0/7 readHide transliteration
सहृदयं सांमनस्यम् अविद्वेषं कृणोमि वः । अन्यो अन्यम् अभि हर्यत वत्सं जातम् इवाघ्न्या ॥१॥
sahṛdayaṃ sāṃmanasyam avidveṣaṃ kṛṇomi vaḥ | anyo anyam abhi haryata vatsaṃ jātam ivāghnyā ||1||
Like-heartedness, like-mindedness, non-hostility do I make for you; do ye show affection (hary) the one toward the other, as the inviolable [cow] toward her calf when born.
Translated by William Dwight Whitney (1905)
← PreviousMark as learned Next →
In this sitting
3.30.1 सहृदयं सांमनस्यम् अविद्वेषं कृणोमि वः । अन्यो अन्यम् अभि हर्यत वत्सं जातम् इवाघ्न्या ॥१॥ 3.30.2 अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः । जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥२॥ 3.30.3 मा भ्राता भ्रातरं द्विक्षन् मा स्वसारम् उत स्वसा । सम्यञ्चः सव्रता भूत्वा वाचं वदत भद्रया ॥३॥ 3.30.4 येन देवा न वियन्ति नो च विद्विषते मिथः । तत् कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ॥४॥ 3.30.5 ज्यायस्वन्तश् चित्तिनो मा वि यौष्ट संराधयन्तः सधुराश् चरन्तः । अन्यो अन्यस्मै वल्गु वदन्त एत सध्रीचीनान् वः संमनसस् क्र्णोमि ॥५॥ 3.30.6 समानी प्रपा सह वो ऽन्नभागः समाने योक्त्रे सह वो युनज्मि । सम्यञ्चो ऽग्निं सपर्यतारा नाभिम् इवाभितः ॥६॥ 3.30.7 सध्रीचीनान् वः संमनसस् कृणोम्य् एकश्नुष्टीन्त् संवननेन सर्वान् । देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु ॥७॥ Which verse says this?
Like-heartedness, like-mindedness, non-hostility do I make for you; do ye show affection (hary) the one toward the other, as the inviolable [cow] toward her calf when born.
Translated by William Dwight Whitney (1905)
सहृदयं सांमनस्यम् अविद्वेषं कृणोमि वः । अन्यो अन्यम् अभि हर्यत वत्सं जातम् इवाघ्न्या ॥१॥ अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः । जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥२॥ समानी प्रपा सह वो ऽन्नभागः समाने योक्त्रे सह वो युनज्मि । सम्यञ्चो ऽग्निं सपर्यतारा नाभिम् इवाभितः ॥६॥ See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.