0/17 readHide transliteration
न खण्डामुपदध्यात् । न भिन्नामुपदध्यात् । न कृष्णामुपदध्यात् । न जीर्णामुपदध्यात् । न लक्ष्मणामुपदध्यात् । न स्वयमातृण्णां स्वयंचितावुपदध्यात्
na khaṇḍāmupadadhyāt | na bhinnāmupadadhyāt | na kṛṣṇāmupadadhyāt | na jīrṇāmupadadhyāt | na lakṣmaṇāmupadadhyāt | na svayamātṛṇṇāṃ svayaṃcitāvupadadhyāt
Sanskrit only: no published translation is held for this verse.
← PreviousMark as learned Next →
In this sitting
7.1 न खण्डामुपदध्यात् । न भिन्नामुपदध्यात् । न कृष्णामुपदध्यात् । न जीर्णामुपदध्यात् । न लक्ष्मणामुपदध्यात् । न स्वयमातृण्णां स्वयंचितावुपदध्यात् 7.2 ऊर्ध्वप्रमाणमिष्टकानां जानोः पञ्चमेन कारयेत् । अर्धेन नाकसदां पञ्चचोडानां च 7.3 यच्छोषपाकाभ्यां प्रतिह्रसेत पुरीषेण तत्संपूरयेत् पुरीषस्यानियतपरिमाणत्वात् 7.4 व्यायाममात्री भवतीति गार्हपत्यचितेर्विज्ञायते 7.5 चतुरश्रेत्येकेषां । परिमण्डलेत्येकेषाम् 7.6 चतुरश्रं सप्तधा विभज्य तिरश्चीं त्रेधा विभजेत् । अपरस्मिन्प्रस्तार उदीचीरुपदधाति 7.7 समचतुरश्राश्चेदुपदध्याद्व्यायामषष्ठेनेष्टकाः कारयेच्चतुर्थेन तृतीयेनेति । तासां नव प्रथमा द्वादश द्वितीया इति पूर्वस्मिन्प्रस्तार उपदधाति । पञ्च तृतीयाः षोडश प्रथमा इत्यपरस्मिन् 7.8 परिमण्डलायां यावत्संभवेत्तावत्समचतुरश्रं कृत्वा तन्नवधा विभजेत् प्रधींस्त्रिधा त्रिधेति । अपरं प्रस्तारं तथोपदध्याद्यथा प्रध्यनीकेषु स्रक्तयो भवन्ति 7.9 धिष्ण्या एकचितीकाश्चतुरश्राः परिमण्डला वा 7.10 तेषामाग्नीध्रीयं नवधा विभज्यैकस्याः स्थानेऽश्मानमुपदध्यात् 7.11 अथ होतुर्धिष्ण्यं नवधा विभज्य पूर्वांस्त्रिभागानेकैकं द्वेधा विभजेत् 7.12 अथेतरान्नवधा नवधा विभज्य मध्यमपूर्वौ द्वौ भागौ समस्येत् 7.13 अथ मार्जालीयं त्रेधा विभज्य पूर्वापरौ भागौ पञ्चधा विभजेत् 7.14 उख्यभस्मना संसृज्येष्टकाः कारयेदिति 7.15 संवत्सरभृत एवैतदुपपद्यते न रात्रिभृतः 7.16 एवमस्य मन्त्रवती चितिकॢप्तिः 7.17 छन्दश्चितं त्रिषाहस्रस्य परस्ताच्चिन्वीत कामविवेकात् तस्य रूपंश्येनाकृतिर्भवतीति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.