लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् । कति २ । कतिभिः । कतिभ्यः २ । कतीनाम् । कतिषु । युष्मदस्मत्षट्संज्ञकास्त्रिषु सरूपाः ॥ त्रिशब्दो नित्यं बहुवचनान्तः । त्रयः । त्रीन् । त्रिभिः । त्रिभ्यः २ ॥ त्रेस्त्रयः
lumatā śabdena lupte tannimittamaṅgakāryaṃ na syāt / kati 2 / katibhiḥ / katibhyaḥ 2 / katīnām / katiṣu / yuṣmadasmatṣaṭsaṃjñakāstriṣu sarūpāḥ // triśabdo nityaṃ bahuvacanāntaḥ / trayaḥ / trīn / tribhiḥ / tribhyaḥ 2 // trestrayaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.