चतुर्थो ऽधिकारः चित्तोत्पादलक्षणे श्लोकः । महोत्साहा महारम्भा महार्थाथ महोदया । चेतना बोधिसत्त्वानां द्वयार्था चित्तसंभवः
caturtho 'dhikāraḥ cittotpādalakṣaṇe ślokaḥ | mahotsāhā mahārambhā mahārthātha mahodayā | cetanā bodhisattvānāṃ dvayārthā cittasaṃbhavaḥ
Sanskrit only: no published translation is held for this verse.
महोत्साहा संनाहवीर्येण गम्भीरदुष्करदीर्घकालप्रतिपक्षोत्स[त्त्यु]त्सहनात् । महारम्भा यथासंनाहप्रयोगवीर्येण । महार्था आत्मपरहिताधिकारात् । महोदया महाबोधिसमुदागमत्वात् । सो ऽयं त्रिविधो गुणः परिदीपितः, पुरुषकारगुणो द्वाभ्यां पदाभ्यामर्थक्रियागुणः फलपरिग्रहगुणश्च द्वाभ्याम् । द्वयार्था महाबोधिसत्त्वार्थक्रियालम्बनत्वात् । इति त्रिगुणा द्वयालम्बना च चतेना चित्तोत्पाद इत्युच्यते । चित्तोत्पादप्रभेदे श्लोकः । चित्तोत्पादो ऽधिमोक्षो ऽसौ शुद्धाध्याशयिको ऽपरः । वैपाक्यो भूमिषु मतस्तथावरणवर्जितः
mahotsāhā saṃnāhavīryeṇa gambhīraduṣkaradīrghakālapratipakṣotsa[ttyu]tsahanāt | mahārambhā yathāsaṃnāhaprayogavīryeṇa | mahārthā ātmaparahitādhikārāt | mahodayā mahābodhisamudāgamatvāt | so 'yaṃ trividho guṇaḥ paridīpitaḥ, puruṣakāraguṇo dvābhyāṃ padābhyāmarthakriyāguṇaḥ phalaparigrahaguṇaśca dvābhyām | dvayārthā mahābodhisattvārthakriyālambanatvāt | iti triguṇā dvayālambanā ca catenā cittotpāda ityucyate | cittotpādaprabhede ślokaḥ | cittotpādo 'dhimokṣo 'sau śuddhādhyāśayiko 'paraḥ | vaipākyo bhūmiṣu matastathāvaraṇavarjitaḥ
Sanskrit only: no published translation is held for this verse.
चतुर्विधो बोधिसत्त्वानां चित्तोत्पादः । आधिमोक्षिको ऽधिमुक्तिचर्याभूमौ । शुद्धाध्याशयिकः सप्तसु भूमिषु । वैपाकिको ऽष्टम्यादिषु । अनावरणिको बुद्धभूमौ । चित्तोत्पादविनिश्चये चत्त्वारः श्लोकाः । करुणामूल इष्टो ऽसौ सदासत्त्वहिताशयः । धर्माधिमोक्षस्तज्ज्ञानपर्येष्ट्यालम्बनस्तथा
caturvidho bodhisattvānāṃ cittotpādaḥ | ādhimokṣiko 'dhimukticaryābhūmau | śuddhādhyāśayikaḥ saptasu bhūmiṣu | vaipākiko 'ṣṭamyādiṣu | anāvaraṇiko buddhabhūmau | cittotpādaviniścaye cattvāraḥ ślokāḥ | karuṇāmūla iṣṭo 'sau sadāsattvahitāśayaḥ | dharmādhimokṣastajjñānaparyeṣṭyālambanastathā
Sanskrit only: no published translation is held for this verse.
उत्तरच्छन्दयानो ऽसौ प्रतिष्ठाशीलसंवृतिः । उत्थापना विपक्षस्य परिपन्थो ऽधिवासना
uttaracchandayāno 'sau pratiṣṭhāśīlasaṃvṛtiḥ | utthāpanā vipakṣasya paripantho 'dhivāsanā
Sanskrit only: no published translation is held for this verse.
शुभवृद्ध्यनुसंसो ऽसौ पुण्यज्ञानमयः स हि । सदापारमितायोगनिर्याणश्च स कथ्यते
śubhavṛddhyanusaṃso 'sau puṇyajñānamayaḥ sa hi | sadāpāramitāyoganiryāṇaśca sa kathyate
Sanskrit only: no published translation is held for this verse.
