणोपेत इति योगः । तेष्वित्यारब्धवीर्येषु इयमाधारवृत्तिः । सप्तविध इति प्रभेदवृत्तिः । स पुनरधिशीलादि शिक्षात्रये कायिकं चेतसिकं च सातत्येन सत्कृत्य च यद्वीर्यम् । ध्यानप्रभेदे द्वौ श्लोकौ । स्थितिश्चेतस अध्यात्मं स्मृतिवीर्यप्रतिष्ठितं । सुखोपपत्तये ऽभिज्ञाविहारवशवर्तकम्
utsāhaḥ kuśale samyagiti svabhāvaḥ | kuśala iti tadanyakṛtyotsāhavyudāsātha[rthaṃ] samyagityanyatīrthikamokṣārthotsāhavyudāsārthaṃ | śraddhācchandapratiṣṭhita iti hetuḥ śraddadhāno hyatīva[hyarthiko] vīryamārabhati | smṛtyādiguṇavṛddhāviti phalam | ārabdhavīryasya smṛtisamādhyādiguṇodbhavāt | saṃkleśaprātipakṣika iti karma | yathoktam | ārabdhavīryastu sukhaṃ viharatyavyavakīrṇaḥ pāpakairakuśalairdharmairiti | alobhādiguṇopeta iti yogaḥ | teṣvityārabdhavīryeṣu iyamādhāravṛttiḥ | saptavidha iti prabhedavṛttiḥ | sa punaradhiśīlādi śikṣātraye kāyikaṃ cetasikaṃ ca sātatyena satkṛtya ca yadvīryam | dhyānaprabhede dvau ślokau | sthitiścetasa adhyātmaṃ smṛtivīryapratiṣṭhitaṃ | sukhopapattaye 'bhijñāvihāravaśavartakam
Sanskrit only: no published translation is held for this verse.
धर्माणां प्रमुखं तेषु विद्यते त्रिविधश्च सः । ध्यानमेवं परिज्ञाय पण्डितः समुदानयेत्
dharmāṇāṃ pramukhaṃ teṣu vidyate trividhaśca saḥ | dhyānamevaṃ parijñāya paṇḍitaḥ samudānayet
Sanskrit only: no published translation is held for this verse.
स्थितिश्चेतस अध्यात्ममिति स्वभावः । स्मृतिवीर्यप्रतिष्ठितमिति हेतुः । आलम्बनासंप्रमोषे सति वीर्यं निश्रित्य समापत्त्यभिनिर्हारात् । सुखोपपत्तये इति फलं ध्यानस्याव्याबाधोपपत्तिफलत्वात् । अभिज्ञाविहारवशवर्तकमिति कर्म । ध्यानेनाभिज्ञावशवर्तनात् । आर्यदिव्यब्राह्मविहारवशवर्तनाच्च । धर्माणां प्रमुखमिति प्रामुख्येन योगः । यथोक्तं । समाधिप्रमुखाः सर्वधर्मा इति । तेषु विद्यत इति ध्यायिष्वियमाधारवृत्तिः । त्रिविश्च स इति सवितर्कः सविचारः अवितर्को विचारमात्रः । अवितर्को अविचारः । पुनः प्रीतिसहगतः । सातसहगतः । उपेक्षासहगतश्च । इयं प्रभेदवृत्तिः । प्रज्ञाप्रभेदे द्वौ श्लोकौ । सम्यक्प्रविचयो ज्ञेयः श[स]माधानप्रतिष्ठितः । सुविमोक्षाय संक्लेशात्प्रज्ञाजीवसुदेशनः
sthitiścetasa adhyātmamiti svabhāvaḥ | smṛtivīryapratiṣṭhitamiti hetuḥ | ālambanāsaṃpramoṣe sati vīryaṃ niśritya samāpattyabhinirhārāt | sukhopapattaye iti phalaṃ dhyānasyāvyābādhopapattiphalatvāt | abhijñāvihāravaśavartakamiti karma | dhyānenābhijñāvaśavartanāt | āryadivyabrāhmavihāravaśavartanācca | dharmāṇāṃ pramukhamiti prāmukhyena yogaḥ | yathoktaṃ | samādhipramukhāḥ sarvadharmā iti | teṣu vidyata iti dhyāyiṣviyamādhāravṛttiḥ | triviśca sa iti savitarkaḥ savicāraḥ avitarko vicāramātraḥ | avitarko avicāraḥ | punaḥ prītisahagataḥ | sātasahagataḥ | upekṣāsahagataśca | iyaṃ prabhedavṛttiḥ | prajñāprabhede dvau ślokau | samyakpravicayo jñeyaḥ śa[sa]mādhānapratiṣṭhitaḥ | suvimokṣāya saṃkleśātprajñājīvasudeśanaḥ
Sanskrit only: no published translation is held for this verse.
धर्माणामुत्तरस्तेषु विद्यते त्रिविधश्च सः । प्रज्ञामेवं परिज्ञाय पण्डितः समुदानयेत्
dharmāṇāmuttarasteṣu vidyate trividhaśca saḥ | prajñāmevaṃ parijñāya paṇḍitaḥ samudānayet
Sanskrit only: no published translation is held for this verse.
सम्यक् प्रविचयो ज्ञेय इति स्वभावः । सम्यगिति न मिथ्या ज्ञेय इति लौकिककृत्यसम्यक्प्रविचयव्युदासार्थं । समाधानप्रतिष्ठित इति हेतुः । समाहितचित्तो यथाभूतं प्रजानाति । यस्मात्सुविमोक्षाय संक्लेशादिति फलं । तेन हि संक्लेशात्सु विमोक्षो भवति । लौकिकहीनलोकोत्तरमहालोकोत्तरेण प्रविचयेन । प्रज्ञाजीवसुदेशन इति प्रज्ञाजीवः सुदेशना चास्य कर्म । तेन ह्यनुत्तर[रः] प्रज्ञाजीवकानां जीवति । सम्यग् धर्मं देशयतीति । धर्माणामुत्तर इत्युत्तरत्वेन योगः । यथोक्तं । प्रज्ञोत्तराः सर्वधर्मा इति । तेषु विद्यते त्रिविधश्च स इति वृत्तिः । प्राज्ञेषु वर्तनात् त्रिविधेन च प्रभेदेन । लौकिको हीनलोकोत्तरो महालोकोत्तरश्च । उक्तः प्रत्येकं दीनादीनां षडर्थप्रभेदेन प्रभेदः । संग्रहविभागे श्लोकः । सर्वे शुक्ला धर्मा विविप्तसमाहितोभया ज्ञेयाः । द्वाभ्यां द्वाभ्यां द्वाभ्यां पारमिताभ्यां परिगृहीताः
samyak pravicayo jñeya iti svabhāvaḥ | samyagiti na mithyā jñeya iti laukikakṛtyasamyakpravicayavyudāsārthaṃ | samādhānapratiṣṭhita iti hetuḥ | samāhitacitto yathābhūtaṃ prajānāti | yasmātsuvimokṣāya saṃkleśāditi phalaṃ | tena hi saṃkleśātsu vimokṣo bhavati | laukikahīnalokottaramahālokottareṇa pravicayena | prajñājīvasudeśana iti prajñājīvaḥ sudeśanā cāsya karma | tena hyanuttara[raḥ] prajñājīvakānāṃ jīvati | samyag dharmaṃ deśayatīti | dharmāṇāmuttara ityuttaratvena yogaḥ | yathoktaṃ | prajñottarāḥ sarvadharmā iti | teṣu vidyate trividhaśca sa iti vṛttiḥ | prājñeṣu vartanāt trividhena ca prabhedena | laukiko hīnalokottaro mahālokottaraśca | uktaḥ pratyekaṃ dīnādīnāṃ ṣaḍarthaprabhedena prabhedaḥ | saṃgrahavibhāge ślokaḥ | sarve śuklā dharmā viviptasamāhitobhayā jñeyāḥ | dvābhyāṃ dvābhyāṃ dvābhyāṃ pāramitābhyāṃ parigṛhītāḥ
Sanskrit only: no published translation is held for this verse.
