आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात् । आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञकेषु च कृदन्तेषु च । स्मारंस्मारं नमति शिवम् । स्मृत्वास्मृत्वा । पायम्पायम् । भोजम्भोजम् । श्रावंश्रावम् ॥ अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्
ābhīkṣṇye vīpsāyāṃ ca dyotye padasya dvitvaṃ syāt / ābhīkṣṇyaṃ tiṅanteṣvavyayasaṃjñakeṣu ca kṛdanteṣu ca / smāraṃsmāraṃ namati śivam / smṛtvāsmṛtvā / pāyampāyam / bhojambhojam / śrāvaṃśrāvam // anyathaivaṃkathamitthaṃsu siddhāprayogaścet
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.