भूमिपर्यवसानो ऽसौ प्रतिस्वं तत्प्रयोगतः । विज्ञेयो बोधिसत्त्वानां चित्तोत्पादविनिश्चयः
bhūmiparyavasāno 'sau pratisvaṃ tatprayogataḥ | vijñeyo bodhisattvānāṃ cittotpādaviniścayaḥ
Sanskrit only: no published translation is held for this verse.
तथायं विनिश्चयः । किंमूल एष चतुविर्धो बोधिसत्त्वानां चित्तोत्पादः किमाशयः किमधिमोक्षः किमालम्बनः किंयानः किंप्रतिष्ठः किमादीनवः किमनुशंसः किंनिर्याणः (म्स्अ बग्छि १६) किंपर्यवसान इति । आह । करुणामूलः । सदासत्त्वहिताशयः । महायानधर्माधिमोक्षः । तज्ज्ञानपर्येष्ट्याकारेण तज्ज्ञानालम्बनात् [नः] । उत्तरोत्तरच्छन्दयानः । बोधिसत्त्वशीलसंवरप्रतिष्ठः । परिपन्थ आदीनवः । कः पुनस्तत्परिपन्थो विपक्षस्यान्ययानचित्तस्योत्थापनाधिवासना वा । पुण्यज्ञानमयकुशलधर्मवृद्ध्यनुशंसः । सदापारमिताभ्यासनिर्याणः । भूमिपर्यवसानश्च प्रतिस्वं भूमिप्रयोगात् । यस्यां भूमौ यः प्रयुक्तस्तस्य तद्भूमिपर्यवसानः । समादानसांकेतिकचित्तोत्पादे श्लोकः । मित्रबलाद् हेतुबलान्मूलबलाच्छ्रू तबलाच्छुभाभ्यासात् । अदृढदृढोदय उक्तश्चित्तोत्पादः पराख्यानात्
tathāyaṃ viniścayaḥ | kiṃmūla eṣa catuvirdho bodhisattvānāṃ cittotpādaḥ kimāśayaḥ kimadhimokṣaḥ kimālambanaḥ kiṃyānaḥ kiṃpratiṣṭhaḥ kimādīnavaḥ kimanuśaṃsaḥ kiṃniryāṇaḥ (MSA Bagchi 16) kiṃparyavasāna iti | āha | karuṇāmūlaḥ | sadāsattvahitāśayaḥ | mahāyānadharmādhimokṣaḥ | tajjñānaparyeṣṭyākāreṇa tajjñānālambanāt [naḥ] | uttarottaracchandayānaḥ | bodhisattvaśīlasaṃvarapratiṣṭhaḥ | paripantha ādīnavaḥ | kaḥ punastatparipantho vipakṣasyānyayānacittasyotthāpanādhivāsanā vā | puṇyajñānamayakuśaladharmavṛddhyanuśaṃsaḥ | sadāpāramitābhyāsaniryāṇaḥ | bhūmiparyavasānaśca pratisvaṃ bhūmiprayogāt | yasyāṃ bhūmau yaḥ prayuktastasya tadbhūmiparyavasānaḥ | samādānasāṃketikacittotpāde ślokaḥ | mitrabalād hetubalānmūlabalācchrū tabalācchubhābhyāsāt | adṛḍhadṛḍhodaya uktaścittotpādaḥ parākhyānāt
Sanskrit only: no published translation is held for this verse.
यो हि पराख्यानाच्चित्तोत्पादः परविज्ञापनात्स उच्यते समादानसांकेतिकः । स पुनर्मित्रबलाद्वा भवति कल्याणमित्रानुरोधात् । हेतुबलाद्वा गोत्रसामर्थ्यात् । कुशलमूलद्वातीत[तद्गोत्र]पुष्टितः । श्रुतबलाद्वा तत्र तत्र धर्मपर्याये भाष्यमाणे बहूनां बोधिचित्तोत्पादात् । शुभाभ्यासाद्वा दृष्ट इव धर्मे सततश्रवणोद्ग्रहणधारणादिभिः । स पुनर्मित्रबलाददृढोदयो वेदितव्यः । हेत्वादिबलाद् दृढोदयः । पारमार्थिकचित्तोत्पादे सप्त श्लोकाः । सूपासितसंबुद्धे सुसंभूतज्ञानपुण्यसंभारे । धर्मेषु निर्विकल्पज्ञानप्रसवात्परमतास्य
yo hi parākhyānāccittotpādaḥ paravijñāpanātsa ucyate samādānasāṃketikaḥ | sa punarmitrabalādvā bhavati kalyāṇamitrānurodhāt | hetubalādvā gotrasāmarthyāt | kuśalamūladvātīta[tadgotra]puṣṭitaḥ | śrutabalādvā tatra tatra dharmaparyāye bhāṣyamāṇe bahūnāṃ bodhicittotpādāt | śubhābhyāsādvā dṛṣṭa iva dharme satataśravaṇodgrahaṇadhāraṇādibhiḥ | sa punarmitrabalādadṛḍhodayo veditavyaḥ | hetvādibalād dṛḍhodayaḥ | pāramārthikacittotpāde sapta ślokāḥ | sūpāsitasaṃbuddhe susaṃbhūtajñānapuṇyasaṃbhāre | dharmeṣu nirvikalpajñānaprasavātparamatāsya
Sanskrit only: no published translation is held for this verse.
