0/18 readHide transliteration
पशुधर्मो ह वा अग्निः । यथा ह वै पशोर्दक्षिणेषामस्थ्नां यद्दक्षिणं पार्श्वं तदुत्तरेषामुत्तरं यदुत्तरेषां दक्षिणं तद्दक्षिणेषामुत्तरं यदवाक् चोर्ध्वं च तत्समानमेवमिष्टकानां रूपाण्युपदध्यात्
paśudharmo ha vā agniḥ | yathā ha vai paśordakṣiṇeṣāmasthnāṃ yaddakṣiṇaṃ pārśvaṃ taduttareṣāmuttaraṃ yaduttareṣāṃ dakṣiṇaṃ taddakṣiṇeṣāmuttaraṃ yadavāk cordhvaṃ ca tatsamānamevamiṣṭakānāṃ rūpāṇyupadadhyāt
Sanskrit only: no published translation is held for this verse.
← PreviousMark as learned Next →
In this sitting
6.1 पशुधर्मो ह वा अग्निः । यथा ह वै पशोर्दक्षिणेषामस्थ्नां यद्दक्षिणं पार्श्वं तदुत्तरेषामुत्तरं यदुत्तरेषां दक्षिणं तद्दक्षिणेषामुत्तरं यदवाक् चोर्ध्वं च तत्समानमेवमिष्टकानां रूपाण्युपदध्यात् 6.2 या दक्षिणावृतो लेखास्ता दक्षिणत उपदध्यात् सव्यावृत उत्तरतः । ऋजुलेखाः पश्चाच्च पुरस्ताच्च भवन्ति । त्र्यालिखिता मध्ये । अथ या विशयस्था यथा ह वै पशोः पृष्ठवंशो नैवैकस्मिन्पार्श्वे व्यतिरेकेण वर्तते नैवापरस्मिन्नेवं तासामुपधानं प्रतीयात् 6.3 अथापि ब्राह्मणं भवति । प्रजापतिर्वा अथर्वाग्निरेव दध्यङ्ङाथर्वणस्तस्येष्टका अस्थानीति 6.4 तस्माद् बहिस्तन्वं चेच्चिनुयात्तन्वोपप्लवमध्यैरात्मोपप्लवमध्यात् संदध्यात् 6.5 प्राञ्चमेनं चिनुत इति विज्ञायते 6.6 अमृन्मयीभिरनिष्टकाभिर्न संख्यां पूरयेत् 6.7 इष्टकचिद्वा अन्योऽग्निः पशुचिदन्य इत्येतस्माद्ब्राह्मणात् 6.8 पशुर्वा एष यदग्निर्योनिः खलु वा एषा पशोर्विक्रियते यत्प्राचीनमैष्टाकाद्यजुः क्रियत इति च 6.9 लोकबाधीनि द्रव्याण्यवटेषूपदध्यात् 6.10 मण्डलमृषभं विकर्णीमितीष्टकासु लक्ष्माणि प्रतीयात् 6.11 इष्टकामन्त्रयोरिष्टकाव्यतिरेके लोकंपृणाः संप्रद्यन्ते परिमाणाभावात् 6.12 अतीतानेव वेष्टकागणानत्रोपदध्यात् 6.13 पञ्च लोकंपृणाः 6.14 मन्त्रव्यतिरेकेऽक्ताः शर्कराः संधिषूपदध्यात् 6.15 प्राचीरुपदधाति प्रतीचीरुपदधातीति गणेषु रीतिवादः 6.16 प्राचीमुपदधाति प्रतीचीमुपदधातीति कर्तुर्मुखवादः 6.17 पुरस्तादन्याः प्रतीचीरुपदधाति पश्चादन्याः प्राचीरित्यपवर्गः 6.18 चतुरश्रास्वेवैतदुपपद्यते See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.