इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि । अक्षैषीत् । अक्षेष्यत् ॥ तप सन्तापे ॥ १४ ॥ तपति । तताप । तेपतुः । तेपुः । तेपिथ, ततप्थ । तेपिव । तेपिम । तप्ता । तप्स्यति । तपतु । अतपत् । तपेत् । तप्यात् । अताप्सीत् । अताप्ताम् । अतप्स्यत् ॥ क्रमु पादविक्षेपे ॥ १५ ॥ वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः
igantāṅgasya vṛddhiḥ syāt parasmaipade sici / akṣaiṣīt / akṣeṣyat // tapa santāpe // 14 // tapati / tatāpa / tepatuḥ / tepuḥ / tepitha, tataptha / tepiva / tepima / taptā / tapsyati / tapatu / atapat / tapet / tapyāt / atāpsīt / atāptām / atapsyat // kramu pādavikṣepe // 15 // vā bhrāśabhlāśabhramukramuklamutrasitruṭilaṣaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.