इकारो वा स्याद्धलादौ क्ङिति सार्वधातुके । बिभितः, बिभीतः । बिभ्यति । बिभयाञ्चकार, बिभाय । भेता । भेष्यति । बिभेतु, बिभितात्, बिभीतात् । अबिभेत् । बिभीयात् । भीयात् । अभैषीत् । अभेष्यत् ॥ ह्री लज्जायाम् ॥ ३ ॥ जिह्रेति । जिह्रीतः । जिह्रियति । जिह्रयाञ्चकार, जिह्राय । ह्रेता । ह्रेष्यति । जिह्रेतु । अजिह्रेत् । जिह्रियात् । ह्रीयात् । अह्रैषीत् । अह्रेष्यत् ॥ पॄ पालन पूरणयोः ॥ ४ ॥ अर्तिपिपर्त्योश्च
ikāro vā syāddhalādau kṅiti sārvadhātuke / bibhitaḥ, bibhītaḥ / bibhyati / bibhayāñcakāra, bibhāya / bhetā / bheṣyati / bibhetu, bibhitāt, bibhītāt / abibhet / bibhīyāt / bhīyāt / abhaiṣīt / abheṣyat // hrī lajjāyām // 3 // jihreti / jihrītaḥ / jihriyati / jihrayāñcakāra, jihrāya / hretā / hreṣyati / jihretu / ajihret / jihriyāt / hrīyāt / ahraiṣīt / ahreṣyat // pṝ pālana pūraṇayoḥ // 4 // artipipartyośca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.