धर्मेषु च सत्त्वेषु च तत्कृत्येषूत्तमे च बुद्धत्वे । समचित्तोपा[त्तोप]लम्भात्प्रामोद्यविशिष्टता तस्य
dharmeṣu ca sattveṣu ca tatkṛtyeṣūttame ca buddhatve | samacittopā[ttopa]lambhātprāmodyaviśiṣṭatā tasya
Sanskrit only: no published translation is held for this verse.
जन्मौदार्यं तस्मिन्नुत्साहः शुद्धिराशयस्यापि । कौशल्यं परिशिष्टे निर्याणं चैव विज्ञेयम्
janmaudāryaṃ tasminnutsāhaḥ śuddhirāśayasyāpi | kauśalyaṃ pariśiṣṭe niryāṇaṃ caiva vijñeyam
Sanskrit only: no published translation is held for this verse.
धर्माधिमुक्तिबीजात्पारमिताश्रेष्ठमातृतो जातः । ध्यानमये सुखगर्भे करुणा संवर्धिका धात्री
dharmādhimuktibījātpāramitāśreṣṭhamātṛto jātaḥ | dhyānamaye sukhagarbhe karuṇā saṃvardhikā dhātrī
Sanskrit only: no published translation is held for this verse.
औदार्यं विज्ञेयं प्रणिधानमहादशाभिनिर्हारात् । उत्साहो बोद्धव्यो दुष्करदीर्घाधिकाखेदात्
audāryaṃ vijñeyaṃ praṇidhānamahādaśābhinirhārāt | utsāho boddhavyo duṣkaradīrghādhikākhedāt
Sanskrit only: no published translation is held for this verse.
आसन्नबोधिबोधात्तदुपायज्ञानलाभतश्चापि । आशयशुद्धिर्ज्ञेया कौशल्यं त्वन्यभूमिगतम्
āsannabodhibodhāttadupāyajñānalābhataścāpi | āśayaśuddhirjñeyā kauśalyaṃ tvanyabhūmigatam
Sanskrit only: no published translation is held for this verse.
निर्याणं विज्ञेयं यथाव्यवस्थानमनसिकारेण । तत्कल्पनताज्ञानादविकल्पनया च तस्यैव
niryāṇaṃ vijñeyaṃ yathāvyavasthānamanasikāreṇa | tatkalpanatājñānādavikalpanayā ca tasyaiva
Sanskrit only: no published translation is held for this verse.
