आम् अन्त आलु आय्य इत्नु इष्णु एषु णेरयादेशः स्यात् । कामायाञ्चक्रे । आयादय इति णिङ् वा । चकमे । चकमाते । चकमिरे । चकमिषे । चकमाथे । चकमिध्वे । चकमे । चकमिवहे । चकमिमहे । कामयिता । कामयितासे । कमिता । कामयिष्यते, कमिष्यते । कामयताम् । अकामयत । कामयेत । कामयिषीष्ट ॥ विभाषेटः
ām anta ālu āyya itnu iṣṇu eṣu ṇerayādeśaḥ syāt / kāmāyāñcakre / āyādaya iti ṇiṅ vā / cakame / cakamāte / cakamire / cakamiṣe / cakamāthe / cakamidhve / cakame / cakamivahe / cakamimahe / kāmayitā / kāmayitāse / kamitā / kāmayiṣyate, kamiṣyate / kāmayatām / akāmayata / kāmayeta / kāmayiṣīṣṭa // vibhāṣeṭaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.