इत्युपनिषन्मतेत्येवमादिना शमथविपश्यनायाः प्रभेदः कर्म च निर्दिष्टं । योग उपायो वेदितव्यः । तत्र प्रतिवेधः प्रथमभूमिप्रवेशः । निर्याणं यावत् षष्ठी भूमिः । ताभिः सनिमित्तप्रयोगनिर्याणात् । अनिमित्तं सप्तमी भूमिः । असंस्कृतमन्यद्भूमित्रयमनभिसंस्कारवाहित्वात् । संस्कारो हि संस्कृतं तदत्र नास्तीत्यसंस्कृतं । तदेव च भूमित्रयं निश्रित्य बुद्धक्षेत्रं च परिशोधयितव्यं । बुद्धत्वं च प्राप्तव्यं । तदेतद्यथाक्रमं परिशुद्धिर्विशुद्धिश्च । उपायकौशल्यविभागे द्वौ श्लोकौ । पूरये बुद्धधर्माणां सत्त्वानां परिपाचने । क्षिप्रप्राप्तौ क्रियाशुद्धौ वर्त्माच्छेदे च कौशलं
ityupaniṣanmatetyevamādinā śamathavipaśyanāyāḥ prabhedaḥ karma ca nirdiṣṭaṃ | yoga upāyo veditavyaḥ | tatra prativedhaḥ prathamabhūmipraveśaḥ | niryāṇaṃ yāvat ṣaṣṭhī bhūmiḥ | tābhiḥ sanimittaprayoganiryāṇāt | animittaṃ saptamī bhūmiḥ | asaṃskṛtamanyadbhūmitrayamanabhisaṃskāravāhitvāt | saṃskāro hi saṃskṛtaṃ tadatra nāstītyasaṃskṛtaṃ | tadeva ca bhūmitrayaṃ niśritya buddhakṣetraṃ ca pariśodhayitavyaṃ | buddhatvaṃ ca prāptavyaṃ | tadetadyathākramaṃ pariśuddhirviśuddhiśca | upāyakauśalyavibhāge dvau ślokau | pūraye buddhadharmāṇāṃ sattvānāṃ paripācane | kṣipraprāptau kriyāśuddhau vartmācchede ca kauśalaṃ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.