तत्र सिद्धान्तवाद्याह - नोच्यते परचित्तसमित्थितविज्ञप्तिरूपत्वात् तत्र प्रतिभासिज्ञानेन समुत्थापकचित्तं गम्यत इति । किं तर्हि? तस्य कार्यत्वात् । नोच्यत इत्यादि । परचित्तेन समुत्थिता परचित्तसमित्थिता । परचित्तसमित्थिता च विज्ञप्तिश्चेति परचित्तसमुत्थितविज्ञप्तिः । सा यस्य प्रतिभासिनो ज्ञानस्य रूपं स्वभावो ऽस्ति तत्तथा । तस्य भावः तत्त्वम् । तस्मात् परचित्तसमुत्थितविज्ञप्तिरूपत्वात् । तत्र विज्ञप्तेः प्रतिभासो ऽस्यास्तीति प्रतिभासि । एवमुक्तं भवति - यस्मात् तत्र प्रतिभासि ज्ञानं परचित्तसमुत्थितविज्ञप्तिरूपम्, तस्मात् समुत्थापकचित्तं गम्यत इति वयमपि नाभ्युपगच्छामः । यदि नाभ्युपगम्यते, किं तर्हि अभ्युपगम्यत इति चेत्? आह - किं तर्हि? तस्य कार्यत्वाद् इति । यस्माद् विज्ञप्तिप्रतिभासिज्ञानं परचित्तस्य कार्यम्, तस्मात् परचित्तं गम्यते । अत्र परचित्तं वक्तुश्चित्तमभिप्रेतम्
tatra siddhāntavādyāha - nocyate paracittasamitthitavijñaptirūpatvāt tatra pratibhāsijñānena samutthāpakacittaṃ gamyata iti / kiṃ tarhi? tasya kāryatvāt / nocyata ityādi / paracittena samutthitā paracittasamitthitā / paracittasamitthitā ca vijñaptiśceti paracittasamutthitavijñaptiḥ / sā yasya pratibhāsino jñānasya rūpaṃ svabhāvo 'sti tattathā / tasya bhāvaḥ tattvam / tasmāt paracittasamutthitavijñaptirūpatvāt / tatra vijñapteḥ pratibhāso 'syāstīti pratibhāsi / evamuktaṃ bhavati - yasmāt tatra pratibhāsi jñānaṃ paracittasamutthitavijñaptirūpam, tasmāt samutthāpakacittaṃ gamyata iti vayamapi nābhyupagacchāmaḥ / yadi nābhyupagamyate, kiṃ tarhi abhyupagamyata iti cet? āha - kiṃ tarhi? tasya kāryatvād iti / yasmād vijñaptipratibhāsijñānaṃ paracittasya kāryam, tasmāt paracittaṃ gamyate / atra paracittaṃ vaktuścittamabhipretam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.