कृताकारादष्टनो जश्शसोरौश् । अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति । अष्टौ । अष्टौ । अष्टाभिः । अष्टाभ्यः । अष्टाभ्यः । अष्टानाम् । अष्टासु । आत्वाभावे अष्ट, पञ्चवत् ॥ ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च
kṛtākārādaṣṭano jaśśasorauś / aṣṭabhya iti vaktavye kṛtātvanirdeśo jaśśasorviṣaye ātvaṃ jñāpayati / aṣṭau / aṣṭau / aṣṭābhiḥ / aṣṭābhyaḥ / aṣṭābhyaḥ / aṣṭānām / aṣṭāsu / ātvābhāve aṣṭa, pañcavat // ṛtvigdadhṛksragdiguṣṇigañcuyujikruñcāṃ ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.