सर्वे शुक्ला धर्मा दानादिधर्माः । तत्र विक्षिप्ता द्वाभ्यां पारमिताभ्यां संगृहीताः प्रथमाभ्यां दानसमादानशीलयोरसमाहितत्वात् । समाहिता द्वाभ्यां पश्चिमाभ्यां ध्यानयथाभूतप्रज्ञयोः (म्स्अ बग्छि १०५) समाहितत्वात् । उभये द्वाभ्यां क्षान्तिवीर्याभ्यां । तयोः समाहितासमाहितत्वात् । विपक्षविभागे श्लोकाः षट् । न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च दानं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम्
sarve śuklā dharmā dānādidharmāḥ | tatra vikṣiptā dvābhyāṃ pāramitābhyāṃ saṃgṛhītāḥ prathamābhyāṃ dānasamādānaśīlayorasamāhitatvāt | samāhitā dvābhyāṃ paścimābhyāṃ dhyānayathābhūtaprajñayoḥ (MSA Bagchi 105) samāhitatvāt | ubhaye dvābhyāṃ kṣāntivīryābhyāṃ | tayoḥ samāhitāsamāhitatvāt | vipakṣavibhāge ślokāḥ ṣaṭ | na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca dānaṃ | na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām
Sanskrit only: no published translation is held for this verse.
सप्तविधा सक्तिर्दानस्य विपक्षः । भोगसक्तिः विलम्बनसक्तिः तन्मात्रसंतुष्टिसक्तिः पक्षपातसक्तिः[?] प्रतिकारसक्तिः विपाकसक्तिः । विपक्षसक्तिस्तु तद्विपक्षलाभानुशयासमुद्धातात् । विक्षेपसक्तिश्च । स पुनर्विक्षेपो द्विविधः । मनसिकारविक्षेपश्च हीनयानस्पृहणात् । विकल्पविक्षेपश्च दायकप्रतिग्राहकदानविकल्पनात् । अतः सप्तविधसक्तिमुक्तत्वात् सप्तकृत्वो दानस्यासक्तत्वमुक्तम् । न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च शीलं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम्
saptavidhā saktirdānasya vipakṣaḥ | bhogasaktiḥ vilambanasaktiḥ tanmātrasaṃtuṣṭisaktiḥ pakṣapātasaktiḥ[?] pratikārasaktiḥ vipākasaktiḥ | vipakṣasaktistu tadvipakṣalābhānuśayāsamuddhātāt | vikṣepasaktiśca | sa punarvikṣepo dvividhaḥ | manasikāravikṣepaśca hīnayānaspṛhaṇāt | vikalpavikṣepaśca dāyakapratigrāhakadānavikalpanāt | ataḥ saptavidhasaktimuktatvāt saptakṛtvo dānasyāsaktatvamuktam | na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca śīlaṃ | na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām
Sanskrit only: no published translation is held for this verse.
न च सक्ता न च सक्ता न च सक्ता सक्तिका न क्षान्तिः । न च सक्ता न च सक्ता न च सक्ता बोधिसत्त्वानाम्
na ca saktā na ca saktā na ca saktā saktikā na kṣāntiḥ | na ca saktā na ca saktā na ca saktā bodhisattvānām
Sanskrit only: no published translation is held for this verse.
न च सक्तं न च सक्तं न च सक्तं सक्तमेव च न वीर्यं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम्
na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva ca na vīryaṃ | na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām
Sanskrit only: no published translation is held for this verse.
न च सक्तं न च सक्तं न च सक्तं सक्तमेव न च ध्यानं । न च सक्तं न च सक्तं न च सक्तं बोधिसत्त्वानाम्
na ca saktaṃ na ca saktaṃ na ca saktaṃ saktameva na ca dhyānaṃ | na ca saktaṃ na ca saktaṃ na ca saktaṃ bodhisattvānām
Sanskrit only: no published translation is held for this verse.
न च सक्ता न च सक्ता न च सक्ता सक्तिका न च प्रज्ञा । न च सक्ता न च सक्ता न च सक्ता बोधिसत्त्वानाम्
na ca saktā na ca saktā na ca saktā saktikā na ca prajñā | na ca saktā na ca saktā na ca saktā bodhisattvānām
Sanskrit only: no published translation is held for this verse.
यथा दानासक्तिरूक्ता एवं शीले यावत्प्रज्ञायां वेदितव्या । अत्र तु विशेषभोगसक्तिपरिवर्तेन दौःशील्याद्यासाक्तिर्वेदितव्या विपक्षसक्तिस्तद्विपक्षानुशया समुद्धातनात् । विकल्पविक्षेपश्च यथायोगं त्रिमण्डलपरिकल्पनात् । गुणविभागे त्रयोविंशतिः श्लोकाः । त्यक्तं बुद्धसुतैः स्वजीवितमपि प्राप्यार्थिनं सर्वदा । कारुण्यात्परतो न च प्रतिकृतिर्नेष्टं फलं प्रार्थितं । दानेनैव च तेन सर्वजनता बोधित्रये रोपिता । दानं ज्ञानपरिग्रहेण च पुनर्लोके ऽज्ञयं स्थापितम्
yathā dānāsaktirūktā evaṃ śīle yāvatprajñāyāṃ veditavyā | atra tu viśeṣabhogasaktiparivartena dauḥśīlyādyāsāktirveditavyā vipakṣasaktistadvipakṣānuśayā samuddhātanāt | vikalpavikṣepaśca yathāyogaṃ trimaṇḍalaparikalpanāt | guṇavibhāge trayoviṃśatiḥ ślokāḥ | tyaktaṃ buddhasutaiḥ svajīvitamapi prāpyārthinaṃ sarvadā | kāruṇyātparato na ca pratikṛtirneṣṭaṃ phalaṃ prārthitaṃ | dānenaiva ca tena sarvajanatā bodhitraye ropitā | dānaṃ jñānaparigraheṇa ca punarloke 'jñayaṃ sthāpitam
Sanskrit only: no published translation is held for this verse.
शीलेनैव च तेन सर्वजनता बोधित्रये रोपिता । शीलं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम्
śīlenaiva ca tena sarvajanatā bodhitraye ropitā | śīlaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam
Sanskrit only: no published translation is held for this verse.
त्रिविधं शीलं । संघरशीलं । कुशलधर्मसंग्राहकशीलं । सत्त्वार्थक्रियाशीलं च । एकात्मकम्[एषामेकं] यमस्वभावं । द्वे उद्यमस्वभावे । क्षान्तं बुद्धसुतैः सुदुष्करमथो सर्वापकारं नृणां न स्वर्गार्थमस[श]क्तितो न च भयान्नैवोपकारेक्षणात् । क्षान्त्यानुत्तरया च सर्वतनजा बोधित्रये रोपिता । क्षान्तिर्ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षया स्थापिता
trividhaṃ śīlaṃ | saṃgharaśīlaṃ | kuśaladharmasaṃgrāhakaśīlaṃ | sattvārthakriyāśīlaṃ ca | ekātmakam[eṣāmekaṃ] yamasvabhāvaṃ | dve udyamasvabhāve | kṣāntaṃ buddhasutaiḥ suduṣkaramatho sarvāpakāraṃ nṛṇāṃ na svargārthamasa[śa]ktito na ca bhayānnaivopakārekṣaṇāt | kṣāntyānuttarayā ca sarvatanajā bodhitraye ropitā | kṣāntirjñānaparigraheṇa ca punarloke 'kṣayā sthāpitā
Sanskrit only: no published translation is held for this verse.
इति । ज्ञान्त्यानुत्तरया चेति दुःखाधिवासनक्षान्त्या च परापकारमर्षणक्षान्त्या च यथाक्रमम् । वीर्यं बुद्धसुतैः कृतं निरूपमं संनाहयोगात्मकं हन्तुं क्लेशगणं स्वतो ऽपि परत प्राप्तं च बोधिं परां । वीर्येणैव च तेन सर्वजनता बोधित्रये रोपिता । वीर्यं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम्
iti | jñāntyānuttarayā ceti duḥkhādhivāsanakṣāntyā ca parāpakāramarṣaṇakṣāntyā ca yathākramam | vīryaṃ buddhasutaiḥ kṛtaṃ nirūpamaṃ saṃnāhayogātmakaṃ hantuṃ kleśagaṇaṃ svato 'pi parata prāptaṃ ca bodhiṃ parāṃ | vīryeṇaiva ca tena sarvajanatā bodhitraye ropitā | vīryaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam
Sanskrit only: no published translation is held for this verse.
