अपरिणामिनी हि भोक्तृशक्तिर् अप्रतिसंक्रमा च परिणामिन्य् अर्थे प्रतिसंक्रान्तेव तद्वृत्तिम् अनुपतति। तस्याश् च प्राप्तचैतन्योपग्रहस्वरूपाया बुद्धिवृत्तेर् अनुकारिमात्रतया बुद्धिवृत्त्यविशिष्टा हि ज्ञानवृत्तिर् आख्यायते। तथा चोक्तम्। "न पातालं न च विवरं गिरीणां नैवान्धकारं कुक्षयो नोदधीनाम् । गुहा यस्यां निहितं ब्रह्म शाश्वतं बुद्धिवृत्तिम् अविशिष्टां कवयो वेदयन्ते" इति। ४।२२ अतश् चैतद् अभ्युपगम्यते -- द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थम्
apariṇāminī hi bhoktṛśaktir apratisaṃkramā ca pariṇāminy arthe pratisaṃkrānteva tadvṛttim anupatati. tasyāś ca prāptacaitanyopagrahasvarūpāyā buddhivṛtter anukārimātratayā buddhivṛttyaviśiṣṭā hi jñānavṛttir ākhyāyate. tathā coktam. "na pātālaṃ na ca vivaraṃ girīṇāṃ naivāndhakāraṃ kukṣayo nodadhīnām / guhā yasyāṃ nihitaṃ brahma śāśvataṃ buddhivṛttim aviśiṣṭāṃ kavayo vedayante" iti. 4.22 ataś caitad abhyupagamyate -- draṣṭṛdṛśyoparaktaṃ cittaṃ sarvārtham
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.