घोरस्तेश्च एत्त्वं स्याद्धौ परे अभ्यासलोपश्च । एत्त्वस्यासिद्धत्वाद्धेर्धिः । श्नसोरित्यल्लोपः । तातङ्पक्षे एत्त्वं न, परेण तातङा बाधात् । एधि, स्तात् । स्तम् । स्त । असानि । असाव । असाम । आसीत् । आस्ताम् । आसन् । स्यात् । स्याताम् । स्युः । भूयात् । अभूत् । अभविष्यत् ॥ इण् गतौ ॥ १८ ॥ एति । इतः ॥ इणो यण्
ghorasteśca ettvaṃ syāddhau pare abhyāsalopaśca / ettvasyāsiddhatvāddherdhiḥ / śnasorityallopaḥ / tātaṅpakṣe ettvaṃ na, pareṇa tātaṅā bādhāt / edhi, stāt / stam / sta / asāni / asāva / asāma / āsīt / āstām / āsan / syāt / syātām / syuḥ / bhūyāt / abhūt / abhaviṣyat // iṇ gatau // 18 // eti / itaḥ // iṇo yaṇ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.