कौलिक आह-तथापि प्रष्टव्या सा मया । यतः पतिव्रता सा । अपरं ताम् अपृष्ट्वाहं न किञ्चित् करोमि । एवं तम् अभिधाय सत्वरं गत्वा ताम् उवाच-प्रिये ! अद्यास्माकं कश्चिद् व्यन्तरः सिद्धः । स वाञ्छितं प्रयच्छति । तद् अहं त्वां प्रष्टुम् आगतः । तत् कथय किं प्रार्थये ? एष तावन् मम मित्रं नापितो वतद्य् एवं यत्-राज्यं प्रार्थयस्व । साह-आर्यपुत्र ! का मतिर् नापितानाम् ? तन् न कार्यं तद् वचः । उक्तं च- चारणैर् वन्दिभिर् नीचैर् नापितैर् बालकैर् अपि । न मन्त्रं मैत्मान् कुर्यात् सार्धं भिक्षुभिर् एव च
kaulika āha-tathāpi praṣṭavyā sā mayā | yataḥ pativratā sā | aparaṃ tām apṛṣṭvāhaṃ na kiñcit karomi | evaṃ tam abhidhāya satvaraṃ gatvā tām uvāca-priye ! adyāsmākaṃ kaścid vyantaraḥ siddhaḥ | sa vāñchitaṃ prayacchati | tad ahaṃ tvāṃ praṣṭum āgataḥ | tat kathaya kiṃ prārthaye ? eṣa tāvan mama mitraṃ nāpito vatady evaṃ yat-rājyaṃ prārthayasva | sāha-āryaputra ! kā matir nāpitānām ? tan na kāryaṃ tad vacaḥ | uktaṃ ca- cāraṇair vandibhir nīcair nāpitair bālakair api | na mantraṃ maitmān kuryāt sārdhaṃ bhikṣubhir eva ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.