च्लेश्चिण्स्याद्भावकर्मवाचिनि तशब्दे परे । अभावि । अभाविष्यत, अभविष्यत । अकर्मको ऽप्युपसर्गवशात्सकर्मकः । अनुभूयते आनन्दश्चैत्रेण त्वया मया च । अनुभूयेते । अनुभूयन्ते । त्वमनुभूयसे । अहमनुभूये । अन्वभावि । अन्वभाविषाताम्, अन्वभविषाताम् । णिलोपः । भाव्यते । भावयाञ्चक्रे, भावयाम्बभूवे, भावयामासे । चिण्वदिट् । आभीयत्वेना सिद्धत्वाण्णिलोपः । भाविता, भावयिता । भाविष्यते, भावयिष्यते । अभाव्यत । भाव्येत । भाविषीष्ट, भावयिषीष्ट । अभावि । अभाविषाताम्, अभावयिषाताम् ॥ बुभूष्यते ॥ अकृत्सार्वधातुकयोर्दीर्घः । स्तूयते विष्णुः । स्ताविता, स्तोता । स्ताविष्यते, स्तोष्यते । अस्तावि । अस्ताविषाताम्, अस्तोषाताम् ॥ ऋ गतौ । गुणोर्ऽतीति गुणः । अर्यते ॥ स्मृ स्मरणे । स्मर्यते । सस्मरे । उपदेशग्रहणाच्चिण्वदिट् । आरिता, अर्ता । स्मारिता, स्मर्ता । अनिदितामिति नलोपः । त्रस्यते । इदितस्तु नन्द्यते । संप्रसारणम् । इज्यते ॥ तनोतेर्यकि
cleściṇsyādbhāvakarmavācini taśabde pare / abhāvi / abhāviṣyata, abhaviṣyata / akarmako 'pyupasargavaśātsakarmakaḥ / anubhūyate ānandaścaitreṇa tvayā mayā ca / anubhūyete / anubhūyante / tvamanubhūyase / ahamanubhūye / anvabhāvi / anvabhāviṣātām, anvabhaviṣātām / ṇilopaḥ / bhāvyate / bhāvayāñcakre, bhāvayāmbabhūve, bhāvayāmāse / ciṇvadiṭ / ābhīyatvenā siddhatvāṇṇilopaḥ / bhāvitā, bhāvayitā / bhāviṣyate, bhāvayiṣyate / abhāvyata / bhāvyeta / bhāviṣīṣṭa, bhāvayiṣīṣṭa / abhāvi / abhāviṣātām, abhāvayiṣātām // bubhūṣyate // akṛtsārvadhātukayordīrghaḥ / stūyate viṣṇuḥ / stāvitā, stotā / stāviṣyate, stoṣyate / astāvi / astāviṣātām, astoṣātām // ṛ gatau / guṇor'tīti guṇaḥ / aryate // smṛ smaraṇe / smaryate / sasmare / upadeśagrahaṇācciṇvadiṭ / āritā, artā / smāritā, smartā / aniditāmiti nalopaḥ / trasyate / iditastu nandyate / saṃprasāraṇam / ijyate // tanoteryaki
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.