आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यात् । अणो ऽपवादः । आतो लोप इटि च । गोदः । धनदः । कम्बलदः । अनुपसर्गे किम् ? गोसन्दायः । (वा।) मूलविभुजादिभ्यः कः । मूलानि विभुजति मूलविभुजो रथः । आकृतिगणो ऽयम् । महीध्रः । कुध्रः ॥ चरेष्टः
ādantāddhātoranupasargātkarmaṇyupapade kaḥ syāt / aṇo 'pavādaḥ / āto lopa iṭi ca / godaḥ / dhanadaḥ / kambaladaḥ / anupasarge kim ? gosandāyaḥ / (vā.) mūlavibhujādibhyaḥ kaḥ / mūlāni vibhujati mūlavibhujo rathaḥ / ākṛtigaṇo 'yam / mahīdhraḥ / kudhraḥ // careṣṭaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.