भृञ् माङ् ओहाङ् एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ । मिमीते । मिमाते । मिमते । ममे । माता । मास्यते । मिमीताम् । अमिमीत । मिमीत । मासीष्ट । अमास्त । अमास्यत ॥ ओहाङ् गतौ ॥ ७ ॥ जिहीते । जिहाते । जिहते । जहे । हाता । हास्यते । जिहीताम् । अजिहीत । जिहीत । हासीष्ट । अहास्त । अहास्यत ॥ डु भृञ् धारणपोषणयोः ॥ ८ ॥ बिभर्ति । बिभृतः । बिभ्रति । बिभृते । बिभ्राते । बिभ्रते । विभराञ्चकार, बभार । बभर्थ । बभृव । बिभराञ्चक्रे, बभ्रे । भर्तासि, भर्तासे । भरिष्यति, भरिष्यते । बिभर्तु । बिभराणि । बिभृताम् । अबिभः । अबिभृताम् । अबिभरुः । अबिभृत । बिभृयात्, बिभ्रीत । भ्रियात्, भृषीष्ट । अभार्षीत्, अभृत । अभरिष्यत्, अभरिष्यत ॥ डु दाञ् दाने ॥ ९ ॥ ददाति । दत्तः । ददति । दत्ते । ददाते । ददते । ददौ, ददे । दातासि, दातासे । दास्यति, दास्यते । ददातु ॥ दाधा घ्वदाप्
bhṛñ māṅ ohāṅ eṣāṃ trayāṇāmabhyāsasya itsyāt ślau / mimīte / mimāte / mimate / mame / mātā / māsyate / mimītām / amimīta / mimīta / māsīṣṭa / amāsta / amāsyata // ohāṅ gatau // 7 // jihīte / jihāte / jihate / jahe / hātā / hāsyate / jihītām / ajihīta / jihīta / hāsīṣṭa / ahāsta / ahāsyata // ḍu bhṛñ dhāraṇapoṣaṇayoḥ // 8 // bibharti / bibhṛtaḥ / bibhrati / bibhṛte / bibhrāte / bibhrate / vibharāñcakāra, babhāra / babhartha / babhṛva / bibharāñcakre, babhre / bhartāsi, bhartāse / bhariṣyati, bhariṣyate / bibhartu / bibharāṇi / bibhṛtām / abibhaḥ / abibhṛtām / abibharuḥ / abibhṛta / bibhṛyāt, bibhrīta / bhriyāt, bhṛṣīṣṭa / abhārṣīt, abhṛta / abhariṣyat, abhariṣyata // ḍu dāñ dāne // 9 // dadāti / dattaḥ / dadati / datte / dadāte / dadate / dadau, dade / dātāsi, dātāse / dāsyati, dāsyate / dadātu // dādhā ghvadāp
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.