* [ * काचकुम्पिकायां चिक्कणां मृदं दत्त्वा मध्ये नियामकं रसं क्षिप्त्वा मुखे कोडीयकम् ॥ १ * को ऽर्थः लोष्ठचातिकां दत्त्वा ॥ २ * उपरिकर्पटं मृत्तिकां च दत्त्वा शोषयेत् ॥ ३ * ततो भूमौ गजप्रमाणां गर्तां कृत्वा तत्र क्षिप्त्वोपरि अष्टाङ्गुलिधूलिं दत्त्वाहोरात्रं कारीषाग्निर्ज्वालनीयः ॥ ४ * ततः पुनः प्रभाते रक्षां कृत्वा नवं छगणचूर्णं क्षिप्त्वाहोरात्रं च कारीषाग्निर्ज्वालनीयः ॥ ५ * एवं सप्तभिर् दिनैः सप्तवारं संस्कृतोऽसौ निरोधको नाम रसो महाबुभुक्षया पीडितो जिह्वां लेलिह्यमानः कुम्पितो ग्राह्यः ॥ ६ * इति नियामकस्य निरोधकसंस्कारो नवमः ॥ ७] स्नुही च गिरिकर्णी च क्षीरिणी वज्रकञ्चुकी । सर्पाक्षी मेघनादा च मत्स्याक्षी मृगभोजनी
* [ * kācakumpikāyāṃ cikkaṇāṃ mṛdaṃ dattvā madhye niyāmakaṃ rasaṃ kṣiptvā mukhe koḍīyakam || 1 * ko 'rthaḥ loṣṭhacātikāṃ dattvā || 2 * uparikarpaṭaṃ mṛttikāṃ ca dattvā śoṣayet || 3 * tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra kṣiptvopari aṣṭāṅgulidhūliṃ dattvāhorātraṃ kārīṣāgnirjvālanīyaḥ || 4 * tataḥ punaḥ prabhāte rakṣāṃ kṛtvā navaṃ chagaṇacūrṇaṃ kṣiptvāhorātraṃ ca kārīṣāgnirjvālanīyaḥ || 5 * evaṃ saptabhir dinaiḥ saptavāraṃ saṃskṛto'sau nirodhako nāma raso mahābubhukṣayā pīḍito jihvāṃ lelihyamānaḥ kumpito grāhyaḥ || 6 * iti niyāmakasya nirodhakasaṃskāro navamaḥ || 7] snuhī ca girikarṇī ca kṣīriṇī vajrakañcukī / sarpākṣī meghanādā ca matsyākṣī mṛgabhojanī
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.