लक्षितं ॥। तस्यार्थः । सत्यं ज्ञानमनन्तं ब्रह्मेति मन्त्रवर्णप्रतिपादितमेव वस्तूत्तरेण ग्रन्थेन गीयते । अतश्चान्नमयादयः परं ब्रह्मेति । स्यादेतद्यदि मन्त्रवणो ऽपि परब्रह्मविषयः स्यात् । तदेव कुतः । मन्त्रवर्णे ब्रह्मेत्येव श्रवणात् । तस्य चामुख्यया वृत्त्यान्यत्रापि सम्भवात् । कथं च मान्त्रवर्णिकाथर्प्रपञ्चनार्थमुत्तरो ग्रन्थ इत्यतः सूत्रार्थं विवरितुमुपोद्घातमाह ब्रह्मविदिति ॥ *३,३९८फ़्।* ब्रह्मविदाप्नोति परमित्यनुवाकस्य प्रथमवाक्ये सूचितं तावत्परब्रह्मैव । परशब्दश्रवणात् । तज्ज्ञानस्य मोक्षहेतुत्वोक्तेश्च । तदेव च मन्त्रवर्णेन सत्यं ज्ञानमनन्तवदन्तवन्न भवतीति लक्षितमसाधारणधर्मोपेततया प्रतिपादितमतो मान्त्रवर्णिकं परं ब्रह्मैव । ब्रह्मविदाप्नोति परमित्युक्ते हि शङ्कात्रयमुदेति । किं लक्षणकं तद्ब्रह्म । न हि लक्षणेन विना वस्तु समस्तव्यावृत्ततया शक्यते ज्ञातुम् । कथं च तद्वेदनं किं प्रतीयमानाकारस्यारोपितत्वमुपेत्य तदेवास्मीत्युतान्यथा । ब्रह्मेति पूर्णं प्रतीतम् । न (हि) च तादृशस्य साक्षात्कारो ऽस्माकं सम्भवतीति । का नाम तत्प्राप्तिर्य ज्ञानसाध्या । सर्वगतत्वेन नित्यप्राप्तत्वादिति । तत्परिहाराय मन्त्रवर्णमुदाहरति श्रुतिः । तदेषाभ्युक्तेति । तदभ्येतदाशङ्कात्रयं प्रति तत्समाधानतयेति यावत् । एषा ऋगुक्तोच्यत इत्यर्थः । तत्र सत्यं ज्ञानमनन्तं ब्रह्मेति लक्षणशङ्काया उत्तरम् । एतच्च प्रत्येकं लक्षणम् । वक्ष्यमाणप्रकारेण सत्यत्वादीनामव्यभिचारित्वात् । अत एव समुदितं लक्षणमभ्युपेत्य विशेषणकृत्यान्वेषणे परेषां क्लेशः परास्तः । यो वेदेति द्वितीयशङ्कोत्तरम् । परिपूर्णपरिमाणमपि शक्तिवशाद्भक्तानुकम्पयाल्पपरिमाणं प्रकटयत्सर्वजीवतदुपकारिकार्यकारणप्रेरकत्वेन हृदयगुहावस्थितं ज्ञेयमिति । सो ऽश्नुत इति तृतीयशङ्कोत्तरम् । न संयोगमात्रं तत्प्राप्तिः । नाप्यैक्यापत्त्यादिः । किन्तु तद्वयक्तिस्थाने ततो ऽत्यन्तभिन्नतया सत्यकामत्वादितत्सारूप्याभिव्यक्तिरेवेति । *३,४०३* अस्त्वेवं प्रथमवाक्यसूचितार्थस्य परब्रह्मत्वात्तदुत्थशङ्कापरिहारार्थस्य मन्त्रवर्णस्यापि तत्परत्वम् । तथापि किं प्रकृत इत्यतः सूत्रार्थं विवृणोति तत्रेति ॥ ॥। तत्र सत्यत्वं सृष्टयान्नप्राणयोरपि । उक्तं ज्ञानं तु मनसा विज्ञानेनाप्युदीरितम्
lakṣitaṃ ... tasyārthaḥ / satyaṃ jñānamanantaṃ brahmeti mantravarṇapratipāditameva vastūttareṇa granthena gīyate / ataścānnamayādayaḥ paraṃ brahmeti / syādetadyadi mantravaṇo 'pi parabrahmaviṣayaḥ syāt / tadeva kutaḥ / mantravarṇe brahmetyeva śravaṇāt / tasya cāmukhyayā vṛttyānyatrāpi sambhavāt / kathaṃ ca māntravarṇikātharprapañcanārthamuttaro grantha ityataḥ sūtrārthaṃ vivaritumupodghātamāha brahmaviditi // *3,398f.* brahmavidāpnoti paramityanuvākasya prathamavākye sūcitaṃ tāvatparabrahmaiva / paraśabdaśravaṇāt / tajjñānasya mokṣahetutvokteśca / tadeva ca mantravarṇena satyaṃ jñānamanantavadantavanna bhavatīti lakṣitamasādhāraṇadharmopetatayā pratipāditamato māntravarṇikaṃ paraṃ brahmaiva / brahmavidāpnoti paramityukte hi śaṅkātrayamudeti / kiṃ lakṣaṇakaṃ tadbrahma / na hi lakṣaṇena vinā vastu samastavyāvṛttatayā śakyate jñātum / kathaṃ ca tadvedanaṃ kiṃ pratīyamānākārasyāropitatvamupetya tadevāsmītyutānyathā / brahmeti pūrṇaṃ pratītam / na (hi) ca tādṛśasya sākṣātkāro 'smākaṃ sambhavatīti / kā nāma tatprāptirya jñānasādhyā / sarvagatatvena nityaprāptatvāditi / tatparihārāya mantravarṇamudāharati śrutiḥ / tadeṣābhyukteti / tadabhyetadāśaṅkātrayaṃ prati tatsamādhānatayeti yāvat / eṣā ṛguktocyata ityarthaḥ / tatra satyaṃ jñānamanantaṃ brahmeti lakṣaṇaśaṅkāyā uttaram / etacca pratyekaṃ lakṣaṇam / vakṣyamāṇaprakāreṇa satyatvādīnāmavyabhicāritvāt / ata eva samuditaṃ lakṣaṇamabhyupetya viśeṣaṇakṛtyānveṣaṇe pareṣāṃ kleśaḥ parāstaḥ / yo vedeti dvitīyaśaṅkottaram / paripūrṇaparimāṇamapi śaktivaśādbhaktānukampayālpaparimāṇaṃ prakaṭayatsarvajīvatadupakārikāryakāraṇaprerakatvena hṛdayaguhāvasthitaṃ jñeyamiti / so 'śnuta iti tṛtīyaśaṅkottaram / na saṃyogamātraṃ tatprāptiḥ / nāpyaikyāpattyādiḥ / kintu tadvayaktisthāne tato 'tyantabhinnatayā satyakāmatvāditatsārūpyābhivyaktireveti / *3,403* astvevaṃ prathamavākyasūcitārthasya parabrahmatvāttadutthaśaṅkāparihārārthasya mantravarṇasyāpi tatparatvam / tathāpi kiṃ prakṛta ityataḥ sūtrārthaṃ vivṛṇoti tatreti // ... tatra satyatvaṃ sṛṣṭayānnaprāṇayorapi / uktaṃ jñānaṃ tu manasā vijñānenāpyudīritam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.