यङ्लुगन्तात्परस्य हलादेः पितः सार्वधातुकस्येड् वा स्यात् । भूसुवोरिति गुणनिषेधो यङ्लुकि भाषायां न, बोभोतु, तेतिक्ते इति छन्दसि निपातनात् । बोभवीति, बोभोति । बोभूतः । अदभ्यस्तात् । बोभुवति । बोभवाञ्चकार, बोभवामास । बोभविता । बोभविष्यति । बोभवीतु, बोभोतु, बोभूतात् । बोभूताम् । बोभुवतु । बोभूहि । बोभवानि । अबोभवीत्, अबोभोत् । अबोभूताम् । अबोभवुः । बोभूयात् । बोभूयाताम् । बोभूयुः । बोभूयात् । बोभूयास्ताम् । बोभूयासुः । गातिस्थेति सिचो लुक् । यङो वेतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्वुक् । अबोभूवीत्, अबोभोत् । अबोभूताम् । अबोभूवुः । अबोभविष्यत् ॥ । इति यङ्लुक् प्रक्रिया ॥ अथ नामधातवः सुप आत्मनः क्यच्
yaṅlugantātparasya halādeḥ pitaḥ sārvadhātukasyeḍ vā syāt / bhūsuvoriti guṇaniṣedho yaṅluki bhāṣāyāṃ na, bobhotu, tetikte iti chandasi nipātanāt / bobhavīti, bobhoti / bobhūtaḥ / adabhyastāt / bobhuvati / bobhavāñcakāra, bobhavāmāsa / bobhavitā / bobhaviṣyati / bobhavītu, bobhotu, bobhūtāt / bobhūtām / bobhuvatu / bobhūhi / bobhavāni / abobhavīt, abobhot / abobhūtām / abobhavuḥ / bobhūyāt / bobhūyātām / bobhūyuḥ / bobhūyāt / bobhūyāstām / bobhūyāsuḥ / gātistheti sico luk / yaṅo vetīṭpakṣe guṇaṃ bādhitvā nityatvādvuk / abobhūvīt, abobhot / abobhūtām / abobhūvuḥ / abobhaviṣyat // . iti yaṅluk prakriyā // atha nāmadhātavaḥ supa ātmanaḥ kyac
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.