चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यंन्तं वा प्राग्वत् । यूपाय दारु यूपदारु । (तदर्थेन प्रकृतिविकृतिभाव एवेष्टः) । तेनेह न रन्धनाय स्थाली । (अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्) । द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थं पयः । भूतबलिः । गोहितम् । गोसुखम् । गोरक्षितम् ॥ पञ्चमी भयेन
caturthyantārthāya yat tadvācinā arthādibhiśca caturthyaṃntaṃ vā prāgvat / yūpāya dāru yūpadāru / (tadarthena prakṛtivikṛtibhāva eveṣṭaḥ) / teneha na randhanāya sthālī / (arthena nityasamāso viśeṣyaliṅgatā ceti vaktavyam) / dvijārthaḥ sūpaḥ / dvijārthā yavāgūḥ / dvijārthaṃ payaḥ / bhūtabaliḥ / gohitam / gosukham / gorakṣitam // pañcamī bhayena
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.