इति । संनाहवीर्यं प्रयोगवीर्यं च । ध्यानं बुद्धसुतैः समाधिबहुलं संपादितं सर्वथा श्रेष्ठैर्ध्यानसुखैर्विहृत्य कृपया हीनापपत्तिः श्रिता । ध्यानेनैव च तेन सर्वजनता बोधित्रये रोपिता । ध्यानं ज्ञानपरिग्रहेण च पुनर्लोके ऽक्षयं स्थापितम्
iti | saṃnāhavīryaṃ prayogavīryaṃ ca | dhyānaṃ buddhasutaiḥ samādhibahulaṃ saṃpāditaṃ sarvathā śreṣṭhairdhyānasukhairvihṛtya kṛpayā hīnāpapattiḥ śritā | dhyānenaiva ca tena sarvajanatā bodhitraye ropitā | dhyānaṃ jñānaparigraheṇa ca punarloke 'kṣayaṃ sthāpitam
Sanskrit only: no published translation is held for this verse.
इति । समाधिबहुलमिति अनन्तबोधिसत्त्वसमाधिसंगृहीतम् । ज्ञातं बुद्धसुतैः सतत्त्वमखिलं ज्ञेयं च यत्सर्वथा सक्तिर्नैव च निर्वृत्तौ प्रजनिता बुद्धैः[द्धेः] कुतः संवृत्तौ । ज्ञानेनैव च तेन सर्वजनता बोधित्रये रोपिता । ज्ञानं सत्त्वपरिग्रहेण पुनर्लोके ऽक्षयं स्थापितम्
iti | samādhibahulamiti anantabodhisattvasamādhisaṃgṛhītam | jñātaṃ buddhasutaiḥ satattvamakhilaṃ jñeyaṃ ca yatsarvathā saktirnaiva ca nirvṛttau prajanitā buddhaiḥ[ddheḥ] kutaḥ saṃvṛttau | jñānenaiva ca tena sarvajanatā bodhitraye ropitā | jñānaṃ sattvaparigraheṇa punarloke 'kṣayaṃ sthāpitam
Sanskrit only: no published translation is held for this verse.
औदार्यानामिषत्वं च महार्थाक्षयतापि च । दानादीनां समस्तं हि ज्ञेयं गुणचतुष्टयम्
audāryānāmiṣatvaṃ ca mahārthākṣayatāpi ca | dānādīnāṃ samastaṃ hi jñeyaṃ guṇacatuṣṭayam
Sanskrit only: no published translation is held for this verse.
इति । तत्रदानादीनां प्रथमेन पादेनोदारता परिदीपिता । द्वितीयेन निरामिपता । तृतीयेन महार्थता महतः सत्त्वार्थस्य संपादनात् । चतुर्थेनाक्षयता इत्येषां गुणचतुष्टयमेभिः श्लोकैर्वेदितव्यम् । दर्शनपूरणतुष्टिं याचनके ऽतुष्टिमपि समाशास्तिं । अभिभवति स तां दाता कृपालुराधिक्ययोगेन
iti | tatradānādīnāṃ prathamena pādenodāratā paridīpitā | dvitīyena nirāmipatā | tṛtīyena mahārthatā mahataḥ sattvārthasya saṃpādanāt | caturthenākṣayatā ityeṣāṃ guṇacatuṣṭayamebhiḥ ślokairveditavyam | darśanapūraṇatuṣṭiṃ yācanake 'tuṣṭimapi samāśāstiṃ | abhibhavati sa tāṃ dātā kṛpālurādhikyayogena
Sanskrit only: no published translation is held for this verse.
याचनके हि जने दायकदर्शनात्ततश्च यथेप्सितं लब्ध्वा मनोरथपरिपूरणाद्या तुष्टिरूत्पद्यते । अतुष्टिश्चादर्शनादपरिपूरणाच्च । आशास्तिश्च या तद्दर्शने मनोरथपरिपूरणे च । सा बोधिसत्त्वस्याधिकोत्पद्यते सर्वकालं याचनकदर्शनात्तन्मनोरथपरिपूरणाच्च । अदर्शनादपरिपूरणाच्चातुष्टिः । अतो दाता कृपालुस्तां सर्वमभिभवत्याधिक्ययोगात् । प्राणान्भोगान्दारान्सत्त्वेषु सदान्य[त्य]जनकृपालुत्वात् । आमोदते निकामं तद्विरतिं पालयेन्न कथम्
yācanake hi jane dāyakadarśanāttataśca yathepsitaṃ labdhvā manorathaparipūraṇādyā tuṣṭirūtpadyate | atuṣṭiścādarśanādaparipūraṇācca | āśāstiśca yā taddarśane manorathaparipūraṇe ca | sā bodhisattvasyādhikotpadyate sarvakālaṃ yācanakadarśanāttanmanorathaparipūraṇācca | adarśanādaparipūraṇāccātuṣṭiḥ | ato dātā kṛpālustāṃ sarvamabhibhavatyādhikyayogāt | prāṇānbhogāndārānsattveṣu sadānya[tya]janakṛpālutvāt | āmodate nikāmaṃ tadviratiṃ pālayenna katham
Sanskrit only: no published translation is held for this verse.
तेभ्यो विरतिं तद्विरतिं परकीयेभ्यः प्राणभोगदारेभ्यः । एतेन त्रिविधात्कायदुश्चरिताद्विरतिशीलगुणं दर्शयति । निरपेक्षः समचित्तो निर्भीः सर्वप्रदः कृपाहेतोः । मिथ्यावादं ब्रूयात्परोपघाताय कथमार्यः
tebhyo viratiṃ tadviratiṃ parakīyebhyaḥ prāṇabhogadārebhyaḥ | etena trividhātkāyaduścaritādviratiśīlaguṇaṃ darśayati | nirapekṣaḥ samacitto nirbhīḥ sarvapradaḥ kṛpāhetoḥ | mithyāvādaṃ brūyātparopaghātāya kathamāryaḥ
Sanskrit only: no published translation is held for this verse.
एतेन मृषावादाद्विरतिगुणं दर्शयति । आत्महेतोर्मृषावाद उच्येत कायजीवितापेक्षया । परहेतोर्वा प्रियजनप्रेम्ना । भयेन वा राजादिभयात् । आमिषकिंचित्कहेतोर्वा लाभार्थं । बोधिसत्त्वश्च स्वकायजीवितनिरपेक्षः । समचित्तश्च सर्वसत्त्वेष्वात्मसमचित्ततया । निर्भयश्च पञ्चभयसमतिक्रान्तत्वात् । सर्वप्रदश्चार्थिभ्यः सर्वसत्त्वपरित्यागात् । स केन हेतुना मृषावादं ब्रूयात् । संमहितकामः सकृपः परदुःखोत्पादने ऽतिभीरुश्च । सत्त्वविनये सुयुक्तः सुविदूरे त्रिविधवाग्दोषात्
etena mṛṣāvādādviratiguṇaṃ darśayati | ātmahetormṛṣāvāda ucyeta kāyajīvitāpekṣayā | parahetorvā priyajanapremnā | bhayena vā rājādibhayāt | āmiṣakiṃcitkahetorvā lābhārthaṃ | bodhisattvaśca svakāyajīvitanirapekṣaḥ | samacittaśca sarvasattveṣvātmasamacittatayā | nirbhayaśca pañcabhayasamatikrāntatvāt | sarvapradaścārthibhyaḥ sarvasattvaparityāgāt | sa kena hetunā mṛṣāvādaṃ brūyāt | saṃmahitakāmaḥ sakṛpaḥ paraduḥkhotpādane 'tibhīruśca | sattvavinaye suyuktaḥ suvidūre trividhavāgdoṣāt
Sanskrit only: no published translation is held for this verse.
बोधिसत्त्वः सर्वसत्त्वेषु समं हितकामः स कथं परेषां मित्रभेदार्थं पैशुन्यं करिष्यतीति । सुकृपश्च परदुःखापनयाभिप्रायात् । परदुःखोत्पादने चात्यर्थं भीरूः स (म्स्अ बग्छि १०८) कथं परेषां दुःखोत्पादनार्थं परूषं वक्ष्यति । सत्त्वानां विनये सम्यक्प्रयुक्तः स कथं संभिन्नप्रलापं करिष्यति तस्मादसौ सूविदूरे त्रिविधवाग्दोषात् पैशुन्यात्पारूष्यात्संभिन्नप्रलापाच्च । सर्वप्रदः कृपालुः प्रतीत्यधर्मोदये सुकुशलश्च । अधिवासयेत्कथमसौ सर्वाकारं मनः क्लेशम्
bodhisattvaḥ sarvasattveṣu samaṃ hitakāmaḥ sa kathaṃ pareṣāṃ mitrabhedārthaṃ paiśunyaṃ kariṣyatīti | sukṛpaśca paraduḥkhāpanayābhiprāyāt | paraduḥkhotpādane cātyarthaṃ bhīrūḥ sa (MSA Bagchi 108) kathaṃ pareṣāṃ duḥkhotpādanārthaṃ parūṣaṃ vakṣyati | sattvānāṃ vinaye samyakprayuktaḥ sa kathaṃ saṃbhinnapralāpaṃ kariṣyati tasmādasau sūvidūre trividhavāgdoṣāt paiśunyātpārūṣyātsaṃbhinnapralāpācca | sarvapradaḥ kṛpāluḥ pratītyadharmodaye sukuśalaśca | adhivāsayetkathamasau sarvākāraṃ manaḥ kleśam
Sanskrit only: no published translation is held for this verse.
