अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । उपैति । उपैधते । प्रष्ठौहः । एजाद्योः किम् ? उपेतः । मा भवान्प्रेदिधत् । (अक्षादूहन्यामुपिसंख्यानम्) । अक्षौहणी सेना । (प्रादूहोढोढ्येषैष्येषु) । प्रौहः । प्रौढः । प्रौढिः । प्रैषः । प्रैष्यः । (ऋते च तृतीयासमासे) । सुखेन ऋतः सुखार्तः । तृतीयेति किम् ? परमर्तः । (प्रवत्सतरकम्बलवसनार्णदशानामृणे) । प्रार्णम्, वत्सतर्राणम्, इत्यादि ॥ उपसर्गाः क्रियायोगे
avarṇādejādyoretyedhatyorūṭhi ca pare vṛddhirekādeśaḥ syāt / upaiti / upaidhate / praṣṭhauhaḥ / ejādyoḥ kim ? upetaḥ / mā bhavānpredidhat / (akṣādūhanyāmupisaṃkhyānam) / akṣauhaṇī senā / (prādūhoḍhoḍhyeṣaiṣyeṣu) / prauhaḥ / prauḍhaḥ / prauḍhiḥ / praiṣaḥ / praiṣyaḥ / (ṛte ca tṛtīyāsamāse) / sukhena ṛtaḥ sukhārtaḥ / tṛtīyeti kim ? paramartaḥ / (pravatsatarakambalavasanārṇadaśānāmṛṇe) / prārṇam, vatsatarrāṇam, ityādi // upasargāḥ kriyāyoge
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.