तदानीं शरत्समये । अत्र इन्दुः प्राकरणिकः शरत्समयस्य उपवर्ण्यमानत्वात् । कान्ताननेन्दुस्त्वप्राकरणिकः । अन्ते च सर्वसुखहेतुत्वमुपनिबद्धं सत् पूर्वत्र उपजीव्यते । तेनात्रान्तदीपकता । एवमेतद्दीपकं लक्षितमुदाहृतं च ॥ ननु उपमाया ऽउपमा दीपकं चऽइति पूर्वमद्दिष्टत्वात् यथोद्देशलक्षणमिति न्यायात्त्स्या एव पूर्वं लक्षणं कर्तव्यम्, पश्चात्तु दीपकस्य । तत्कथमादौ दीपकं लक्षितमिति वक्तव्यम् । उच्यते । अनेन ग्रंथकृता स्वोपरचितकुमारसंभवैकदेशो ऽत्र उदाहरणत्वेनोपन्यस्तः । तक्ष पूर्वं दीपकस्योदाहरणानि । तदनुसन्धानाविच्छेदायात्र उद्देशक्रमः । परित्यक्तः । उद्देशस्तु तथा न कृतो वृत्तभङ्गभयात् । एवमुत्तरत्रापि लक्षणेषु उद्देशक्रमाननुसारणसमाधिर्वाच्यः ॥ उपमा---- यच्चेतोहारिसाधर्म्यमुपमानोपमेययोः । मिथो विभिन्नकालादिशब्दयोरुपमा तु तत्
tadānīṃ śaratsamaye / atra induḥ prākaraṇikaḥ śaratsamayasya upavarṇyamānatvāt / kāntānanendustvaprākaraṇikaḥ / ante ca sarvasukhahetutvamupanibaddhaṃ sat pūrvatra upajīvyate / tenātrāntadīpakatā / evametaddīpakaṃ lakṣitamudāhṛtaṃ ca // nanu upamāyā 'upamā dīpakaṃ ca'iti pūrvamaddiṣṭatvāt yathoddeśalakṣaṇamiti nyāyāttsyā eva pūrvaṃ lakṣaṇaṃ kartavyam, paścāttu dīpakasya / tatkathamādau dīpakaṃ lakṣitamiti vaktavyam / ucyate / anena graṃthakṛtā svoparacitakumārasaṃbhavaikadeśo 'tra udāharaṇatvenopanyastaḥ / takṣa pūrvaṃ dīpakasyodāharaṇāni / tadanusandhānāvicchedāyātra uddeśakramaḥ / parityaktaḥ / uddeśastu tathā na kṛto vṛttabhaṅgabhayāt / evamuttaratrāpi lakṣaṇeṣu uddeśakramānanusāraṇasamādhirvācyaḥ // upamā---- yaccetohārisādharmyamupamānopameyayoḥ / mitho vibhinnakālādiśabdayorupamā tu tat
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.