तथान्ये ऽपि जनाः सन्तः शिल्पिवणिक्प्रजादयः । सर्वे ऽत्र समुपायातास् तद् द्रष्टुं समुपाश्रयन् ॥ स्व्प् *९६* ॥ तान् द्रष्टुं समुपासीनान् सर्वांल् लोकान् समीक्ष्य सः । ब्राह्मण उत्थितः पश्यन् साञ्जलिर् एवम् अब्रवीत्
tathānye 'pi janāḥ santaḥ śilpivaṇikprajādayaḥ / sarve 'tra samupāyātās tad draṣṭuṃ samupāśrayan // Svp *96* // tān draṣṭuṃ samupāsīnān sarvāṃl lokān samīkṣya saḥ / brāhmaṇa utthitaḥ paśyan sāñjalir evam abravīt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.