रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य । रस्य विसर्गः । क्रोष्टुः २ । क्रोष्ट्रोः २ । (नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन) । क्रोष्टूनाम् । क्रोष्टरि । पक्षे हलादौ च शम्भुवत् ॥ हूहूः । हूह्वौ । हूह्वः । हूहूम् इत्यादि ॥ अतिचमूशब्दे तु नदीकार्य्यं विशेषः । हे अतिचमु । अतिचम्वै । अतिचम्वाः । अतिचमूनाम् ॥ खलपूः ॥ ओः सुपि
rephātsaṃyogāntasya sasyaiva lopo nānyasya / rasya visargaḥ / kroṣṭuḥ 2 / kroṣṭroḥ 2 / (numaciratṛjvadbhāvebhyo nuṭ pūrvavipratiṣedhena) / kroṣṭūnām / kroṣṭari / pakṣe halādau ca śambhuvat // hūhūḥ / hūhvau / hūhvaḥ / hūhūm ityādi // aticamūśabde tu nadīkāryyaṃ viśeṣaḥ / he aticamu / aticamvai / aticamvāḥ / aticamūnām // khalapūḥ // oḥ supi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.