ब्रह्मणस्त्व इत्यतः प्राक् त्वतलावधिक्रियेते । अपवादैः सह समावेशार्थमिदम् । चकारो नञ्स्नञ्भ्यामपि समावेशार्थः । स्त्रिया भावः स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पौस्नम् । पुंस्त्वम् । पुंस्ता ॥ पृथ्वादिभ्य इमनिज्वा
brahmaṇastva ityataḥ prāk tvatalāvadhikriyete / apavādaiḥ saha samāveśārthamidam / cakāro nañsnañbhyāmapi samāveśārthaḥ / striyā bhāvaḥ straiṇam / strītvam / strītā / pausnam / puṃstvam / puṃstā // pṛthvādibhya imanijvā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.