प्रथमेन श्लोकेनोपदेशप्रतिपत्त्यधिगमविशेषैः पारमार्थिकत्वं चित्तोत्पादस्य दर्शयति । स च पारमार्थिकश्चित्तोत्पादः प्रमुदितायां भूमाविति [प्रमुदिताभूमिः] । प्रामोद्यविशिष्टतायास्तत्र कारणं दर्शयति । तत्र धर्मेषु समचित्तता धर्मनैरात्म्यप्रतिबोधात् । सत्त्वेषु समचित्तता आत्मपरसमतोपगमात् । सत्त्वकृत्येषु समचित्तता आत्मन इव तेषां दुःखक्षयाकाङ्क्षणात् । बुद्धत्वे समचित्तता तद्धर्मधातोरात्मन्यभेदप्रतिबोधात् । तस्मिन्नेव च पारमार्थिकचित्तोत्पादे षडर्था वेदितव्याः । जन्म औदार्यमुत्साह आशयशुद्धिः परिशिष्टकौशल्यं निर्याणं च । तत्र जन्म बीजमातृगर्भधात्रीविशेषाद्वेदितव्यम् । औदार्यं दशमहाप्रणिधानाभिनिर्हारात् । उत्साहो दीर्घकालिकदुष्कराखेदात् । आशयशुद्धिरासन्नबोधिज्ञानात्तदुपायज्ञानलाभाच्च । परिशिष्टकौशल्यमन्यासु भूमिषु कौशल्यम् । निर्याणं यथाव्यवस्थानभूमिमनसिकारेण । कथं मनसिकारेण, तस्य भूमिव्यवस्थानस्य कल्पनाज्ञानात्कल्पनामात्रमेतदिति । तस्यैव च कल्पनाज्ञानस्याविकल्पनात् । औपम्यमाहात्म्ये षट् श्लोकाः । पृथिवीसम उत्पादः कल्याणसुवर्णसंनिभश्चान्यः । शुक्लनवचन्द्रसदृशो बह्निप्रख्यो ऽपरोच्छ्रायः [ज्ञेयः]
prathamena ślokenopadeśapratipattyadhigamaviśeṣaiḥ pāramārthikatvaṃ cittotpādasya darśayati | sa ca pāramārthikaścittotpādaḥ pramuditāyāṃ bhūmāviti [pramuditābhūmiḥ] | prāmodyaviśiṣṭatāyāstatra kāraṇaṃ darśayati | tatra dharmeṣu samacittatā dharmanairātmyapratibodhāt | sattveṣu samacittatā ātmaparasamatopagamāt | sattvakṛtyeṣu samacittatā ātmana iva teṣāṃ duḥkhakṣayākāṅkṣaṇāt | buddhatve samacittatā taddharmadhātorātmanyabhedapratibodhāt | tasminneva ca pāramārthikacittotpāde ṣaḍarthā veditavyāḥ | janma audāryamutsāha āśayaśuddhiḥ pariśiṣṭakauśalyaṃ niryāṇaṃ ca | tatra janma bījamātṛgarbhadhātrīviśeṣādveditavyam | audāryaṃ daśamahāpraṇidhānābhinirhārāt | utsāho dīrghakālikaduṣkarākhedāt | āśayaśuddhirāsannabodhijñānāttadupāyajñānalābhācca | pariśiṣṭakauśalyamanyāsu bhūmiṣu kauśalyam | niryāṇaṃ yathāvyavasthānabhūmimanasikāreṇa | kathaṃ manasikāreṇa, tasya bhūmivyavasthānasya kalpanājñānātkalpanāmātrametaditi | tasyaiva ca kalpanājñānasyāvikalpanāt | aupamyamāhātmye ṣaṭ ślokāḥ | pṛthivīsama utpādaḥ kalyāṇasuvarṇasaṃnibhaścānyaḥ | śuklanavacandrasadṛśo bahniprakhyo 'parocchrāyaḥ [jñeyaḥ]
Sanskrit only: no published translation is held for this verse.
भूयो महानिधानवदन्यो रत्नाकरो यथैवान्यः । सागरसदृशो ज्ञेयो वज्रप्रख्यो ऽचलेन्द्रनिभः
bhūyo mahānidhānavadanyo ratnākaro yathaivānyaḥ | sāgarasadṛśo jñeyo vajraprakhyo 'calendranibhaḥ
Sanskrit only: no published translation is held for this verse.
भैषज्यराजसदृशो महासुहृत्संनिभो ऽपरो ज्ञेयः । चिन्तामणिप्रकाशो दिनकरसदृशो ऽपरो ज्ञेयः
bhaiṣajyarājasadṛśo mahāsuhṛtsaṃnibho 'paro jñeyaḥ | cintāmaṇiprakāśo dinakarasadṛśo 'paro jñeyaḥ
Sanskrit only: no published translation is held for this verse.
गन्धर्वमधुरघोषवदन्यो राजोपमो ऽपरो ज्ञेयः । कोष्ठागारप्रख्यो महापथसमस्तथैवान्यः
gandharvamadhuraghoṣavadanyo rājopamo 'paro jñeyaḥ | koṣṭhāgāraprakhyo mahāpathasamastathaivānyaḥ
Sanskrit only: no published translation is held for this verse.
यानसमो विज्ञेयो गन्धर्वसमश्च वेतसग[चेतसः]प्रभवः । आनन्दशब्दसदृशो महानदीश्रोत[स्त्रोतः]सदृशश्च
yānasamo vijñeyo gandharvasamaśca vetasaga[cetasaḥ]prabhavaḥ | ānandaśabdasadṛśo mahānadīśrota[strotaḥ]sadṛśaśca
Sanskrit only: no published translation is held for this verse.
