प्राक् क्रीतादित्येव । उवर्णान्ताद्गवादिभ्यश्च यत् स्यात् । छस्यापवादः । शङ्कवे हितं शङ्कव्यं दारु । गव्यम् । (नाभि नभं च) । नभ्यो ऽक्षः । नभ्यमञ्जनम् ॥ तस्मै हितम्
prāk krītādityeva / uvarṇāntādgavādibhyaśca yat syāt / chasyāpavādaḥ / śaṅkave hitaṃ śaṅkavyaṃ dāru / gavyam / (nābhi nabhaṃ ca) / nabhyo 'kṣaḥ / nabhyamañjanam // tasmai hitam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.