अत्र गोत्रस्य चतुर्विधेन निमित्तत्वेनाग्रत्वं दर्शयति । तद्धि गोत्रं कुशलमूलानामुदग्रत्वे निमित्तं, सर्वत्वे, महार्थत्वे, अक्षयत्वे च । न हि श्रावकाणां तथोदग्राणि कुशलमूलानि, न च सर्वाणि सन्ति, बलवैशारद्याद्यभावात् । न च महार्थान्यपरार्थत्वात् । न चाक्षयाण्यनुपधिशेषनिर्वाणावसानत्वात् । लक्षणविभागे श्लोकः । प्रकृत्या परिपुष्टं च आश्रयश्चाश्रितं च तत् । सदसच्चैव विज्ञेयं गुणोत्तारणतार्थतः
atra gotrasya caturvidhena nimittatvenāgratvaṃ darśayati | taddhi gotraṃ kuśalamūlānāmudagratve nimittaṃ, sarvatve, mahārthatve, akṣayatve ca | na hi śrāvakāṇāṃ tathodagrāṇi kuśalamūlāni, na ca sarvāṇi santi, balavaiśāradyādyabhāvāt | na ca mahārthānyaparārthatvāt | na cākṣayāṇyanupadhiśeṣanirvāṇāvasānatvāt | lakṣaṇavibhāge ślokaḥ | prakṛtyā paripuṣṭaṃ ca āśrayaścāśritaṃ ca tat | sadasaccaiva vijñeyaṃ guṇottāraṇatārthataḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.