इक्समीपाद्धलः परो झलादिः सन् कित् । निविविक्षते ॥ गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु ॥ व्ल्क् ७४७ = प् १,३।३२ ॥ कृञः गन्धनं सूचनम् । उत्कुरुते । सूचयतीत्यर्थः । अवक्षेपणं भर्त्सनम् । श्येनो वर्तिकामुत्कुरुते । भर्त्सयतीत्यर्थः । हरिमुपकुरुते । सेवत इत्यर्थः । परदारान् प्रकुरुते । तेषु सहसा प्रवर्तते । एधोदकस्योपस्कुरुते । गुणमाधत्ते । कथाः प्रकुरुते । प्रकथयतीत्यर्थः । शतं प्रकुरुते । धर्मार्थं विनियुङ्क्ते । एषु किम् ? कटं करोति ॥ भुजो ऽनवने
iksamīpāddhalaḥ paro jhalādiḥ san kit / nivivikṣate // gandhanāvakṣepaṇasevanasāhasikyapratiyatnaprakathanopayogeṣu // VLk 747 = P 1,3.32 // kṛñaḥ gandhanaṃ sūcanam / utkurute / sūcayatītyarthaḥ / avakṣepaṇaṃ bhartsanam / śyeno vartikāmutkurute / bhartsayatītyarthaḥ / harimupakurute / sevata ityarthaḥ / paradārān prakurute / teṣu sahasā pravartate / edhodakasyopaskurute / guṇamādhatte / kathāḥ prakurute / prakathayatītyarthaḥ / śataṃ prakurute / dharmārthaṃ viniyuṅkte / eṣu kim ? kaṭaṃ karoti // bhujo 'navane
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.