अभिध्या व्यापादो मिथ्यादृष्टिर्वा यथाक्रमं । एष दौःशील्यप्रतिपक्षधर्मविशेषयोगाच्छीलविशुद्धिगू[गु?]णो बोधिसत्त्वानां वेदितव्यः । उपकरसंज्ञामोदं ह्यपकारिणिपरहित संज्ञां[परहिते सदा] दुःखे । लभते यदा कृपालुः क्षमितव्यं ॥। [किं कुतस्तस्य]
abhidhyā vyāpādo mithyādṛṣṭirvā yathākramaṃ | eṣa dauḥśīlyapratipakṣadharmaviśeṣayogācchīlaviśuddhigū[gu?]ṇo bodhisattvānāṃ veditavyaḥ | upakarasaṃjñāmodaṃ hyapakāriṇiparahita saṃjñāṃ[parahite sadā] duḥkhe | labhate yadā kṛpāluḥ kṣamitavyaṃ ... [kiṃ kutastasya]
Sanskrit only: no published translation is held for this verse.
परपरसंज्ञापगमात्स्वतो ऽधिकतरात्सदा परस्नेहात् । दुष्करचरणात्सकृपे ह्यदुष्करं वीर्यं
paraparasaṃjñāpagamātsvato 'dhikatarātsadā parasnehāt | duṣkaracaraṇātsakṛpe hyaduṣkaraṃ vīryaṃ
Sanskrit only: no published translation is held for this verse.
सकृपो बोधिसत्त्वः । तत्र सकृपे यत्परार्थं दुष्करचरणाद्वीर्यं तद्दुष्करं च सुदुष्करं च कथमदुष्करं । परत्र परसंज्ञापगमात् । स्वतो ऽधिकतराच्च सर्वदा परेषु स्नेहात् । कथं सुदुष्करं । यदेवं परसंज्ञापगतं च स्वतोधिकतरस्नेहं च तद्वीर्यम् । अल्पसुखं ह्यात्मसुखं लीनं परिहाणिकं क्षयि समोहं । ध्यानं मतं त्रयाणां विपर्ययाद्बोधिसत्त्वानाम्
sakṛpo bodhisattvaḥ | tatra sakṛpe yatparārthaṃ duṣkaracaraṇādvīryaṃ tadduṣkaraṃ ca suduṣkaraṃ ca kathamaduṣkaraṃ | paratra parasaṃjñāpagamāt | svato 'dhikatarācca sarvadā pareṣu snehāt | kathaṃ suduṣkaraṃ | yadevaṃ parasaṃjñāpagataṃ ca svatodhikatarasnehaṃ ca tadvīryam | alpasukhaṃ hyātmasukhaṃ līnaṃ parihāṇikaṃ kṣayi samohaṃ | dhyānaṃ mataṃ trayāṇāṃ viparyayādbodhisattvānām
Sanskrit only: no published translation is held for this verse.
अल्पसुखं ध्यानं लौकिकानामात्मसुखं श्रावकप्रत्येकबुद्धानां । लीनं लौकिकानां सत्काये श्रावकप्रत्येकबुद्धानां च निर्वाणे । परिहाणिकं लौकिकानां क्षयि श्रावकप्रत्येकबुद्धानां निरूपधिशेषनिर्वाणे तत्क्षयात् । समोहं सर्वेषां यथायोगक्लिष्टाक्लिष्टेन मोहेन । बोधिसत्त्वानां पुनर्ध्यान बहुसुखमात्मपरसुखमलीनमपरिहाणिकमक्षय्यसमोहं च । आमोषैस्तमसि यथा दीपैर्नुन्नं[श्छन्ने] तथा त्रयज्ञानं । दिनकरकिरणौरिव तु ज्ञानमतुल्यं कृपालुनाम्
alpasukhaṃ dhyānaṃ laukikānāmātmasukhaṃ śrāvakapratyekabuddhānāṃ | līnaṃ laukikānāṃ satkāye śrāvakapratyekabuddhānāṃ ca nirvāṇe | parihāṇikaṃ laukikānāṃ kṣayi śrāvakapratyekabuddhānāṃ nirūpadhiśeṣanirvāṇe tatkṣayāt | samohaṃ sarveṣāṃ yathāyogakliṣṭākliṣṭena mohena | bodhisattvānāṃ punardhyāna bahusukhamātmaparasukhamalīnamaparihāṇikamakṣayyasamohaṃ ca | āmoṣaistamasi yathā dīpairnunnaṃ[śchanne] tathā trayajñānaṃ | dinakarakiraṇauriva tu jñānamatulyaṃ kṛpālunām
Sanskrit only: no published translation is held for this verse.
यथा हस्तामोषैस्तमसि ज्ञानं परीत्तविषयमप्रत्यक्षमव्यक्तं च तथा पृथग्जनानां । यथावचरके[गहवरके] दीपैर्ज्ञानं प्रादेशिकं प्रत्यक्षं नातिनिर्मलं तथा श्रावकाणां प्रत्येकबुद्धानां च । यथा दिनकरकिरणैर्ज्ञानं समन्तात्प्रत्यक्षं सुनिर्मलं च तथा बोधिसत्त्वानां । अत एव तदतुल्यम् । आश्रयाद्वस्तुतो दानं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम्
yathā hastāmoṣaistamasi jñānaṃ parīttaviṣayamapratyakṣamavyaktaṃ ca tathā pṛthagjanānāṃ | yathāvacarake[gahavarake] dīpairjñānaṃ prādeśikaṃ pratyakṣaṃ nātinirmalaṃ tathā śrāvakāṇāṃ pratyekabuddhānāṃ ca | yathā dinakarakiraṇairjñānaṃ samantātpratyakṣaṃ sunirmalaṃ ca tathā bodhisattvānāṃ | ata eva tadatulyam | āśrayādvastuto dānaṃ nimittātpariṇāmanāt | hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam
Sanskrit only: no published translation is held for this verse.
तत्राश्रयो बोधिसत्त्वः । वस्तु आमिषदानस्याध्यात्मिकं वस्तु परमम् । अभयदानस्थापायसंसारभीतेभ्यस्तु तदभयं । धर्मदानस्य महायानं । निमित्तं करुणा । परिणामना तेन महाबोधिफलप्रार्थना । हेतुः पूर्वदानपारमिताभ्यासवासना । ज्ञानं निर्विकल्पं येन त्रिमण्डलपरिशुद्धं दानं ददाति दातृदेयप्रतिग्राहक्राविकल्पनात् । क्षेत्रं पञ्चविधम् । अर्थी दुःखितो निःप्रतिसरणो दुश्चरितचारी गुणवांश्च । चतुर्णामुत्तरं क्षेत्रं परं । तदभावे पञ्चमं । निश्रयस्त्रिविधो यं निश्रित्य ददाति । अधिमुक्तिर्मनसिकारः समाधिश्च । अधिमुक्तिर्यथा भावनाविभागे ऽधिमुक्तिमनस्कार उक्तः । मनस्कारो यथा तत्रैवास्वादनाभिनन्दन[नौमोदनाभि] मनस्कार उक्तः । समाधिर्गगनगञ्जादिर्यथा तत्रैव विभुत्वमुक्तं । एवमाश्रयादिपरसमयो दानं परमं । सो ऽयं चापदेशो वेदितव्यः । यश्च ददाति यच्च येन च यस्मै च यतश्च यस्य च परिग्रहेण यत्र च यावत्प्रकारं तद्दानम् । आश्रयाद्वस्तुतः शीलं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम्
tatrāśrayo bodhisattvaḥ | vastu āmiṣadānasyādhyātmikaṃ vastu paramam | abhayadānasthāpāyasaṃsārabhītebhyastu tadabhayaṃ | dharmadānasya mahāyānaṃ | nimittaṃ karuṇā | pariṇāmanā tena mahābodhiphalaprārthanā | hetuḥ pūrvadānapāramitābhyāsavāsanā | jñānaṃ nirvikalpaṃ yena trimaṇḍalapariśuddhaṃ dānaṃ dadāti dātṛdeyapratigrāhakrāvikalpanāt | kṣetraṃ pañcavidham | arthī duḥkhito niḥpratisaraṇo duścaritacārī guṇavāṃśca | caturṇāmuttaraṃ kṣetraṃ paraṃ | tadabhāve pañcamaṃ | niśrayastrividho yaṃ niśritya dadāti | adhimuktirmanasikāraḥ samādhiśca | adhimuktiryathā bhāvanāvibhāge 'dhimuktimanaskāra uktaḥ | manaskāro yathā tatraivāsvādanābhinandana[naumodanābhi] manaskāra uktaḥ | samādhirgaganagañjādiryathā tatraiva vibhutvamuktaṃ | evamāśrayādiparasamayo dānaṃ paramaṃ | so 'yaṃ cāpadeśo veditavyaḥ | yaśca dadāti yacca yena ca yasmai ca yataśca yasya ca parigraheṇa yatra ca yāvatprakāraṃ taddānam | āśrayādvastutaḥ śīlaṃ nimittātpariṇāmanāt | hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam
Sanskrit only: no published translation is held for this verse.
हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परा मता ॥ आश्रयाद्वस्तुतो वीर्यं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परं मतम्
hetuto jñānataḥ kṣetrānniśrayācca parā matā || āśrayādvastuto vīryaṃ nimittātpariṇāmanāt | hetuto jñānataḥ kṣetrānniśrayācca paraṃ matam
Sanskrit only: no published translation is held for this verse.
आश्रयाद्वस्तुतो ध्यानं निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रानिश्रयाच्च परं मतम्
āśrayādvastuto dhyānaṃ nimittātpariṇāmanāt | hetuto jñānataḥ kṣetrāniśrayācca paraṃ matam
Sanskrit only: no published translation is held for this verse.
आश्रयाद्वस्तुतः प्रज्ञा निमित्तात्परिणामनात् । हेतुतो ज्ञानतः क्षेत्रान्निश्रयाच्च परा मता
āśrayādvastutaḥ prajñā nimittātpariṇāmanāt | hetuto jñānataḥ kṣetrānniśrayācca parā matā
Sanskrit only: no published translation is held for this verse.
शीलस्य परमं वस्तु बोधिसत्त्वसंवरः । क्षान्तेः प्राणापहारिणौ हीनदुर्बलौ । वीर्यस्य पारमिताभावना तद्विपक्षप्रहाणं च । ध्यानस्य बोधिसत्त्वसमाधयः । प्रज्ञायास्तथता । सर्वेषां शीलादीनां क्षेत्रं महायानं । शेषं पूर्वबद्धेदितव्यम् । एकसत्त्वसुखं दानं बहुकल्पविघातकृत । प्रियं स्यद्बोधिसत्त्वानां प्रागेव तद्विपर्ययात्
śīlasya paramaṃ vastu bodhisattvasaṃvaraḥ | kṣānteḥ prāṇāpahāriṇau hīnadurbalau | vīryasya pāramitābhāvanā tadvipakṣaprahāṇaṃ ca | dhyānasya bodhisattvasamādhayaḥ | prajñāyāstathatā | sarveṣāṃ śīlādīnāṃ kṣetraṃ mahāyānaṃ | śeṣaṃ pūrvabaddheditavyam | ekasattvasukhaṃ dānaṃ bahukalpavighātakṛta | priyaṃ syadbodhisattvānāṃ prāgeva tadviparyayāt
Sanskrit only: no published translation is held for this verse.
यदि बोधिसत्त्वानां दानमेकस्यैव सत्त्वस्य सुखदं स्यादात्मनश्च बहुकल्पविघातकृत । तथापि तत्तेषां प्रियं स्यात्करुणाविशेषात्किं पुनर्यदनेकसत्त्वसुखं च भवत्यात्मनश्च बहुकल्पानुग्रहकृत् । यदर्थमिच्छन्ति धनानि देहिनस्तदेव धीरा विसृजन्ति देहिषु । शरीरहेतोर्धनमिष्यते जनैस्तदेव धीरः शतशो विसृज्यते
yadi bodhisattvānāṃ dānamekasyaiva sattvasya sukhadaṃ syādātmanaśca bahukalpavighātakṛta | tathāpi tatteṣāṃ priyaṃ syātkaruṇāviśeṣātkiṃ punaryadanekasattvasukhaṃ ca bhavatyātmanaśca bahukalpānugrahakṛt | yadarthamicchanti dhanāni dehinastadeva dhīrā visṛjanti dehiṣu | śarīrahetordhanamiṣyate janaistadeva dhīraḥ śataśo visṛjyate
Sanskrit only: no published translation is held for this verse.
अत्र पूर्वार्धमुत्तरार्धे व्याख्यातम् । शरीरमेवोत्सृजतो न दुःख्यते यदा मनः का द्रविणे ऽवरे कथा । तदस्य लोकोत्तरमिति यन्मुदं स तेन तत्तस्य तदुत्तरं पुनः
atra pūrvārdhamuttarārdhe vyākhyātam | śarīramevotsṛjato na duḥkhyate yadā manaḥ kā draviṇe 'vare kathā | tadasya lokottaramiti yanmudaṃ sa tena tattasya taduttaraṃ punaḥ
Sanskrit only: no published translation is held for this verse.
अत्र शरीरमेवोत्सृजतो यदा मनो न दुःख्यते तदस्य लोकोत्तरमिति संदर्शितं । एति यन्मुदं स तेन दुःखेन तत्तस्य तदुत्तरमिति तस्माल्लोकोत्तरादुत्तरम् । प्रतिग्रहैरिष्टनिकामलब्धैर्न तुष्टिमायाति तथार्थिको ऽपि । सर्वास्तिदानेन यथेह धीमान् तुष्टिं व्रजत्यर्थिजनस्य तुष्ट्या
atra śarīramevotsṛjato yadā mano na duḥkhyate tadasya lokottaramiti saṃdarśitaṃ | eti yanmudaṃ sa tena duḥkhena tattasya taduttaramiti tasmāllokottarāduttaram | pratigrahairiṣṭanikāmalabdhairna tuṣṭimāyāti tathārthiko 'pi | sarvāstidānena yatheha dhīmān tuṣṭiṃ vrajatyarthijanasya tuṣṭyā
Sanskrit only: no published translation is held for this verse.
इष्टनिकामलब्धैरित्यभिप्रेतपर्याप्तलब्धैः । सर्वास्तिदानेनेति यावत्स्वजीवितदानेन । संपूर्णभोगो न तथास्तिमन्तमात्मानमन्वीक्षति याचको ऽपि । सर्वास्तिदानादधनो ऽपि धीमानात्मानमन्वेति यथास्तिमन्तं
iṣṭanikāmalabdhairityabhipretaparyāptalabdhaiḥ | sarvāstidāneneti yāvatsvajīvitadānena | saṃpūrṇabhogo na tathāstimantamātmānamanvīkṣati yācako 'pi | sarvāstidānādadhano 'pi dhīmānātmānamanveti yathāstimantaṃ
Sanskrit only: no published translation is held for this verse.
सुविपुलमपि वित्तं प्राप्य नैवोपकारं विगणयति तथार्थी दायकाल्लाभहेतोः । विधिवदिह सुदानैरर्थिनस्तर्पयित्वा महदुपकरसंज्ञा तेषु धीमान्यथैति
suvipulamapi vittaṃ prāpya naivopakāraṃ vigaṇayati tathārthī dāyakāllābhahetoḥ | vidhivadiha sudānairarthinastarpayitvā mahadupakarasaṃjñā teṣu dhīmānyathaiti
Sanskrit only: no published translation is held for this verse.
करुणाविशेषाद् । गतार्थौ श्लोकौ । स्वयमपगतशोका देहिनः स्वस्थरूपा विपुलमपि गृहीत्वा भुञ्जते यस्य वित्तं । पथि परमफलाढ्याद्भोगवृक्षाद्यथैव प्रविसृतिरतिभोगी बोधिसत्त्वान्न सो ऽन्यः
karuṇāviśeṣād | gatārthau ślokau | svayamapagataśokā dehinaḥ svastharūpā vipulamapi gṛhītvā bhuñjate yasya vittaṃ | pathi paramaphalāḍhyādbhogavṛkṣādyathaiva pravisṛtiratibhogī bodhisattvānna so 'nyaḥ
Sanskrit only: no published translation is held for this verse.
