स्त्रीलिङ्गे भावे क्तिन् स्यात् । घञो ऽपवादः । कृतिः । स्तुतिः । (ॠल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः) । तेन नत्वम् । कीर्णिः । लूनिः । धूनिः । पूनिः । (संपदादिभ्यः क्विप्) । संपत् । विपत् । आपत् । (क्तिन्नपीष्यते) । संपत्तिः । विपत्तिः । आपत्तिः ॥ ऊतियूतिजूतिसातिहेतिकीर्तयश्च
strīliṅge bhāve ktin syāt / ghaño 'pavādaḥ / kṛtiḥ / stutiḥ / (ṝlvādibhyaḥ ktinniṣṭhāvadvācyaḥ) / tena natvam / kīrṇiḥ / lūniḥ / dhūniḥ / pūniḥ / (saṃpadādibhyaḥ kvip) / saṃpat / vipat / āpat / (ktinnapīṣyate) / saṃpattiḥ / vipattiḥ / āpattiḥ // ūtiyūtijūtisātihetikīrtayaśca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.