* [ * पूर्वरीत्या शोधितः पारदः खल्वे प्रथमं त्रिकटुक्वाथेन पूर्ववत् सप्तदिनानि सम्पिष्य शोषयेत् ॥ १ * ततः काञ्जिकेन क्षालनीयः ॥ २ * एवं भूमिदूधेल्या रसेन तत आर्द्ररसेन ॥ ३ * तदनु कर्माईरसेन ॥ ४ * पश्चाद् देवदालीरसेन ॥ ५ * सप्त सप्त दिनानि मृदित्वा शोषयित्वा काञ्जिकेन धावनीयः ॥ ६ * एवं च कृते ऽसौ मूर्छितोत्थितः पारद इत्युच्यते तेजस्वी च भवति ॥ ७ * इति मूर्छितोत्थापनसंस्कारश् चतुर्थः ॥ ८] कज्जलाभो यदा सूतो विहायघनचापलन् । संमूर्छितस् तदा ज्ञेयो नानावर्णो ऽपि तत् क्वचित्
* [ * pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet || 1 * tataḥ kāñjikena kṣālanīyaḥ || 2 * evaṃ bhūmidūdhelyā rasena tata ārdrarasena || 3 * tadanu karmāīrasena || 4 * paścād devadālīrasena || 5 * sapta sapta dināni mṛditvā śoṣayitvā kāñjikena dhāvanīyaḥ || 6 * evaṃ ca kṛte 'sau mūrchitotthitaḥ pārada ityucyate tejasvī ca bhavati || 7 * iti mūrchitotthāpanasaṃskāraś caturthaḥ || 8] kajjalābho yadā sūto vihāyaghanacāpalan / saṃmūrchitas tadā jñeyo nānāvarṇo 'pi tat kvacit
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.