* [ * यथा क्षीणधातुर् ऋषिप्रायः सो ऽपि स्पन्दात्मकं बलम् आक्रम्य स्पन्दसमावेशबलेन प्राणप्रमातृभूमिम् असकृद् उत्तेज्य कार्ये ऽवश्यकर्तव्ये कर्मणि प्रवर्तते अशक्यम् अपि वस्तु तद्बलाक्रमणेनैव करोतीत्यर्थः
* [ * yathā kṣīṇadhātur ṛṣiprāyaḥ so 'pi spandātmakaṃ balam ākramya spandasamāveśabalena prāṇapramātṛbhūmim asakṛd uttejya kārye 'vaśyakartavye karmaṇi pravartate aśakyam api vastu tadbalākramaṇenaiva karotītyarthaḥ
Sanskrit only: no published translation is held for this verse.
* तथा यो ऽप्यतिबुभुक्षितः सो ऽपि तद्बलाक्रान्त्या क्षुत्पिपासादि शमयति
* tathā yo 'pyatibubhukṣitaḥ so 'pi tadbalākrāntyā kṣutpipāsādi śamayati
Sanskrit only: no published translation is held for this verse.
* न हि चिद्घनां भूमिम् अनुप्रविष्टस्य द्वंद्वाभिभवः कश्चित् प्राणादिभुव एव तदाश्रयत्वात्तस्याश् चेह चिद्भूमौ निमग्नत्वात्
* na hi cidghanāṃ bhūmim anupraviṣṭasya dvaṃdvābhibhavaḥ kaścit prāṇādibhuva eva tadāśrayatvāttasyāś ceha cidbhūmau nimagnatvāt
Sanskrit only: no published translation is held for this verse.