*३,५८०* केचिदत्र कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिकायां श्रुतं"प्राणो ऽस्मि प्रज्ञात्माऽ; इत्यादिवाक्यमुदाहरन्ति । तेषां वक्तुरिति न श्रुत्यनुगतम् । वक्तृत्वं हीन्द्रस्यात्मोपदेशादित्यनेनैव लब्धम् । नच वक्तुरितीन्द्रप्रतिपत्त्यर्थम् । तस्य तदप्रत्यायकत्वात् । अस्माकं तु विशिष्टं शस्त्रं शंसितुर्विश्वामित्रस्य नेन्द्रो ऽन्यथोपदेष्युमर्हतीति युक्तिद्योतनाय सार्थकमिति । *३,५८२* पादार्थमुपसंहरति तस्मादिति ॥ तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः । एको नारायणो देवो भण्यते नात्र संशयः
*3,580* kecidatra kauṣītakibrāhmaṇopaniṣadīndrapratardanākhyāyikāyāṃ śrutaṃ"prāṇo 'smi prajñātmā'; ityādivākyamudāharanti / teṣāṃ vakturiti na śrutyanugatam / vaktṛtvaṃ hīndrasyātmopadeśādityanenaiva labdham / naca vakturitīndrapratipattyartham / tasya tadapratyāyakatvāt / asmākaṃ tu viśiṣṭaṃ śastraṃ śaṃsiturviśvāmitrasya nendro 'nyathopadeṣyumarhatīti yuktidyotanāya sārthakamiti / *3,582* pādārthamupasaṃharati tasmāditi // tasmādanyatragaiḥ śabdairuktanyāyaiḥ samantataḥ / eko nārāyaṇo devo bhaṇyate nātra saṃśayaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.