मेघसदृशश्च कथितश्चित्तोत्पादो जिनात्मजानां हि । तस्मात्तथा गुणाढ्यं चित्तं मुदितैः समुत्पाद्यम्
meghasadṛśaśca kathitaścittotpādo jinātmajānāṃ hi | tasmāttathā guṇāḍhyaṃ cittaṃ muditaiḥ samutpādyam
Sanskrit only: no published translation is held for this verse.
प्रथमचित्तोत्पादो बोधिसत्त्वानां पृथिवीसमः सर्वबुद्धधर्मतत्संभारप्रसवरस्य प्रतिष्ठाभूतत्वात् । आशयसहगतश्चित्तोत्पादः कल्याणसुवर्णसदृशो हितसुखाध्याशयस्य विकाराभजनात् । प्रयोगसहगतः शुक्लपक्षनवचन्द्रोपमः कुशलधर्मवृद्धिगमनात् । अध्याशयसहगतो बह्निसदृश इन्धनाकरविशेषेणेवाग्निस्तस्योत्तरोत्तरविशेषाधिगमनात् । विशेषाधिगमाशयो ह्यध्याशयः । दानपारमितासहगतो महानिधनोपम आमिषसंभोगेनाप्रमेयसत्त्वसंतर्पणादक्षयत्वाच्च । शीलपारमितासहगतो रत्नाकरोपमः सर्वगुणरत्नानां ततः प्रसवात् । क्षान्तिपारमितासहगतः सागरोपमः सर्वानिष्टोपरिपातैरक्षोभ्यत्वात् । वीर्यपारमितासहगतो वज्रोपमो दृढत्वादभेद्यतया । ध्यानपारमितासहगतः पर्वतराजोपमो निष्कम्पत्वादविक्षेपतः । प्रज्ञापारमितासहगतो भैषज्यराजोपमः सर्वक्लेशज्ञेयावरणव्याधिप्रशमनात् । अप्रमाणसहगतो महासुहृत्संनिभः सर्वावस्थं सत्वानुपेक्षकत्वात् । अभिज्ञासहगतश्चिन्तामणिसदृशो यथाधिमोक्षं तत्फलसमृद्धेः । संग्रहवस्तुसहगतो दिनकरसदृशो विनेयसस्यपरिपाचनात् । प्रतिसंवित्सहगतो गन्धर्वमधुरघोषोपमो विनेयावर्जकधर्मदेशकत्वात् । प्रतिशरणसहगतो महाराजोपमो ऽविप्रणाशहेतुत्वात् । पुण्यज्ञानसंभारसहगतः कोष्ठागारोपमो बहुपुण्यज्ञानसंभारकोषस्थानत्वात् । बोधिपक्षसहगतो महाराजपथोपमः सर्वार्यपुद्गलयातानुयतत्वात् । शमथविपश्यनासहगतो यानोपमः सुखवहनात् । धारणा-प्रतिभानसहगतो गन्धर्वोपमः उदकधारणाक्षयोद्भेदसाधर्म्येण श्रुताश्रुतधर्मार्थधारणाक्षयोद्भेदतः । धर्मोद्दानसहगत आनन्दशब्दसदृशो मोक्षकामानां विनेयानां प्रियश्रावणात् । एकायनमार्गसहगतो नदीश्रो[स्रो]तः समः स्वरसवाहित्वात् । अनुत्पत्तिकधर्मक्षान्तिलाभे एकायनत्वं तद्भूमिगतानां बोधिसत्त्वानामभिन्नकार्यक्रियात्वात् । उपायकौशल्यसहगतो मेघोपमः सर्वसत्त्वार्थक्रियातदधीनत्वात्तुषितभवनवासादिसंदर्शनतः । यथा मेघात्सर्वभाजनलोकसंपत्त्यः । एष च द्वाविंशत्युपमश्चित्तोत्पाद आर्याक्षयमतिसूत्रे ऽक्षगतानुसारेणानुगन्तव्यः । चित्तानुत्पादपरिभाषायां श्लोकः । परार्थचित्तात्तदुपायलाभतो महाभिसंध्यर्थसुतत्वदर्शनात् । महार्हचित्तोदयवर्जिता जनाः शमं गमिष्यन्ति विहाय तत्सुखम्
