शपो ऽपवादः । क्रीणाति । ई हल्यघोः । क्रीणीतः । श्नाभ्यस्तयोरातः । क्रीणन्ति । क्रीणासि । क्रीणीथः । क्रीणीथ । क्रीणामि । क्रीणीवः । क्रीणीमः । क्रीणीते । क्रीणाते । क्रीणते । क्रीणीषे । क्रीणाथे । क्रीणीध्वे । क्रीणे । क्रीणीवहे । क्रीणीमहे । चिक्राय । चिक्रियतुः । चिक्रियुः । चिक्रयिथ, चिक्रेथ । चिक्रिय । चिक्रिये । क्रेता । क्रेष्यति, क्रेष्यते । क्रीणातु, क्रीणीतात् । क्रीणीताम् । अक्रीणात्, अक्रीणीत । क्रीणीयात्, क्रीणीत । क्रीयात्, क्रेषीष्ट । अक्रैषीत्, अक्रेष्यत ॥ प्रीञ् तर्पणे कान्तौ च ॥ २ ॥ प्रीणाति, प्रीणीते ॥ श्रीञ् पाके ॥ ३ ॥ श्रीणाति, श्रीणीते ॥ मीञ् हिंसायाम् ॥ ४ ॥ हिनुमीना
śapo 'pavādaḥ / krīṇāti / ī halyaghoḥ / krīṇītaḥ / śnābhyastayorātaḥ / krīṇanti / krīṇāsi / krīṇīthaḥ / krīṇītha / krīṇāmi / krīṇīvaḥ / krīṇīmaḥ / krīṇīte / krīṇāte / krīṇate / krīṇīṣe / krīṇāthe / krīṇīdhve / krīṇe / krīṇīvahe / krīṇīmahe / cikrāya / cikriyatuḥ / cikriyuḥ / cikrayitha, cikretha / cikriya / cikriye / kretā / kreṣyati, kreṣyate / krīṇātu, krīṇītāt / krīṇītām / akrīṇāt, akrīṇīta / krīṇīyāt, krīṇīta / krīyāt, kreṣīṣṭa / akraiṣīt, akreṣyata // prīñ tarpaṇe kāntau ca // 2 // prīṇāti, prīṇīte // śrīñ pāke // 3 // śrīṇāti, śrīṇīte // mīñ hiṃsāyām // 4 // hinumīnā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.