प्रत्ययस्थात्कात्पूर्वस्याकारस्येकारः स्यादापि स आप्सुपः परो न चेत् । गोपालिका । अश्वपालिका । सर्विका । कारिका । अतः किम् ? नौका । प्रत्ययस्थात्किम् ? शक्नोतीति शका । असुपः किम् ? बहुपरिव्राजका नगरी । (सूर्याद्देवतायां चाब्वाच्यः) । सूर्यस्य स्त्री देवता सूर्या । देवतायां किम् ? (सूर्यागस्त्ययोश्छे च ङ्यां च) । यलोपः । सूरी कुन्ती; मानुषीयम् ॥ इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलचार्याणामानुक् व्ल्क् १२६६ = प् ४,१।४९ ॥ एषामानुगागमः स्यात् ङीष् च । इन्द्रस्य स्त्री इन्द्राणी । वरुणानी । भवानी । शर्वाणी । रुद्राणी । मृडानी । (हिमारण्ययोर्महत्त्वे) । महद्धिमं हिमानी । महदरण्यमरण्यानी । (यवाद्दोषे) । दुष्टो यवो यवानी । (यवनाल्लिप्याम्) । यवनानां लिपिर्यवनानी । (मातुलोपाध्याययोरानुग्वा) । मातुलानी, मातुली । उपाध्यायानी, उपाध्यायी । (आचार्यादणत्वं च) । आचार्यस्य स्त्री आचार्यानी । (अर्यक्षत्रियाभ्यां वा स्वार्थे), अर्याणी, अर्या । क्षत्रियाणी, क्षत्रिया ॥ क्रीतात्करणपूर्वात्
pratyayasthātkātpūrvasyākārasyekāraḥ syādāpi sa āpsupaḥ paro na cet / gopālikā / aśvapālikā / sarvikā / kārikā / ataḥ kim ? naukā / pratyayasthātkim ? śaknotīti śakā / asupaḥ kim ? bahuparivrājakā nagarī / (sūryāddevatāyāṃ cābvācyaḥ) / sūryasya strī devatā sūryā / devatāyāṃ kim ? (sūryāgastyayośche ca ṅyāṃ ca) / yalopaḥ / sūrī kuntī; mānuṣīyam // indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulacāryāṇāmānuk VLk 1266 = P 4,1.49 // eṣāmānugāgamaḥ syāt ṅīṣ ca / indrasya strī indrāṇī / varuṇānī / bhavānī / śarvāṇī / rudrāṇī / mṛḍānī / (himāraṇyayormahattve) / mahaddhimaṃ himānī / mahadaraṇyamaraṇyānī / (yavāddoṣe) / duṣṭo yavo yavānī / (yavanāllipyām) / yavanānāṃ lipiryavanānī / (mātulopādhyāyayorānugvā) / mātulānī, mātulī / upādhyāyānī, upādhyāyī / (ācāryādaṇatvaṃ ca) / ācāryasya strī ācāryānī / (aryakṣatriyābhyāṃ vā svārthe), aryāṇī, aryā / kṣatriyāṇī, kṣatriyā // krītātkaraṇapūrvāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.