एषामत एत्त्वमभ्यासलोपश्च स्यात् किति लिटि सेटि थलि च । त्रेपे । त्रपिता, त्रप्ता । त्रपिष्यते, त्रप्स्यते । त्रपताम् । अत्रपत । त्रपेत । त्रपिषीष्ट, त्रप्सीष्ट । अत्रपिष्ट, अत्रप्त । अत्रपिष्यत, अत्रप्स्यत ॥ इत्यात्मनेपदिनः॥ श्रिञ् सेवायाम् ॥ १ ॥ श्रयति, श्रयते । शिश्राय, शिश्रिये । श्रयितासि, श्रयितासे । श्रयिष्यति, श्रयिष्यते । श्रयतु, श्रयताम् । अश्रयत्, अश्रयत । श्रयेत्, श्रयेत । श्रीयात्, श्रयिषीष्ट । चङ् । अशिश्रियत्, अशिश्रियत । अश्रयिष्यत्, अश्रयिष्यत ॥ भृञ् भरणे ॥ २ ॥ भरति, भरते । बभार । बभ्रतुः । बभ्रुः । बभर्थ । बभृव । बभृम । बभ्रे । बभृषे । भर्तासि, भर्तासे । भरिष्यति, भरिष्यते । भरतु, भरताम् । अभरत्, अभरत । भरेत्, भरेत ॥ रिङ् शयग्लिङ्क्षु
eṣāmata ettvamabhyāsalopaśca syāt kiti liṭi seṭi thali ca / trepe / trapitā, traptā / trapiṣyate, trapsyate / trapatām / atrapata / trapeta / trapiṣīṣṭa, trapsīṣṭa / atrapiṣṭa, atrapta / atrapiṣyata, atrapsyata // ityātmanepadinaḥ// śriñ sevāyām // 1 // śrayati, śrayate / śiśrāya, śiśriye / śrayitāsi, śrayitāse / śrayiṣyati, śrayiṣyate / śrayatu, śrayatām / aśrayat, aśrayata / śrayet, śrayeta / śrīyāt, śrayiṣīṣṭa / caṅ / aśiśriyat, aśiśriyata / aśrayiṣyat, aśrayiṣyata // bhṛñ bharaṇe // 2 // bharati, bharate / babhāra / babhratuḥ / babhruḥ / babhartha / babhṛva / babhṛma / babhre / babhṛṣe / bhartāsi, bhartāse / bhariṣyati, bhariṣyate / bharatu, bharatām / abharat, abharata / bharet, bhareta // riṅ śayagliṅkṣu
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.