लुग्विषये उतो वृद्धिः पिति हलादौ सार्वधातुके नत्वभ्यस्तस्य । यौति । युतः । युवन्ति । यौषि । युथः । युथ । यौमि । युवः । युमः । युयाव । यविता । यविष्यति । यौतु, युतात् । अयौत् । अयुताम् । अयुवन् । युयात् । इह उतो वृद्धिर्न, भाष्ये ऽपिच्च ङिन्न ङिच्च पिन्नऽ; इति व्याख्यानात् । युयाताम् । युयुः । यूयात् । यूयास्ताम् । यूयासुः । अयावीत् । अयविष्यत् ॥ या प्रापणे ॥ ४ ॥ याति । यातः । यान्ति । ययौ । याता । यास्यति । यातु । अयात् । अयाताम् ॥ लङः शाकटायनस्यैव
lugviṣaye uto vṛddhiḥ piti halādau sārvadhātuke natvabhyastasya / yauti / yutaḥ / yuvanti / yauṣi / yuthaḥ / yutha / yaumi / yuvaḥ / yumaḥ / yuyāva / yavitā / yaviṣyati / yautu, yutāt / ayaut / ayutām / ayuvan / yuyāt / iha uto vṛddhirna, bhāṣye 'picca ṅinna ṅicca pinna'; iti vyākhyānāt / yuyātām / yuyuḥ / yūyāt / yūyāstām / yūyāsuḥ / ayāvīt / ayaviṣyat // yā prāpaṇe // 4 // yāti / yātaḥ / yānti / yayau / yātā / yāsyati / yātu / ayāt / ayātām // laṅaḥ śākaṭāyanasyaiva
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.