सा विषण्णा च संत्रस्ता कैकेयी वाक्यम् अब्रवीत् । राज्यं गतजनं साधो पीतमण्डां सुराम् इव । निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते ॥ रम्स् २,३२।१० ॥* कैकेय्यां मुक्तलज्जायां वदन्त्याम् अतिदारुणम् । राजा दशरथो वाक्यम् उवाचायतलोचनाम् । वहन्तं किं तुदसि मां नियुज्य धुरि माहिते ॥ रम्स् २,३२।११ ॥* कैकेयी द्विगुणं क्रुद्धा राजानम् इदम् अब्रवीत् । तवैव वंशे सगरो ज्येष्ठं पुत्रम् उपारुधत् । असमञ्ज इति ख्यातं तथायं गन्तुम् अर्हति ॥ रम्स् २,३२।१२ ॥* एवम् उक्तो धिग् इत्य् एव राजा दशरथो ऽब्रवीत् । व्रीडितश् च जनः सर्वः सा च तन् नावबुध्यत
sā viṣaṇṇā ca saṃtrastā kaikeyī vākyam abravīt / rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva / nirāsvādyatamaṃ śūnyaṃ bharato nābhipatsyate // RamS 2,32.10 //* kaikeyyāṃ muktalajjāyāṃ vadantyām atidāruṇam / rājā daśaratho vākyam uvācāyatalocanām / vahantaṃ kiṃ tudasi māṃ niyujya dhuri māhite // RamS 2,32.11 //* kaikeyī dviguṇaṃ kruddhā rājānam idam abravīt / tavaiva vaṃśe sagaro jyeṣṭhaṃ putram upārudhat / asamañja iti khyātaṃ tathāyaṃ gantum arhati // RamS 2,32.12 //* evam ukto dhig ity eva rājā daśaratho 'bravīt / vrīḍitaś ca janaḥ sarvaḥ sā ca tan nāvabudhyata
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.