अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः । एत्वषत्वे । सर्वेषाम् । सर्वस्मिन् । शेषं रामवत् । एवं विश्वादयो ऽप्यदन्ताः ॥ उभशब्दो नित्यं द्विवचनान्तः । उभौ २ । उभाभ्याम् ३ । उभयोः २ । तस्येह पाठो ऽकजर्थः । उभयशब्दस्य द्विवचनं नास्ति । उभयः । उभये । उभयम् । उभयान् । उभयेन । उभयैः । उभयस्मै । उभयेभ्यः । उभयस्मात् । उभयेभ्यः । उभयस्य । उभयेषाम् । उभयस्मिन् । उभयेषु ॥ डतरडतमौ प्रत्ययौ, प्रत्ययग्रहणे तदन्तग्रहणमिति तदन्ता ग्राह्याः ॥ नेम इत्यर्धे ॥ समः सर्वपर्याय स्तुल्यपर्यायस्तु न, यथासंख्यमनुदेशः समानामिति ज्ञापकात् ॥ पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्
avarṇāntātparasya sarvanāmno vihitasyāmaḥ suḍāgamaḥ / etvaṣatve / sarveṣām / sarvasmin / śeṣaṃ rāmavat / evaṃ viśvādayo 'pyadantāḥ // ubhaśabdo nityaṃ dvivacanāntaḥ / ubhau 2 / ubhābhyām 3 / ubhayoḥ 2 / tasyeha pāṭho 'kajarthaḥ / ubhayaśabdasya dvivacanaṃ nāsti / ubhayaḥ / ubhaye / ubhayam / ubhayān / ubhayena / ubhayaiḥ / ubhayasmai / ubhayebhyaḥ / ubhayasmāt / ubhayebhyaḥ / ubhayasya / ubhayeṣām / ubhayasmin / ubhayeṣu // ḍataraḍatamau pratyayau, pratyayagrahaṇe tadantagrahaṇamiti tadantā grāhyāḥ // nema ityardhe // samaḥ sarvaparyāya stulyaparyāyastu na, yathāsaṃkhyamanudeśaḥ samānāmiti jñāpakāt // pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.