ततो बृहदश्वस् तत्सूनुर् भानुरथस् तस्य प्रतीताश्वस् तस्यापि सुप्रतीकः । ततो मरुदेवो मरुदेवात् सुनक्षत्रस् तस्मात् किंनरः । किंनर-द् अन्तरिक्षस् तस्मात् सुवर्णस् ततश् चामित्रजित् । ततश् च बृहद्राजस् तस्यापि धर्मी धर्मिणः कृतंजयः । कृतंजयाद् रणंजयो रणंजयात् संजयस् तस्माच् छाक्यः । शाक्याच् छुद्धोदनस् तस्माद् राहुलस् ततः प्रसेनजित् । ततश् च क्षुद्रकस् ततश् च कुण्डकस् तस्माद् अपि सुरथः । तत्पुत्रश् च सुमित्रो ऽन्त्य इत्य् एते चेक्ष्वाकवो बृहद्बलान्वयाः । अत्रानुवंशश्लोकः । इक्ष्वाकूणाम् अयं वंशः सुमित्रान्तो भविष्यति । यतस् तं प्राप्य राजानं स संस्थां प्राप्स्यते कलौ
tato bṛhadaśvas tatsūnur bhānurathas tasya pratītāśvas tasyāpi supratīkaḥ | tato marudevo marudevāt sunakṣatras tasmāt kiṃnaraḥ | kiṃnara-d antarikṣas tasmāt suvarṇas tataś cāmitrajit | tataś ca bṛhadrājas tasyāpi dharmī dharmiṇaḥ kṛtaṃjayaḥ | kṛtaṃjayād raṇaṃjayo raṇaṃjayāt saṃjayas tasmāc chākyaḥ | śākyāc chuddhodanas tasmād rāhulas tataḥ prasenajit | tataś ca kṣudrakas tataś ca kuṇḍakas tasmād api surathaḥ | tatputraś ca sumitro 'ntya ity ete cekṣvākavo bṛhadbalānvayāḥ | atrānuvaṃśaślokaḥ | ikṣvākūṇām ayaṃ vaṃśaḥ sumitrānto bhaviṣyati / yatas taṃ prāpya rājānaṃ sa saṃsthāṃ prāpsyate kalau
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.