prathamacittotpādo bodhisattvānāṃ pṛthivīsamaḥ sarvabuddhadharmatatsaṃbhāraprasavarasya pratiṣṭhābhūtatvāt | āśayasahagataścittotpādaḥ kalyāṇasuvarṇasadṛśo hitasukhādhyāśayasya vikārābhajanāt | prayogasahagataḥ śuklapakṣanavacandropamaḥ kuśaladharmavṛddhigamanāt | adhyāśayasahagato bahnisadṛśa indhanākaraviśeṣeṇevāgnistasyottarottaraviśeṣādhigamanāt | viśeṣādhigamāśayo hyadhyāśayaḥ | dānapāramitāsahagato mahānidhanopama āmiṣasaṃbhogenāprameyasattvasaṃtarpaṇādakṣayatvācca | śīlapāramitāsahagato ratnākaropamaḥ sarvaguṇaratnānāṃ tataḥ prasavāt | kṣāntipāramitāsahagataḥ sāgaropamaḥ sarvāniṣṭoparipātairakṣobhyatvāt | vīryapāramitāsahagato vajropamo dṛḍhatvādabhedyatayā | dhyānapāramitāsahagataḥ parvatarājopamo niṣkampatvādavikṣepataḥ | prajñāpāramitāsahagato bhaiṣajyarājopamaḥ sarvakleśajñeyāvaraṇavyādhipraśamanāt | apramāṇasahagato mahāsuhṛtsaṃnibhaḥ sarvāvasthaṃ satvānupekṣakatvāt | abhijñāsahagataścintāmaṇisadṛśo yathādhimokṣaṃ tatphalasamṛddheḥ | saṃgrahavastusahagato dinakarasadṛśo vineyasasyaparipācanāt | pratisaṃvitsahagato gandharvamadhuraghoṣopamo vineyāvarjakadharmadeśakatvāt | pratiśaraṇasahagato mahārājopamo 'vipraṇāśahetutvāt | puṇyajñānasaṃbhārasahagataḥ koṣṭhāgāropamo bahupuṇyajñānasaṃbhārakoṣasthānatvāt | bodhipakṣasahagato mahārājapathopamaḥ sarvāryapudgalayātānuyatatvāt | śamathavipaśyanāsahagato yānopamaḥ sukhavahanāt | dhāraṇā-pratibhānasahagato gandharvopamaḥ udakadhāraṇākṣayodbhedasādharmyeṇa śrutāśrutadharmārthadhāraṇākṣayodbhedataḥ | dharmoddānasahagata ānandaśabdasadṛśo mokṣakāmānāṃ vineyānāṃ priyaśrāvaṇāt | ekāyanamārgasahagato nadīśro[sro]taḥ samaḥ svarasavāhitvāt | anutpattikadharmakṣāntilābhe ekāyanatvaṃ tadbhūmigatānāṃ bodhisattvānāmabhinnakāryakriyātvāt | upāyakauśalyasahagato meghopamaḥ sarvasattvārthakriyātadadhīnatvāttuṣitabhavanavāsādisaṃdarśanataḥ | yathā meghātsarvabhājanalokasaṃpattyaḥ | eṣa ca dvāviṃśatyupamaścittotpāda āryākṣayamatisūtre 'kṣagatānusāreṇānugantavyaḥ | cittānutpādaparibhāṣāyāṃ ślokaḥ | parārthacittāttadupāyalābhato mahābhisaṃdhyarthasutatvadarśanāt | mahārhacittodayavarjitā janāḥ śamaṃ gamiṣyanti vihāya tatsukham
Sanskrit only: no published translation is held for this verse.
