स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः । स्वर् । अन्तर् । प्रातर् । पुनर् । सनुतर् । उच्चैस् । नीचैस् । शनैस् । ऋधक् । ऋते । युगपत् । आरात् । पृथक् । ह्यस् । श्वस् । दिवा । रात्रौ । सायम् । चिरम् । मनाक् । ईषत् । जोषम् । तूष्णीम् । बहिस् । अवस् । समया । निकषा । स्वयम् । वृथा । नक्तम् । नञ् । हेतौ । इद्धा । अद्धा । सामि । वत् । ब्राह्मणवत् । क्षत्रियवत् ॥ सना । सनत् । सनात् । उपधा । तिरस् । अन्तरा । अन्तरेण । ज्योक् । कम् । षम् । सहसा । विना । नाना । स्वस्ति । स्वधा । अलम् । वषट् । श्रौषट् । वौषट् । अन्यत् । अस्ति । उपांशु । क्षमा । विहायसा । दोषा । मृषा । मिथ्या । मुधा । पुरा । मिथो । मिथस् । प्रायस् । मुहुस् । प्रवाहुकम्, प्रवाहिका । आर्यहलम् । अभीक्ष्णम् । साकम् । सार्धम् । नमस् । हिरुक् । धिक् । अथ । अम् । आम् । प्रताम् । प्रशान् । प्रतान् । मा । माङ् । आकृतिगणो ऽयम् ॥ च । वा । ह । अह । एव । एवम् । नूनम् । शश्वत् । युगपत् । भूयस् । कूपत् । कुवित् । नेत् । चेत् । चण् । कच्चित् । यत्र । नह । हन्त । माकिः । माकिम् । नकिः । नकिम् । माङ् । नञ् । यावत् । तावत् । त्वे । द्वै । त्वै । रै । श्रौषट् । वौषट् । स्वाहा । स्वधा । वषट् । तुम् । तथाहि । खलु । किल । अथो । अथ । सुष्ठु । स्म । आदह । (उपसर्गविभक्तिस्वरप्रतिरूपकाश्च)। अवदत्तम् । अहंयुः । अस्तिक्षीरा । अ । आ । इ । ई । उ । ऊ । ए । ऐ । ओ । औ । पशु । शुकम् । यथाकथाच । पाट् । प्याट् । अङ्ग । है । हे । भोः । अये । द्य । विषु । एकपदे । युत् । आतः । चादिरप्याकृतिगणः ॥ तसिलादयः प्राक् पाशपः । शस्प्रभृतयः प्राक् समासान्तेभ्यः । अम् । आम् । कृत्वोर्थाः । तसिवती । नानाञौ । एतदन्तमप्यव्ययम् ॥ कृन्मेजन्तः
svarādayo nipātāścāvyayasaṃjñāḥ syuḥ / svar / antar / prātar / punar / sanutar / uccais / nīcais / śanais / ṛdhak / ṛte / yugapat / ārāt / pṛthak / hyas / śvas / divā / rātrau / sāyam / ciram / manāk / īṣat / joṣam / tūṣṇīm / bahis / avas / samayā / nikaṣā / svayam / vṛthā / naktam / nañ / hetau / iddhā / addhā / sāmi / vat / brāhmaṇavat / kṣatriyavat // sanā / sanat / sanāt / upadhā / tiras / antarā / antareṇa / jyok / kam / ṣam / sahasā / vinā / nānā / svasti / svadhā / alam / vaṣaṭ / śrauṣaṭ / vauṣaṭ / anyat / asti / upāṃśu / kṣamā / vihāyasā / doṣā / mṛṣā / mithyā / mudhā / purā / mitho / mithas / prāyas / muhus / pravāhukam, pravāhikā / āryahalam / abhīkṣṇam / sākam / sārdham / namas / hiruk / dhik / atha / am / ām / pratām / praśān / pratān / mā / māṅ / ākṛtigaṇo 'yam // ca / vā / ha / aha / eva / evam / nūnam / śaśvat / yugapat / bhūyas / kūpat / kuvit / net / cet / caṇ / kaccit / yatra / naha / hanta / mākiḥ / mākim / nakiḥ / nakim / māṅ / nañ / yāvat / tāvat / tve / dvai / tvai / rai / śrauṣaṭ / vauṣaṭ / svāhā / svadhā / vaṣaṭ / tum / tathāhi / khalu / kila / atho / atha / suṣṭhu / sma / ādaha / (upasargavibhaktisvarapratirūpakāśca)/ avadattam / ahaṃyuḥ / astikṣīrā / a / ā / i / ī / u / ū / e / ai / o / au / paśu / śukam / yathākathāca / pāṭ / pyāṭ / aṅga / hai / he / bhoḥ / aye / dya / viṣu / ekapade / yut / ātaḥ / cādirapyākṛtigaṇaḥ // tasilādayaḥ prāk pāśapaḥ / śasprabhṛtayaḥ prāk samāsāntebhyaḥ / am / ām / kṛtvorthāḥ / tasivatī / nānāñau / etadantamapyavyayam // kṛnmejantaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.