अस्य यण् स्यादचि सुपि । वर्षाभ्वावित्यादि ॥ दृन्भूः । (दृन्करपुनः पूर्वस्य भुवो यण् वक्तव्यः) । दृन्भ्वौ । एवं करभूः ॥ धाता । हे धातः । धातारौ । धातारः । (ऋवर्णान्नस्य णत्वं वाच्यम्) । धातॄणाम् । एवं नप्त्रादयः ॥ नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम् । तेनेह न । पिता । पितरौ । पितरः । पितरम् । शेषं धातृवत् । एवं जामात्रादयः ॥ ना । नरौ ॥ नृ च
asya yaṇ syādaci supi / varṣābhvāvityādi // dṛnbhūḥ / (dṛnkarapunaḥ pūrvasya bhuvo yaṇ vaktavyaḥ) / dṛnbhvau / evaṃ karabhūḥ // dhātā / he dhātaḥ / dhātārau / dhātāraḥ / (ṛvarṇānnasya ṇatvaṃ vācyam) / dhātṝṇām / evaṃ naptrādayaḥ // naptrādigrahaṇaṃ vyutpattipakṣe niyamārtham / teneha na / pitā / pitarau / pitaraḥ / pitaram / śeṣaṃ dhātṛvat / evaṃ jāmātrādayaḥ // nā / narau // nṛ ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.