* [ * अत्र चायमाम्नायः ॥ १ * खल्वे रसोपरि यथोक्तौषधरसः क्षिप्यते ॥ २ * यथा यथा सूतो ब्रुडति तथा तथा मर्दनीयः ॥ ३ * शनैः शनैर् यदि चाग्रेतनौषधरसः शुष्यति तदा पुनः क्षेपणीयः ॥ ४ * एवं सप्तदिनानि यदि मर्दितः पारदो भवति तदा काञ्जिकेन खरलो भ्रियते पुनः शनैर्मृद्यते ततो वस्त्रवर्तयः क्षिप्त्वा तथा मुच्यन्ते तथा वर्तिप्रान्ताः भूमौ लगन्ति ॥ ५ * तैश्च काञ्जिकं गलित्वा याति ॥ ६ * एवं सूतः सर्वैर् अप्यौषधैः सप्तदिनानि पिष्ट्वा पश्चात् काञ्जिकेन क्षाल्यः ॥ ७ * औषधानि चैकादशामूनि ॥ ८ * वज्रक्षीरम् ॥ ९ * अर्कक्षीरम् ॥ १० * पलाशपर्पटः ॥ ११ * चित्रकक्वाथः ॥ १२ * वज्रकन्दः ॥ १३ * कटुतुम्बा ॥ १४ * बीअङ्कः ॥ १५ * त्रिफलाक्वाथः ॥ १६ * पुनश्चित्रकक्वाथः ॥ १७ * अश्वगन्धा ॥ १८ * नाहि ॥ १९ * अङ्कुध्य ॥ २० * अत्र चित्रकक्वाथो द्विवेलं विद्यते ऽतो द्वादशभिर् औषधैर् एकादशैव इति सूतशोधनसंस्कारस् तृतीयः ॥ २१] क्वाथेन त्रिकटोः क्षुण्णं प्राकृतं शोधितं रसम् । रसेनासन्नदूधिल्यास् तथार्द्राया रसेन च
* [ * atra cāyamāmnāyaḥ || 1 * khalve rasopari yathoktauṣadharasaḥ kṣipyate || 2 * yathā yathā sūto bruḍati tathā tathā mardanīyaḥ || 3 * śanaiḥ śanair yadi cāgretanauṣadharasaḥ śuṣyati tadā punaḥ kṣepaṇīyaḥ || 4 * evaṃ saptadināni yadi marditaḥ pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā tathā mucyante tathā vartiprāntāḥ bhūmau laganti || 5 * taiśca kāñjikaṃ galitvā yāti || 6 * evaṃ sūtaḥ sarvair apyauṣadhaiḥ saptadināni piṣṭvā paścāt kāñjikena kṣālyaḥ || 7 * auṣadhāni caikādaśāmūni || 8 * vajrakṣīram || 9 * arkakṣīram || 10 * palāśaparpaṭaḥ || 11 * citrakakvāthaḥ || 12 * vajrakandaḥ || 13 * kaṭutumbā || 14 * bīaṅkaḥ || 15 * triphalākvāthaḥ || 16 * punaścitrakakvāthaḥ || 17 * aśvagandhā || 18 * nāhi || 19 * aṅkudhya || 20 * atra citrakakvātho dvivelaṃ vidyate 'to dvādaśabhir auṣadhair ekādaśaiva iti sūtaśodhanasaṃskāras tṛtīyaḥ || 21] kvāthena trikaṭoḥ kṣuṇṇaṃ prākṛtaṃ śodhitaṃ rasam / rasenāsannadūdhilyās tathārdrāyā rasena ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.