तेन चित्तोत्पादेन वर्जिताः सत्त्वाश्चतुर्विधं सुखं न लभन्ते यद्बोधिसत्त्वानां परार्थचिन्तनात्सुखम् । (म्स्अ बग्छि १९) यच्च परार्थोपायलाभात् । यच्च महाभिसंध्यर्थसंदर्शनात् गम्भीरमहायानस्वतो[सूत्रा]भिप्रायिकार्थविबोधतः । यच्च परमतत्त्वस्य धर्मनैरात्म्यस्य संदर्शनात्सुखम् । चित्तोत्पादप्रशंसायां दुर्गतिपरिखेदनिर्भयतामुपादाय श्लोकः । सहोदयाच्चित्तवरस्य धीमतः सुसंवृतं चित्तमनन्तदुष्कृतात् । सुखेन दुःखेन च मोदते सदा शुभी कृपालुश्च विवर्धन[यन्] द्वयम्
tena cittotpādena varjitāḥ sattvāścaturvidhaṃ sukhaṃ na labhante yadbodhisattvānāṃ parārthacintanātsukham | (MSA Bagchi 19) yacca parārthopāyalābhāt | yacca mahābhisaṃdhyarthasaṃdarśanāt gambhīramahāyānasvato[sūtrā]bhiprāyikārthavibodhataḥ | yacca paramatattvasya dharmanairātmyasya saṃdarśanātsukham | cittotpādapraśaṃsāyāṃ durgatiparikhedanirbhayatāmupādāya ślokaḥ | sahodayāccittavarasya dhīmataḥ susaṃvṛtaṃ cittamanantaduṣkṛtāt | sukhena duḥkhena ca modate sadā śubhī kṛpāluśca vivardhana[yan] dvayam
Sanskrit only: no published translation is held for this verse.
तस्य चित्तवरस्य सहोदयाब्दोधिसत्त्वस्य सुसंवृतं चित्तं भवत्यनन्तसत्त्वाधिष्ठानाद् दुष्कृतादतो ऽस्य दुर्गतितो भयं न भवति । स च द्वयं वर्धयन् शुभं च कर्म-कृपां च नित्यं च शुभी भवति कृपालुश्च तेन सदा मोदते । सुखेनापि शुभित्वात् । दुःखेनापि परार्थक्रियानिमित्तेन कृपालुत्वात् । अतो ऽस्य बहुकर्त्तव्यतापरिखेदादपि भयं न भवति । अकरणसंवरलाभे श्लोकः । यदानपेक्षः स्वशरीरजीविते परार्थमभ्येति परं परिश्रमम् । परोपघातेन तथाविधः कथं स दुष्कृते कर्मणि संप्रवर्त्स्यति
tasya cittavarasya sahodayābdodhisattvasya susaṃvṛtaṃ cittaṃ bhavatyanantasattvādhiṣṭhānād duṣkṛtādato 'sya durgatito bhayaṃ na bhavati | sa ca dvayaṃ vardhayan śubhaṃ ca karma-kṛpāṃ ca nityaṃ ca śubhī bhavati kṛpāluśca tena sadā modate | sukhenāpi śubhitvāt | duḥkhenāpi parārthakriyānimittena kṛpālutvāt | ato 'sya bahukarttavyatāparikhedādapi bhayaṃ na bhavati | akaraṇasaṃvaralābhe ślokaḥ | yadānapekṣaḥ svaśarīrajīvite parārthamabhyeti paraṃ pariśramam | paropaghātena tathāvidhaḥ kathaṃ sa duṣkṛte karmaṇi saṃpravartsyati
Sanskrit only: no published translation is held for this verse.
अस्य पिण्डार्थो यस्य पर एव प्रियतरो नात्मा परार्थं स्वशरीरजीविते निरपेक्षत्वात् । स कथमात्मार्थं परोपघातेन दुष्कृते कर्मणि प्रवर्त्स्यतीति । चित्ताव्यावृत्तौ श्लोकौ । मायोपमान्वीक्ष्य स सर्वधर्मानुद्यानयात्रामिव चोपपत्तीः । क्लेशाच्च दुःखाच्च बिभेति नासौ संपत्तिकाले ऽथ विपत्तिकाले
asya piṇḍārtho yasya para eva priyataro nātmā parārthaṃ svaśarīrajīvite nirapekṣatvāt | sa kathamātmārthaṃ paropaghātena duṣkṛte karmaṇi pravartsyatīti | cittāvyāvṛttau ślokau | māyopamānvīkṣya sa sarvadharmānudyānayātrāmiva copapattīḥ | kleśācca duḥkhācca bibheti nāsau saṃpattikāle 'tha vipattikāle
Sanskrit only: no published translation is held for this verse.
स्वका गुणाः सत्त्वहिताच्च मोदः संचिन्त्यजन्मर्द्धिविकुर्वितं च । विभूषणं भोजनमग्रभूमिः क्रीडारतिर्नित्यकृपात्मकानाम्
svakā guṇāḥ sattvahitācca modaḥ saṃcintyajanmarddhivikurvitaṃ ca | vibhūṣaṇaṃ bhojanamagrabhūmiḥ krīḍāratirnityakṛpātmakānām
Sanskrit only: no published translation is held for this verse.