प्रविसृतिरतिभोगश्चास्येति प्रविसृतिरतिभोगी स च नान्यो बोधिसत्त्वाद्वेदितव्यः । शेषं गतार्थम् । प्राधान्यतत्कारणकर्मभेदात् प्रकारभेदाश्रयभेदतश्च । चतुर्विबन्धप्रतिपक्षभेदात् वीर्यं परिज्ञेयमिति प्रदिष्टम्
pravisṛtiratibhogaścāsyeti pravisṛtiratibhogī sa ca nānyo bodhisattvādveditavyaḥ | śeṣaṃ gatārtham | prādhānyatatkāraṇakarmabhedāt prakārabhedāśrayabhedataśca | caturvibandhapratipakṣabhedāt vīryaṃ parijñeyamiti pradiṣṭam
Sanskrit only: no published translation is held for this verse.
षड्विधेन प्रभेदेन वीर्यं परिज्ञेयं । प्राधान्यभेदेन । तत्कारणभेदेन । [कर्मभेदेन] प्रकारभेदेन । आश्रयभेदेन । चतुर्विबन्धप्रतिपक्षभेदेन च । अस्योद्देशस्योत्तरैः । श्लोकैर्निर्देशः । वीर्यं परं शुक्लगणस्य मध्ये तन्निश्रितस्तस्य यतो ऽनुलाभः । वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगता च सिद्धिः
ṣaḍvidhena prabhedena vīryaṃ parijñeyaṃ | prādhānyabhedena | tatkāraṇabhedena | [karmabhedena] prakārabhedena | āśrayabhedena | caturvibandhapratipakṣabhedena ca | asyoddeśasyottaraiḥ | ślokairnirdeśaḥ | vīryaṃ paraṃ śuklagaṇasya madhye tanniśritastasya yato 'nulābhaḥ | vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatā ca siddhiḥ
Sanskrit only: no published translation is held for this verse.
वीर्यं परं शुक्लगणस्य मध्ये इति सर्वकुशलधर्मप्राधान्यं वीर्यस्य निर्दिष्टं । तन्निश्रितस्तस्य यतो ऽनुलाभ इति प्राधान्यकारणं निर्दिष्टं । यस्माद्वीर्याश्रितः सर्वकुशलधर्मलाभः । वीर्येण सद्यः सुसुखो विहारो लोकोत्तरा लोकगता च सिद्धिरिति कर्म निर्दिष्टं वीर्येण हि दृष्टधर्मे परमः सुखविहारः । सर्वा च लोकोत्तरा सिद्धिर्लौकिकी च क्रियते । वीर्यादवाप्तं भवभोगमिष्टं वीर्येण शुद्धिं प्रबलामुपेताः । वीर्येण सत्कायमतीत्य मुक्ता वीर्येण बोधिं परमां विबुद्धाः
vīryaṃ paraṃ śuklagaṇasya madhye iti sarvakuśaladharmaprādhānyaṃ vīryasya nirdiṣṭaṃ | tanniśritastasya yato 'nulābha iti prādhānyakāraṇaṃ nirdiṣṭaṃ | yasmādvīryāśritaḥ sarvakuśaladharmalābhaḥ | vīryeṇa sadyaḥ susukho vihāro lokottarā lokagatā ca siddhiriti karma nirdiṣṭaṃ vīryeṇa hi dṛṣṭadharme paramaḥ sukhavihāraḥ | sarvā ca lokottarā siddhirlaukikī ca kriyate | vīryādavāptaṃ bhavabhogamiṣṭaṃ vīryeṇa śuddhiṃ prabalāmupetāḥ | vīryeṇa satkāyamatītya muktā vīryeṇa bodhiṃ paramāṃ vibuddhāḥ
Sanskrit only: no published translation is held for this verse.
इति । पर्यायद्वारेण [पर्यायान्तरेण] वीर्यस्य कर्म निर्दिष्टं । लौकिकलोकोत्तरसिद्धिभेदात् । तत्र प्रबला लौकिकी सिद्धिरनात्यन्तिकत्वात् । पुनर्मतं हानिविवृद्धिवीर्यं मोक्षाधिपं पक्षविपक्षमन्यत् । तत्त्वे प्रविष्टं परिवर्तकं च वीर्यं महार्थं च निरुक्तमन्यत
iti | paryāyadvāreṇa [paryāyāntareṇa] vīryasya karma nirdiṣṭaṃ | laukikalokottarasiddhibhedāt | tatra prabalā laukikī siddhiranātyantikatvāt | punarmataṃ hānivivṛddhivīryaṃ mokṣādhipaṃ pakṣavipakṣamanyat | tattve praviṣṭaṃ parivartakaṃ ca vīryaṃ mahārthaṃ ca niruktamanyata
Sanskrit only: no published translation is held for this verse.
संनाहवीर्यं प्रथमं ततश्च प्रयोगवीर्यं विधिवत्प्रहितं । अलीनमक्षोभ्यमतुष्टिवीर्यं सर्वप्रकारं प्रवदन्ति बुद्धाः
saṃnāhavīryaṃ prathamaṃ tataśca prayogavīryaṃ vidhivatprahitaṃ | alīnamakṣobhyamatuṣṭivīryaṃ sarvaprakāraṃ pravadanti buddhāḥ
Sanskrit only: no published translation is held for this verse.
इत्येष प्रकारभेदः । तत्र हानिविवृद्धिवीर्यं सम्यक्प्रहाणेषु [द्वयोरकुशलधर्महानयेअपि?] च द्वयोः कुशलधर्माभिवृद्धये । मोक्षाधिपं वीर्यमिन्द्रियेषु । मोक्षाधिपत्त्यार्थेन यस्मादिन्द्रियाणि । पक्षविपक्षं बलेषु विपक्षानवमृद्यार्थेन यस्माद्बलानि । तत्त्वे प्रविष्टं बोध्यङ्गेषु दर्शनमार्गे तद्व्य१स्थापनात् । परिवर्त्तकं मार्गाङ्गेषु भावनामार्गे ऽन्तस्या[तस्या]श्रयपरिवृत्तिहेतुत्वात् । (म्स्अ बग्छि ११२) महार्थं वीर्यं पारमितास्वभावं स्वपरार्थाधिकारात् । संनाहवीर्यं प्रयोगाय संनह्यतः । प्रयोगवीर्यं तथा प्रयोगतः । अलीनवीर्यमुदारे ऽप्यधिगन्तव्ये लयाभावतः । अक्षोभ्यवीर्यं शीतलोष्णादिभिर्दुःखैरविकोपनतः । असंतुष्टिवीर्यमल्पेनाधिगमेनासंतुष्टितः । एभिरेव संनाहवीर्यादिभिः सूत्रे । स्थामवान् वीर्यवानुत्साही दृढपराक्रमो अनिक्षिप्तधुरः कुशलेषु धर्मेष्वित्युच्यते यथाक्रमम् । निकृष्टमध्योत्तमवीर्यमन्यत् यानत्रये युक्तजनाश्रयेण । लीनात्युदाराशयबुद्धियोगात् वीर्यं तदल्पार्थमहार्थमिष्टम्
ityeṣa prakārabhedaḥ | tatra hānivivṛddhivīryaṃ samyakprahāṇeṣu [dvayorakuśaladharmahānayeapi?] ca dvayoḥ kuśaladharmābhivṛddhaye | mokṣādhipaṃ vīryamindriyeṣu | mokṣādhipattyārthena yasmādindriyāṇi | pakṣavipakṣaṃ baleṣu vipakṣānavamṛdyārthena yasmādbalāni | tattve praviṣṭaṃ bodhyaṅgeṣu darśanamārge tadvya1sthāpanāt | parivarttakaṃ mārgāṅgeṣu bhāvanāmārge 'ntasyā[tasyā]śrayaparivṛttihetutvāt | (MSA Bagchi 112) mahārthaṃ vīryaṃ pāramitāsvabhāvaṃ svaparārthādhikārāt | saṃnāhavīryaṃ prayogāya saṃnahyataḥ | prayogavīryaṃ tathā prayogataḥ | alīnavīryamudāre 'pyadhigantavye layābhāvataḥ | akṣobhyavīryaṃ śītaloṣṇādibhirduḥkhairavikopanataḥ | asaṃtuṣṭivīryamalpenādhigamenāsaṃtuṣṭitaḥ | ebhireva saṃnāhavīryādibhiḥ sūtre | sthāmavān vīryavānutsāhī dṛḍhaparākramo anikṣiptadhuraḥ kuśaleṣu dharmeṣvityucyate yathākramam | nikṛṣṭamadhyottamavīryamanyat yānatraye yuktajanāśrayeṇa | līnātyudārāśayabuddhiyogāt vīryaṃ tadalpārthamahārthamiṣṭam
Sanskrit only: no published translation is held for this verse.
