परमतमाशङ्क्याह - न; ज्ञानापेक्षत्वाल्लिङ्गस्येति चेत् । न; ज्ञानापेक्षत्वादित्यादि । न हि लिङ्गं सत्तामात्रात् गमकं भवति । किं तर्हि? ज्ञानात् । तस्मान्नायं दोषः
paramatamāśaṅkyāha - na; jñānāpekṣatvālliṅgasyeti cet / na; jñānāpekṣatvādityādi / na hi liṅgaṃ sattāmātrāt gamakaṃ bhavati / kiṃ tarhi? jñānāt / tasmānnāyaṃ doṣaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.