मायोपमसर्वधर्मेक्षणात्स बोधिसत्त्वः संपत्तिकाले क्लेशेभ्यो न विभेति । उद्यानयात्रोपमोपपत्तीक्षणात् विपत्तिकाले दुःखान्न बिभेति । तस्य कुतो भयाब्दोधिचित्तं व्यावर्तिष्यते । अपि च स्वगुणा मण्डनं बोधिसत्त्वानाम् । परहितात्प्रीतिर्भोजनम् । संचिन्त्योपपत्तिरुद्यानभूमिः । ऋद्धिविकुर्वितं क्रीडारतिर्बोधिसत्त्वानामेवास्ति । नाबोधिसत्त्वानाम् । तेषां कथं चित्तं व्यावर्तिष्यते । दुःखत्रासप्रतिषेधे श्लोकः । परार्थमुद्योगवतः कृपात्मनो ह्यवीचिरप्येति यतो ऽस्य रम्यताम् । कुतः पुनस्त्रस्यति तादृशो भवन् पराश्रयैर्दुःखसमुद्भवैर्भवे
māyopamasarvadharmekṣaṇātsa bodhisattvaḥ saṃpattikāle kleśebhyo na vibheti | udyānayātropamopapattīkṣaṇāt vipattikāle duḥkhānna bibheti | tasya kuto bhayābdodhicittaṃ vyāvartiṣyate | api ca svaguṇā maṇḍanaṃ bodhisattvānām | parahitātprītirbhojanam | saṃcintyopapattirudyānabhūmiḥ | ṛddhivikurvitaṃ krīḍāratirbodhisattvānāmevāsti | nābodhisattvānām | teṣāṃ kathaṃ cittaṃ vyāvartiṣyate | duḥkhatrāsapratiṣedhe ślokaḥ | parārthamudyogavataḥ kṛpātmano hyavīcirapyeti yato 'sya ramyatām | kutaḥ punastrasyati tādṛśo bhavan parāśrayairduḥkhasamudbhavairbhave
Sanskrit only: no published translation is held for this verse.
अपि च यस्य परार्थमुद्योगवतः करुणात्मकत्वादवीचिरपि रम्यः स कथं परार्थनिमित्तैर्दुःखोत्पादैर्भवे पुनस्त्रासमापत्स्यते । यतो ऽस्य दुःखात्त्रासः स्याच्चित्तस्य व्यावृत्तिर्भवति । सत्त्वोपेक्षाप्रतिषेधे श्लोकः । महाकृपाचार्यसदोषितात्मनः परस्य दुःखैरुपतप्तचेतसः । परस्य कृत्ये समुपस्थिते पुनः परैः समादापनतो ऽतिलज्जना
api ca yasya parārthamudyogavataḥ karuṇātmakatvādavīcirapi ramyaḥ sa kathaṃ parārthanimittairduḥkhotpādairbhave punastrāsamāpatsyate | yato 'sya duḥkhāttrāsaḥ syāccittasya vyāvṛttirbhavati | sattvopekṣāpratiṣedhe ślokaḥ | mahākṛpācāryasadoṣitātmanaḥ parasya duḥkhairupataptacetasaḥ | parasya kṛtye samupasthite punaḥ paraiḥ samādāpanato 'tilajjanā
Sanskrit only: no published translation is held for this verse.
यस्य महाकरुणाचार्येण नित्योषितः आत्मा परदुःखैश्च दुःखितं चेतस्तस्योत्पन्ने परार्थं करणीये यदि परैः कल्याणमित्रैः समादापना कर्तव्या भवति अतिलज्जना । कौशीद्यपरिभाषायां श्लोकः । शिरसि विनिहितोच्चसत्त्वभारः शिथिलगतिर्नहि शोभते ऽग्रसत्त्वः । स्वपरविविधबन्धनातिबद्धः शतगुणमुत्सहमर्हति प्रकर्त्तुम्
yasya mahākaruṇācāryeṇa nityoṣitaḥ ātmā paraduḥkhaiśca duḥkhitaṃ cetastasyotpanne parārthaṃ karaṇīye yadi paraiḥ kalyāṇamitraiḥ samādāpanā kartavyā bhavati atilajjanā | kauśīdyaparibhāṣāyāṃ ślokaḥ | śirasi vinihitoccasattvabhāraḥ śithilagatirnahi śobhate 'grasattvaḥ | svaparavividhabandhanātibaddhaḥ śataguṇamutsahamarhati prakarttum
Sanskrit only: no published translation is held for this verse.