अत्राश्रयप्रभेदेन वीर्यभेदो निर्दिष्टः । यानत्रये प्रयुक्तो यो जनस्तदाश्रयेण यथाक्रमं निकृष्टमध्योत्तमं वीर्यं वेदितव्यं । किं कारणं । लीनात्युदाराशयबुद्धियोगात् । लीनो हि बुद्ध्याशयो यानद्वये प्रयुक्तानां केवलात्मार्थाधिकारात् । अत्युदारो महायाने प्रयुक्तानां परार्थाधिकारात् । अत एव यथाक्रमं वीर्यं तदल्पार्थं महार्थमिव[ष्टम्] स्वार्थाधिकाराच्च [स्वपरार्थाधिकरणत्वाच्च ।] न वीर्यवान्भोगपराजितो ऽस्ति नो वीर्यवान् क्लेशपराजितो ऽस्ति । न वीर्यवान् खेदपराजितो ऽस्ति नो वीर्यवान् प्राप्तिपराजितो ऽस्ति
atrāśrayaprabhedena vīryabhedo nirdiṣṭaḥ | yānatraye prayukto yo janastadāśrayeṇa yathākramaṃ nikṛṣṭamadhyottamaṃ vīryaṃ veditavyaṃ | kiṃ kāraṇaṃ | līnātyudārāśayabuddhiyogāt | līno hi buddhyāśayo yānadvaye prayuktānāṃ kevalātmārthādhikārāt | atyudāro mahāyāne prayuktānāṃ parārthādhikārāt | ata eva yathākramaṃ vīryaṃ tadalpārthaṃ mahārthamiva[ṣṭam] svārthādhikārācca [svaparārthādhikaraṇatvācca |] na vīryavānbhogaparājito 'sti no vīryavān kleśaparājito 'sti | na vīryavān khedaparājito 'sti no vīryavān prāptiparājito 'sti
Sanskrit only: no published translation is held for this verse.
इत्ययं चतुर्विबन्धप्रतिपक्षभेदः । चतुर्विधो दानादीनां विबन्धो येन दानादिषु न प्रवर्तते । भोगसक्तिस्तदाग्रहतः । क्लेशसक्तिस्तत्परिभोगाध्यवसानतः । खेदो दानादिषु प्रयोगाभियोगपरिखेदतः । प्राप्तिरल्पमात्रदानादिसंतुष्टितः । तत्प्रतिपक्षभेदे नैतच्चतुर्विधं वीर्यमुक्तम् । अन्योन्यविनिश्चयविभागे श्लोकः । अन्योन्यं संग्रहतः प्रभेदतो धर्मतो निमित्ताच्च । षणां पारमितानां विनिश्चयः सर्वथा ज्ञेयः
ityayaṃ caturvibandhapratipakṣabhedaḥ | caturvidho dānādīnāṃ vibandho yena dānādiṣu na pravartate | bhogasaktistadāgrahataḥ | kleśasaktistatparibhogādhyavasānataḥ | khedo dānādiṣu prayogābhiyogaparikhedataḥ | prāptiralpamātradānādisaṃtuṣṭitaḥ | tatpratipakṣabhede naitaccaturvidhaṃ vīryamuktam | anyonyaviniścayavibhāge ślokaḥ | anyonyaṃ saṃgrahataḥ prabhedato dharmato nimittācca | ṣaṇāṃ pāramitānāṃ viniścayaḥ sarvathā jñeyaḥ
Sanskrit only: no published translation is held for this verse.
अन्योन्यसंग्रहतो विनिश्चयः । अभयप्रदानेन शीलक्षान्तिसंग्रहो यस्मात्ताभ्यामभयं ददाति । धर्मदानेन ध्यानप्रज्ञयोर्यस्मात्ताभ्यां धर्मं ददाति । उभाभ्यां वीर्यस्य यस्मात्तेनोभयं ददाति । कुशलधर्मसंग्राहकेण शीलेन सर्वेषां दानादीनां संग्रहः । एवं क्षान्त्यादिभिरन्योन्यसंग्रहो यथायोगं योज्यः । प्रभेदतो विनिश्चयः । दानं षड्विधं दानदानं शीलदानं यावत्प्रज्ञादानं । परसंतानेषु शीलादिनिवेशनात् । धर्मतो विनिश्चयः । (म्स्अ बग्छि ११३) ये सूत्रादयो येषु दानादिष्वर्थेषु संदृश्यन्ते । ये च दानादयो येषु सूत्रादिषु धर्मेषु संदृश्यन्ते । तेषां परस्परं संग्रहो वेदितव्यः । निमित्ततो विनिश्चयः । दानं शीलादीनां निमित्तं भवति । भोगनिरपेक्षस्य शीलादिषु प्रवृत्तेः । शीलमपि दानादीनां । भिक्षुसंवरसमादानं सर्वस्वपरिग्रहत्यागाच्छीलप्रतिष्ठितस्य च क्षान्त्यादियोगात् । कुशलधर्मसंग्राहकशीलसमादानं च सर्वेषां दानादीनां निमित्तं । एवं क्षान्त्यादीनामन्योन्यनिमित्तभावो यथा योज्यः [योगं] संग्रहवस्तुविभागे सप्त श्लोकाः । चत्वारि संग्रहवस्तूनि । दानं प्रियवादिता अर्थचर्या समानार्थता । तत्र । दानं समं प्रियाख्यानमर्थचर्या समार्थता । तद्देशना समादाय स्वानुवृत्तिभिरिष्यते
anyonyasaṃgrahato viniścayaḥ | abhayapradānena śīlakṣāntisaṃgraho yasmāttābhyāmabhayaṃ dadāti | dharmadānena dhyānaprajñayoryasmāttābhyāṃ dharmaṃ dadāti | ubhābhyāṃ vīryasya yasmāttenobhayaṃ dadāti | kuśaladharmasaṃgrāhakeṇa śīlena sarveṣāṃ dānādīnāṃ saṃgrahaḥ | evaṃ kṣāntyādibhiranyonyasaṃgraho yathāyogaṃ yojyaḥ | prabhedato viniścayaḥ | dānaṃ ṣaḍvidhaṃ dānadānaṃ śīladānaṃ yāvatprajñādānaṃ | parasaṃtāneṣu śīlādiniveśanāt | dharmato viniścayaḥ | (MSA Bagchi 113) ye sūtrādayo yeṣu dānādiṣvartheṣu saṃdṛśyante | ye ca dānādayo yeṣu sūtrādiṣu dharmeṣu saṃdṛśyante | teṣāṃ parasparaṃ saṃgraho veditavyaḥ | nimittato viniścayaḥ | dānaṃ śīlādīnāṃ nimittaṃ bhavati | bhoganirapekṣasya śīlādiṣu pravṛtteḥ | śīlamapi dānādīnāṃ | bhikṣusaṃvarasamādānaṃ sarvasvaparigrahatyāgācchīlapratiṣṭhitasya ca kṣāntyādiyogāt | kuśaladharmasaṃgrāhakaśīlasamādānaṃ ca sarveṣāṃ dānādīnāṃ nimittaṃ | evaṃ kṣāntyādīnāmanyonyanimittabhāvo yathā yojyaḥ [yogaṃ] saṃgrahavastuvibhāge sapta ślokāḥ | catvāri saṃgrahavastūni | dānaṃ priyavāditā arthacaryā samānārthatā | tatra | dānaṃ samaṃ priyākhyānamarthacaryā samārthatā | taddeśanā samādāya svānuvṛttibhiriṣyate
Sanskrit only: no published translation is held for this verse.
