इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तेषां त्रय उदशिष्यन्त रायोवाजो बृहद्गिरिः पृथुरश्मिस् ते ऽब्रुवन् को नः पुत्रान् भरिष्यतीत्य् अहम् इतीन्द्रो ऽब्रवीत् तांस् त्रिककुब् अधिनिधायाचरत् स एतत् सामापश्यद् यत् त्रिककुब् अपश्यत् तस्मात् त्रैककुभम्
indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.