तत्रेदं तथागतकुलज्ञानसिद्धितन्त्रं । महामुद्रां समाधाय चन्द्रमण्डलसप्रभां । स्वयं कायं यथा वेत्ति तथा वेद्यं जगन्मनः ॥ तत्रेदं वज्रकुलज्ञानसिद्धितन्त्रं । आकाशे वान्यदेशे क्रुद्धः सन्मण्डलानि तु । यादृशानि तु पश्येद्वै विज्ञेयन्तादृशन्मनः ॥ तत्रेदं पद्मकुलज्ञानसिद्धितन्त्रं । सूक्ष्ममक्षरपङिक्तर्वा पश्यन्नाकाशभूमिषु । यादृग्वर्ण समासेन वेत्ति चित्तं स तादृशं ॥ तत्रेदं मणिकुलज्ञानसिद्धितन्त्रं । सर्वलोकं निरीक्षन् वै प्रतिभासो हि यादृशः । पश्यते तादृशं चैव जगच्चित्तं तु लक्षयेद् ॥ इति ॥ एतमेव समापत्त्यो गमनागमनानि तु । कुर्वन्त्यश्च भ्रमन्त्यो वा यथा पश्येत्तथागमः
tatredaṃ tathāgatakulajñānasiddhitantraṃ / mahāmudrāṃ samādhāya candramaṇḍalasaprabhāṃ / svayaṃ kāyaṃ yathā vetti tathā vedyaṃ jaganmanaḥ // tatredaṃ vajrakulajñānasiddhitantraṃ / ākāśe vānyadeśe kruddhaḥ sanmaṇḍalāni tu / yādṛśāni tu paśyedvai vijñeyantādṛśanmanaḥ // tatredaṃ padmakulajñānasiddhitantraṃ / sūkṣmamakṣarapaṅiktarvā paśyannākāśabhūmiṣu / yādṛgvarṇa samāsena vetti cittaṃ sa tādṛśaṃ // tatredaṃ maṇikulajñānasiddhitantraṃ / sarvalokaṃ nirīkṣan vai pratibhāso hi yādṛśaḥ / paśyate tādṛśaṃ caiva jagaccittaṃ tu lakṣayed // iti // etameva samāpattyo gamanāgamanāni tu / kurvantyaśca bhramantyo vā yathā paśyettathāgamaḥ
Sanskrit only: no published translation is held for this verse.