दानं सममिष्यते यथा पारमितासु प्रियाख्यानं तद्देशना । अर्थचर्या तत्समादापना तच्छब्देन पारमितानां ग्रहणात्पारमितादेशना पारमितासमादापनेत्यर्थः । समानार्थता यत्र परं समादापयति तत्र स्वयमनुवृत्तिः । किमर्थं पुनरेतानि चत्वारि संग्रहवस्तूनीष्यन्ते । एष हि परेषां । उपायो ऽनुग्रहकरो ग्राहको ऽथ प्रवर्तकः । तथानुवर्तको ज्ञेयश्चतुःसंग्रहवस्तुतः
dānaṃ samamiṣyate yathā pāramitāsu priyākhyānaṃ taddeśanā | arthacaryā tatsamādāpanā tacchabdena pāramitānāṃ grahaṇātpāramitādeśanā pāramitāsamādāpanetyarthaḥ | samānārthatā yatra paraṃ samādāpayati tatra svayamanuvṛttiḥ | kimarthaṃ punaretāni catvāri saṃgrahavastūnīṣyante | eṣa hi pareṣāṃ | upāyo 'nugrahakaro grāhako 'tha pravartakaḥ | tathānuvartako jñeyaścatuḥsaṃgrahavastutaḥ
Sanskrit only: no published translation is held for this verse.
दानमनुग्राहक उपायः । आमिषदानेन कायिकानुग्रहोत्पादनात् प्रियवादिता ग्राहकः । अव्युत्पन्नसंदिग्धार्थग्राहणात् । अर्थचर्या प्रवर्तकः । कुशले प्रवर्तनात् । समानार्थतानुवर्तकः । यथावादितथाकारिणं हि समादापकं विदित्वा यत्र कुशले तेन प्रवर्तिताः परे भवन्ति तदनुवर्तन्ते । आद्येन भाजनीभावो द्वितीयेनाधिमुच्यना । प्रतिपत्तिस्तृतीयेन चतुर्थेन विशोधना
dānamanugrāhaka upāyaḥ | āmiṣadānena kāyikānugrahotpādanāt priyavāditā grāhakaḥ | avyutpannasaṃdigdhārthagrāhaṇāt | arthacaryā pravartakaḥ | kuśale pravartanāt | samānārthatānuvartakaḥ | yathāvāditathākāriṇaṃ hi samādāpakaṃ viditvā yatra kuśale tena pravartitāḥ pare bhavanti tadanuvartante | ādyena bhājanībhāvo dvitīyenādhimucyanā | pratipattistṛtīyena caturthena viśodhanā
Sanskrit only: no published translation is held for this verse.
आमिषदानेन भाजनीभवति धर्मस्य विधेयतापत्तेः । प्रियवादितया तं धर्ममधिमुच्यते तदर्थव्युत्पादनसंशयच्छेदनतः । अर्थचर्यया प्रतिपद्यते यथाधर्मं । समानार्थतया तां प्रतिपत्तिं विशोधयति दीर्घकालानुष्ठानाद् । इदं संग्रहवस्तूनां कर्म । चतुः संग्रहवस्तुत्वं संग्रहद्वयतो मतं । आमिषेणापि धर्मेण धर्मेणालम्बनादपि[दिना]
āmiṣadānena bhājanībhavati dharmasya vidheyatāpatteḥ | priyavāditayā taṃ dharmamadhimucyate tadarthavyutpādanasaṃśayacchedanataḥ | arthacaryayā pratipadyate yathādharmaṃ | samānārthatayā tāṃ pratipattiṃ viśodhayati dīrghakālānuṣṭhānād | idaṃ saṃgrahavastūnāṃ karma | catuḥ saṃgrahavastutvaṃ saṃgrahadvayato mataṃ | āmiṣeṇāpi dharmeṇa dharmeṇālambanādapi[dinā]
Sanskrit only: no published translation is held for this verse.
यदप्यन्यत्संग्रहवस्तुद्वयमुक्तं भगवता आमिषसंग्रहो धर्मसंग्रहश्च । ताभ्यामेतान्येव चत्वारि संग्रहवस्तूनि संगृहीतानि । आमिषसंग्रहेण प्रथमे । धर्मसंग्रहेणावशिष्टानि । तानि पुनस्त्रिविधेन धर्मेण । आलम्बनधर्मेण प्रतिपत्तिधर्मेण तद्विशुद्धिधर्मेण च यथाक्रमम् । हीनमध्योत्तमः प्रायो वन्ध्यो ऽवन्ध्यश्च संग्रहः । अबन्ध्यः सर्वथा चैव ज्ञेयो ह्याकारभेदतः
yadapyanyatsaṃgrahavastudvayamuktaṃ bhagavatā āmiṣasaṃgraho dharmasaṃgrahaśca | tābhyāmetānyeva catvāri saṃgrahavastūni saṃgṛhītāni | āmiṣasaṃgraheṇa prathame | dharmasaṃgraheṇāvaśiṣṭāni | tāni punastrividhena dharmeṇa | ālambanadharmeṇa pratipattidharmeṇa tadviśuddhidharmeṇa ca yathākramam | hīnamadhyottamaḥ prāyo vandhyo 'vandhyaśca saṃgrahaḥ | abandhyaḥ sarvathā caiva jñeyo hyākārabhedataḥ
Sanskrit only: no published translation is held for this verse.
एष संग्रहस्य प्रकारभेदः । तत्र हीनमध्योत्तमः संग्रहो बोधिसत्त्वानां यानत्रयप्रयुक्तेषु वेदितव्यो यथाक्रमं । प्रायेण वन्ध्यो ऽधिमुक्तिचर्याभूमौ । प्रायेणाबन्ध्यो भूमिप्रविष्टानाम् । अवन्ध्यः सर्वथा अष्टाम्यादिषु भूमिषु सत्त्वार्थस्यावश्यं संपादनात् । पर्षत्कर्षणप्रयुक्तैर्विधिरेष समाश्रितः । सर्वार्थसिद्धौ सर्वेषां सुखोपायश्च शस्यते
eṣa saṃgrahasya prakārabhedaḥ | tatra hīnamadhyottamaḥ saṃgraho bodhisattvānāṃ yānatrayaprayukteṣu veditavyo yathākramaṃ | prāyeṇa vandhyo 'dhimukticaryābhūmau | prāyeṇābandhyo bhūmipraviṣṭānām | avandhyaḥ sarvathā aṣṭāmyādiṣu bhūmiṣu sattvārthasyāvaśyaṃ saṃpādanāt | parṣatkarṣaṇaprayuktairvidhireṣa samāśritaḥ | sarvārthasiddhau sarveṣāṃ sukhopāyaśca śasyate
Sanskrit only: no published translation is held for this verse.
ये केचित्पर्षत्कर्षणे प्रयुक्ताः सर्वैस्तैरयमेवोपायः समाश्रितो यदुत चत्वारि संग्रहवस्तूनि । तथा हि सर्वार्थसिद्धये सर्वेषां सुखश्चैष उपायः प्रशस्यते बुद्धैः । संगृहीता ग्रहीष्यन्ते संगृह्यन्ते च ये ऽधुना । सर्वे त एवं तस्माच्च वर्त्म तत्सत्त्वपाचने
ye kecitparṣatkarṣaṇe prayuktāḥ sarvaistairayamevopāyaḥ samāśrito yaduta catvāri saṃgrahavastūni | tathā hi sarvārthasiddhaye sarveṣāṃ sukhaścaiṣa upāyaḥ praśasyate buddhaiḥ | saṃgṛhītā grahīṣyante saṃgṛhyante ca ye 'dhunā | sarve ta evaṃ tasmācca vartma tatsattvapācane
Sanskrit only: no published translation is held for this verse.
एतेन लोकत्रये ऽपि सर्वसत्त्वानां परिपाचने चतुर्णां संग्रहवस्तूनामेकायनमार्गत्वं दर्शयति । अन्यमार्गाभावात् । इति सततमसक्तभोगबुद्धिः शमयमनोद्यमपारगः स्थितात्मा । भवविषयनिमित्तनिर्विकल्पो भवति स सत्त्वगणस्य संगृहीता
etena lokatraye 'pi sarvasattvānāṃ paripācane caturṇāṃ saṃgrahavastūnāmekāyanamārgatvaṃ darśayati | anyamārgābhāvāt | iti satatamasaktabhogabuddhiḥ śamayamanodyamapāragaḥ sthitātmā | bhavaviṣayanimittanirvikalpo bhavati sa sattvagaṇasya saṃgṛhītā
Sanskrit only: no published translation is held for this verse.
A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.