* [ * यस्मिन् लोहखल्वे चत्वारः पादा मञ्चिकयाभिभवन्ति स चतुष्पाद उच्यते ॥ १ * तस्मिन् लोहखल्वे ग्रस्ताभ्रकसूतं तथा चतुःषष्टितमेन सूतकस्य कान्तलोहचूर्णं क्षिप्त्वा यथा विडेन सह लोष्टिकया मन्दं मन्दं मन्दं मर्दयेत् ॥ २ * अधश्च कोमलाग्निर् ज्वालयेत् ॥ ३ * एवं कुर्वता यदि कान्तलोहचूर्णचतुःषष्टितमो जीर्णो भवति तदा पुनरपि चतुःषष्टितमभागेन कान्तलोहचूर्णं क्षिप्त्वा थूथाविडेन पेषणीयम् ॥ ४ * अधश्चाग्निर् ज्वालनीयः ॥ ५ * एवं पूर्वक्षिप्ते लोहचूर्णे जीर्णे पुनः पुनस् तावच् चतुःषष्टितमांशेन लोहचूर्णं क्षेप्यम् ॥ ६ * यावत् सूताद् अष्टगुणलोहचूर्णे जीर्यति ॥ ७ * इत्यर्थं लोहचूर्णस्य कषायेण रसः पाशितः सन् गोधूमवर्णो भवति ॥ ८ * तथा रागांश्च सहते ॥ ९ * अथ प्रकाशादिकराजिरागाश् च जीर्यति ॥ १० * अत्र च यदि कान्तलोहं न लभ्यते तदा तीक्ष्णायसं सारलोहच् ॥ ११ * तथाय त्वघेरं थूथकं तत् काञ्जिकेन संघृष्य चन्दनं क्षिप्यते ॥ १२ * एतत् थूथाविडम् इत्युच्यते ॥ १३ * अग्रेऽपि सर्वत्र थूथाविडे शब्देनेदमेव ज्ञेयम् ॥ १४ * इति ग्रस्ताभ्रकसूतस्य लोहजारणं द्वितीयम् ॥ १५] लोहखल्वे चतुष्पादे जीर्णलोहं रसं क्षिपेत् । अयः प्रकाशे राजेश्च चतुःषष्ट्यंशचूर्णकम्
* [ * yasmin lohakhalve catvāraḥ pādā mañcikayābhibhavanti sa catuṣpāda ucyate || 1 * tasmin lohakhalve grastābhrakasūtaṃ tathā catuḥṣaṣṭitamena sūtakasya kāntalohacūrṇaṃ kṣiptvā yathā viḍena saha loṣṭikayā mandaṃ mandaṃ mandaṃ mardayet || 2 * adhaśca komalāgnir jvālayet || 3 * evaṃ kurvatā yadi kāntalohacūrṇacatuḥṣaṣṭitamo jīrṇo bhavati tadā punarapi catuḥṣaṣṭitamabhāgena kāntalohacūrṇaṃ kṣiptvā thūthāviḍena peṣaṇīyam || 4 * adhaścāgnir jvālanīyaḥ || 5 * evaṃ pūrvakṣipte lohacūrṇe jīrṇe punaḥ punas tāvac catuḥṣaṣṭitamāṃśena lohacūrṇaṃ kṣepyam || 6 * yāvat sūtād aṣṭaguṇalohacūrṇe jīryati || 7 * ityarthaṃ lohacūrṇasya kaṣāyeṇa rasaḥ pāśitaḥ san godhūmavarṇo bhavati || 8 * tathā rāgāṃśca sahate || 9 * atha prakāśādikarājirāgāś ca jīryati || 10 * atra ca yadi kāntalohaṃ na labhyate tadā tīkṣṇāyasaṃ sāralohac || 11 * tathāya tvagheraṃ thūthakaṃ tat kāñjikena saṃghṛṣya candanaṃ kṣipyate || 12 * etat thūthāviḍam ityucyate || 13 * agre'pi sarvatra thūthāviḍe śabdenedameva jñeyam || 14 * iti grastābhrakasūtasya lohajāraṇaṃ dvitīyam || 15] lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet / ayaḥ prakāśe rājeśca catuḥṣaṣṭyaṃśacūrṇakam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.